उमा-
पितृमेधः कथं देव तन्मे शंसितुमर्हसि
सर्वेषां पितरः पूज्यास्सर्वसम्पत्प्रदायिनः
महेश्वरः-
पितृमेधं प्रवक्ष्यामि यथावत्तन्मनाश्शृणु
देशकालौ विधानं च तत्क्रियायाश्शुभाशुभम्
लोकेषु पितरः पूज्या देवतानां च देवताः
शुचयो निर्मलाः पुण्या दक्षिणां दिशमाश्रिताः
यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठास्सर्वजन्तवः
पितरश्च तथा लोके पितृमेधं शुभेक्षणे
तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती
प्रभासं पुष्करं चेति तेषु दत्तं महाफलम्
तीर्थानि सरितः पुण्या विविक्तानि वनानि च
नदीनां पुलिनानीति देशाश्श्राद्धस्य पूजिताः
माघप्रोष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ
पक्षयोः कृष्णपक्षश्च पूर्वपक्षात्प्रशस्यते
अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च
तिथिष्वेतासु तुष्यन्ति दत्तेनेह पितामहाः
पूर्वाह्णे शुक्लपक्षे च रात्रौ जन्मदिनेषु वा
युग्मेष्वहस्सु च श्राद्धं न च कुर्वीत पण्डितः
एष कालो मया प्रोक्तः पितृमेधस्य पूजितः
यस्मिंश्च ब्राह्म्णं पात्रं पश्येत्कालस्स च स्मृतः
अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास्ते पङ्क्तिपावनाः
भोजयेद्यदि पापिष्ठाञ्श्राद्धेषु नरकं व्रजेत्
वृत्तश्रुतकुलोपेतान्सकलत्रान्गुणान्वितान्
तदर्हाञ्श्रोत्रियान्विद्धि ब्राह्मणानयुजश्शुभे
एतान्निमन्त्रयेद्विद्वान्पूर्वेद्युः प्रातरेव वा
ततश्श्राद्धक्रियां पश्चादारभेत यथाविधि
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरा
कुतपः खङ्गपात्रं च कुशा दर्भास्तिला मधु
कालशाकं गजच्छाया पवित्रं श्राद्धकर्मसु
तिलानवकिरेत्तत्र नानावर्णान्समन्ततः
अशुद्धमपवित्रं तिलैश्शुध्यति शोभने
नीलकाषायवस्त्रं च भिन्नवर्णं नवव्रणम्
हीनाङ्गमशुचिं वाऽपि वर्जयेत्तत्र दूरतः
कुक्कुटांश्च वराहांश्च नग्नं क्लीबं रजस्वलाम्
आयसं त्रपुसीसं च श्राद्धकर्मणि वर्जयेत्
मांसैः प्रीणन्ति पितरो मुद्गमाषयवैरिह
शशरौरवमांसेन षण्मासं तृप्तिरिष्यते
संवत्सरं च गव्येन हविषा पायसेन च
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी
आनन्त्याय भवेद्दत्तं खङ्गमांसं पितृक्षये
पायसं सतिलं क्षौद्रं खङ्गमांसेन सम्मितम्
महाशकलिनो मस्याश्छागो वा सर्वलोहितः
कालशाककमित्येव तदानन्त्यं प्रकल्पितम्
सापूपं सामिषं स्निग्धमाहारमुपकल्पयेत्
उपकल्प्य तदाहारं ब्राह्मणानर्चयेत्ततः
श्मश्रुकर्मशिरस्स्नातान्समारोप्यासनं क्रमात्
सुगन्धमाल्याभरणैस्स्नग्भिरेतान्विभूषयेत्
अलङ्कृत्योपविष्टांस्तान्पिण्डावापं निवेदयेत्
ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखम्
तत्समीपेऽग्निमिद्ध्वा च स्वधां च जुहुयात्ततः
समीपे त्वग्नीषोमाभ्यां पितृभ्यो जुहुयात्तदा
तथा दर्भेषु पिण्डांस्त्रीन्निर्वपेद्दक्षिणामुखः
अपसव्यमपाङ्गुष्ठं नामधेयपुरस्कृतम्
एतेन विधिना दत्तं पितॄणामक्षयं भवेत्
