वायुः-
इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ
धारिणीं सर्वभूतानामयं प्राप्य वरो नृषु
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणस्सुताम्
सा हि त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम्
अयं सराष्ट्रो नृपतिर्मार्भूदिति ततोऽगमत्
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा
प्रविवेश महीं सद्यो युक्तात्मा सुसमाहितः
ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता
धर्मोत्तरा नष्टभया भूमिरासीत्तमतो नृप
एवं वर्षसहस्राणि दिव्यानि विपुलं व्रतम्
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः
अथागम्य तदा राजन्नमस्कृत्य च कश्यपम्
पृथवी काश्यपी जज्ञे सुता तस्य महात्मनः
भीष्मः-
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत्
अन्यं प्रब्रूहि वाऽपि त्वं कश्यपात्क्षत्रियं वरम्
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीद्वचः
शृणु राजन्नुचथ्यस्य जातस्याङ्गिरसे कुले
भद्रा सोमस्य दुहिता रूपेण परमा मता
तस्यास्तुल्यं पतिं सोम उचथ्यं तममन्यत
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी
उचथ्यं तु महाभागं तत्कृते वरयत्तदा
तत आहूय चोचथ्यं ददामीति यशस्विनीम्
भार्यार्थे स तु जग्राह विधिवद्भूरिदक्षिणः
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव तु
समागम्य वनप्रस्थं यमुनायां जहार ताम्
जलेश्वरस्तु हृत्वा तामनयस्त्वं स्वपुरं प्रति
परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम्
न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम्
प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम्
तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः
तदाख्यातमुचथ्याय ततः पत्न्याश्च मर्दनम्
तच्छ्रुत्वा नारदात्सर्वमुचथ्यो नारदं तदा
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः
मद्वाक्यान्मुञ्च मे भार्यां कस्मात्तां हृतवानसि
लोकपालोसि लोकानां न लोकस्य विलुम्पकः
सोमेन दत्ता भार्या मे त्वया चापहृताऽद्य वै
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः
मुञ्च भार्यामुचथ्यस्येत्यथ तं वरुणोऽब्रवीत्
वरुणः-
ममैषा सुप्रिया भीरुर्नैतामुत्स्रष्टुमुत्सहे
वायुः-
इत्युक्तो वरुणेनाथ नारदः प्राप्य वै मुनिम्
उचथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव
नारदः-
गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने
न प्रयच्छद्धि ते भार्यां यत्ते कार्यं कुरुष्व तत्
वायुः-
नारदस्य वचश्श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः
पीयमाने तु सर्वस्मिंस्तोये तु सलिलेश्वरः
सुहृद्भिः क्षम्यमाणो वै नैव मुञ्चति तां तदा
ततः क्रुद्धोऽब्रवीद्भूमिमुचथ्यो ब्राह्मणोत्तमः
उचथ्यः-
दर्शयस्व बिलं भद्रे षट्सहस्रशतह्रदम्
वायुः-
ततस्तदीरणं जातं समुद्रस्यावसर्पतः
तस्माद्देशान्नदीं चैव प्रोवाचाथ द्विजोत्तमः
उचथ्यः-
अदृश्या गच्छ भीरु त्वं सरस्वति मरूं प्रति
अपुण्यभूषो भवतु देशस्त्यक्तस्तया शुभे
वायुः-
ततश्चूर्णीकृते देशे भद्रामादाय वारिपः
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै
प्रतिगृह्य तु तां भार्यामुचथ्यस्सुमनाऽभवत्
मुमोच च जगद्दुःखान्मरुतश्चैव निर्मलाः
उदथ्यः-
ततस्स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित्
उचथ्यस्सुमहातेजा यत्तुच्छृणु नराधिप
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप
वायुः-
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ
एष राजन्नीदृशो वै उचथ्यो ऋषिसत्तमः
ब्रवीम्यन्यं ब्रूहि वा त्वमुचथ्यात्क्षत्रियं वरम्