ततो विप्रान्यथाशक्ति पूजयेन्नियतश्शुचिः
सदक्षिणं ससम्भारं यथा तुष्यन्ति ते द्विजाः
यत्र तत्क्रियते तत्र न जल्पन्न जपेन्मिथः
नियम्य वाच्यं देहं च श्राद्धकर्म समारभेत्
ततो निर्वपने वृत्ते तान्पिण्डांस्तदनन्तरम्
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत्
पत्नीं वा मध्यमं पिण्डं पुत्रकामां हि प्राशयेत्
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम्
तृप्तानुत्थाप्य तान्विप्रानन्नशेषं निवेदयेत्
तच्छेषं बहुभिः पश्चात्सभृत्यो भक्षयेन्नरः
एष प्रोक्तस्समासेन पितृयज्ञस्सनातनः
पितरस्तेन तुष्यन्ति कर्ता च फलमाप्नुयात्
अहन्यहनि वा कुर्यान्मासे मासेऽथवा पुनः
संवत्सरं द्विः कुर्याच्च चतुर्वाऽपि स्वशक्तितः
दीर्घायुश्च भवेत्स्वस्थः पितृमेधेन वा पुनः
सपुत्रो बहुभृत्यश्च प्रभूतधनधान्यवान्
श्राद्धदस्स्वर्गमाप्नोति निर्मलं विविधात्मकम्
अप्सरोगणसङ्घुष्टं विरजस्कमनन्तरम्
श्राद्धानि पुष्टिकामा वै ये प्रकुर्वन्ति पण्डिताः
तेषां पुष्टिं प्रजां चैव दास्यन्ति पितरस्सदा
धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुविनाशनम्
कुलसन्धारकं चेति श्राद्धमाहुर्मनीषिणः
उमा-
भगवन्देवदेवेश मृतास्ते भुवि जन्तवः
नानाजातिषु जायन्ते शीघ्रं कर्मवशात्पुनः
पितरस्स्वस्ति ते तत्र कथं तिष्ठन्ति देववत्
पितॄणां कतमो देशः पिण्डानश्नन्ति ते कथम्
अन्ने दत्ते मृतानां तु कथमाप्यायनं भवेत्
एवं मया संशयितं भगवन्वक्तुमर्हसि
नारदः-
एतद्विरुद्धं पृच्छन्त्यां रुद्राण्यां परिषद्भृशम्
बभूव सर्वा मुदिता श्रोतुं हि परमं हितम्
श्रीमहेश्वरः-
स्थाने संशयितं देवि शृणु कल्याणि तत्त्वतः
गुह्यानां परमं गुह्यं हितानां परमं हितम्
यथा देवगणा देवि तथा पितृगणाः प्रिये
दक्षिणस्यां दिशि शुभे सर्वे पितृगणास्स्थिताः
प्रेतानुद्दिश्य या पूजा क्रियते मानुषैरिह
तेन तुष्यन्ति पितरो न प्रेताः पितरस्स्मृताः
उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः
दक्षिणस्यां तथा देवि तुष्यन्ति विविधैर्मखैः
द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम्
तयोर्हव्यक्रिया देवान्कव्यमाप्यायते पितॄन्
प्रसव्यं मङ्गलैर्द्रव्यैर्हव्यकर्म विधीयते
अपसव्यममङ्गल्यैः कव्यं चापि विधीयते
सदेवासुरगन्धर्वाः पितॄनभ्यर्चयन्ति च
आप्यायन्ते च ते श्राद्धैः पुनराप्याययन्ति तान्
अनिष्ट्वा च पितॄन्पूर्वं यः क्रियां प्रकरोति चेत्
रक्षांसि च पिशाचाश्च फलं भोक्ष्यन्ति तस्य तत्
हव्यकव्यक्रियास्तस्मात्कर्तव्या भुवि मानुषैः
कर्मक्षेत्रं हि मानुष्यं तदन्यत्र न विद्यते
कव्येन सन्ततिर्दृष्टा हव्ये भूतिः पृथग्विधाः
इति ते कथितं देवि देवगुह्यं सनातनम्
उमा-
एवं कृतस्य धर्मस्य श्रोतुमिच्छाम्यहं प्रभो
प्रमाणं फलमानानां तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
प्रमाणकल्पनां देवि दानस्य शृणु भामिनि
यत्सारस्तु नरो लोके तद्दानं चोत्तमं स्मृतम्
सर्वदानविधिं प्राहुस्तदेव भुवि शोभने
प्रस्थं धनं दरिद्रस्य शतं कोटिधनस्य च
प्रस्थसारस्तु तत्प्रस्थं ददन्महदवाप्नुयात्
कोटिसारस्तु तां कोटिं ददान्महदवाप्नुयात्
उभयं तन्महत्तच्च फलेनैव समं स्मृतम्
धर्मार्थकामभोगेषु शक्त्यभावस्तु मध्यमम्
स्वद्रव्यादतिहीनं तु तद्दानमधमं स्मृतम्
शृणु दत्तस्य वै देवि पञ्चधा फलकल्पनाम्
आनन्त्यं च महच्चैव समं हीनं हि पातकम्
तेषां विशेषं वक्ष्यामि शृणु देवि समाहिता
दुस्त्यजस्य च वै दानं पात्र आनन्त्यमुच्यते
दानं षङ्गुणयुक्तं तु महदित्यभिधीयते
यथाश्रद्धं तु वै दानं यथार्हं सममुच्यते
गुणतस्तु तथा हीनं दानं हीनमिति स्मृतम्
दानं पातकमित्याहुष्षड्गुणानां विपर्यये
देवलोके महत्कालमान्त्यस्य फलं विदुः
महतस्तु तथा कालं स्वर्गलोके तु पूज्यते
समस्य तु तदा दानं मानुष्यं भोगमावहेत्
दानं निष्फलमित्याहुर्विहीनं क्रियया शुभे
उमा-
अथवा म्लेच्छदेशेषु तत्र तत्फलतां व्रजेत्
नरकं प्रेत्य तिर्यक्षु गच्छेदशुभदानतः
अशुभस्यापि दानस्य शुभं स्याच्च फलं कथम्
श्रीमहेश्वरः-
मनसा तत्वतश्शुद्धमानृशंस्यपुरस्सरम्
प्रीत्या तु सर्वदानानि दत्त्वा फलमवाप्नुयात्
रहस्यं सर्वदानानामेतद्विद्धि शुभेक्षणे
अन्यानि धर्मकार्याणि शृणु सद्भिः कृतानि च
आरामदेवगोष्ठानि सङ्क्रमाः कूप एव च
गोवाटश्च तटाकश्च सभा शाला च सर्वशः
पाषण्डावसथश्चैव पानीयं गोतृणानि च
व्याधितानां च भैषज्यमनाथानां च पोषणम्
अनाथशवसंस्कारस्तीर्थमार्गविशोधनम्
व्यसनाभ्यवपत्तिश्च सर्वेषां च स्वशक्तितः
एतत्सर्वं समासेन धर्मकार्यमिति स्मृतम्
तत्कर्तव्यं मनुष्येण स्वशक्त्या श्रद्धया शुभे
प्रेत्यभावे लभेत्पुण्यं नास्ति तत्र विचारणा
रूपं सौभाग्यमारोग्यं बलं सौख्यं लभेन्नरः
स्वर्गो वा मानुषे वाऽपि तैस्तैराप्यायते हि सः
उमा-
भगवन्लोकपालेश धर्मस्तु कतिभेदकः
दृश्यते परितस्सद्भिस्तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
शृणु देवि समुद्देशान्नानात्वं धर्मसङ्कटे
धर्मा बहुविधा लोके श्रुतिभेदमुखोद्भवाः
स्मृतिधर्मश्च बहुधा सद्भिराचार इष्यते
देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च
जातिधर्माश्च वै धर्मा गणधर्माश्च शोभने
शरीरकालवैषम्यादापद्धर्मश्च दृश्यते
एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः
कारणात्तत्रतत्रैव फलं धर्मस्य चेष्यते
तत्कारणसमायोगे लभेत्कुर्वन्फलं नरः
अन्यथा न लभेत्पुण्यमतदर्हस्समाविशेत्
एवं धर्मस्य नानात्वं फलं कुर्वल्लँभेन्नरः
श्रौतस्मार्तस्तु धर्माणां प्राकृतो धर्म उच्यते
इति ते कथितं देवि भूयश्श्रोतुं किमिच्छसि
उमा-
भगवन्सर्वभूतेश पुरमर्दन शङ्कर
श्रुतं पापकृतां दुःखं यमलोके वरप्रद
श्रोतुमिच्छाम्यहं देव नृणां सुकृतकर्मणाम्
कथं ते भुञ्जते भोगान्स्वर्गलोके महेश्वर
कथिताः कीदृशा लोका नृणां सुकृतकारिणाम्
एतन्मे वद देवश श्रोतुं कौतूहलं हि मे
श्रीमहेश्वरः-
शृणु कल्याणि तत्सर्वं यत्त्वमिच्छसि शोभने
विविधाः पुण्यलोकास्ते कर्मकर्मण्यतां गताः
मेरुं हि कनकात्मानं परितस्सर्वतोदिशम्
भद्राश्चः केतुमालश्च उत्तराः कुरवस्तथा
जम्बूवनादयस्स्वर्गा इत्येते कर्मवर्जिताः
तेषु भूत्वा स्वयम्भूताः प्रदृश्यते यतस्ततः
योजनानां सहस्रं च एकैकं मानमात्रया
नित्यं पुष्पफलोपेतास्तत्र वृक्षास्समन्ततः
आसक्तवस्त्राभरणास्सर्वे कनकसन्निभाः
द्विरेफाश्चाण्डजास्तत्र प्रवालमणिसन्निभाः
विचित्राश्च मनोज्ञाश्च कूजितैश्शोभयन्ति तान्
कुशेशयवनच्छन्ना नलिन्यश्च मनोरमाः
तत्र वात्यनिलो नित्यं दिव्यगन्धसुखावहाः
सर्वे चाम्लानमाल्याश्च विरजोम्बरसंवृताः
एवं बहुविधा देवि दिव्यभोगास्सुखावहाः
स्त्रियश्च पुरुषाश्चैव सर्वे सुकृतकारिणः
रमन्ते तत्र चान्योन्यं कामरागसमन्विताः
मनोहरा महाभागास्सर्वे ललितकुण्डलाः
एवं तत्र स्थिता मर्त्याः प्रमदाः प्रियदर्शनाः
नानाभावसमायुक्ता यौवनस्थास्सदैव तु
युवत्यः कल्पितास्तत्र कामज्ञ ललितास्तथा
मनोनुकूला मधुरा भोगिनामुपकल्पिताः
प्रमदाश्चोद्भवन्त्येव स्वर्गलोके यथा तथा
एवंविधास्स्त्रियश्चात्र पुरुषाश्च परस्परम्
रमन्ते चेन्द्रियैस्स्वस्थै शरीरैर्भोगसंस्कृतैः
कामहर्षगुणाभ्यस्ता नान्ये क्रोधादयः प्रिये
क्षुत्पिपासा न चास्त्यत्रि गात्रक्लेशाश्च शोभने
सर्वतो रमणीयं च सर्वत्र कुसुमान्विम्
यावत्पुण्यफलं तावद्दृश्यन्ते तेषु सङ्गताः
निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः
तत्र भोगान्यथायोगं भुक्त्वा पुण्यक्षयात्पुनः
नश्यन्ति जायमानास्ते शरीरैस्सहसा प्रिये
स्वर्गलोकात्परिभ्रष्टा जायन्ते मानुषे पुनः
पूर्वपुण्यावशेषेण विशिष्टास्सम्भवन्ति ते
एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास्तव भामिनि
अत ऊर्ध्वं पदान्यष्टौ सुकर्माणि शृणु प्रिये
भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम्
विद्याधराः किम्पुरुषा यक्षगन्धर्वकिन्नराः
अप्सरो दानवा देवा यथाक्रममुदाहृताः
तेषु स्थानेषु जायन्ते प्राणिनाः पुण्यकर्मणः
तेषामपि च ये लोकास्स्वर्गलोकोपमास्स्मृताः
स्वर्गवत्तत्र ते भोगान्भुञ्जते च रमन्ति च
रूपसत्त्वबलोपेतास्सर्वे दीर्घायुषस्तथा
तेषां सर्वक्रियारम्भो मानुषेष्विव दृश्यते
अतिमानुषमैश्वर्यमत्र मायाबलात्कृतम्
जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते
गुणदोषाश्च सन्त्यत्र आकाशगमनं तथा
अन्तर्धानम्बलं सत्त्वमायुश्च चिरजीविता
तपोविशेषज्जायन्ते यथा कर्मणि भामिनि
देवलोके प्रवृत्तिस्तु तेषामेव विधीयते
न तथा देवलोको हि तद्विशिष्टास्सुरास्स्मृताः
तत्र भोगमनिर्देश्यममृतत्वं च विद्यते
विमानगमनं नित्यमप्सरोगणसेवितम्
एवमन्यच्च तत्कर्म दैवतेभ्यो विशिष्यते
प्रत्यक्षं तव तत्सर्वं देवलोके प्रवर्तनम्
तस्मान्न वर्णये देवि विदितं च त्वया शुभे
तत्सर्वं सुकृतैरेव प्राप्यते चोत्तमं पदम्