उमा-
भगवन्देवदेवेश शूलपाणे वृषध्वज
श्रुतं मे परमं गुह्यं प्रसादात्ते वरप्रद
श्रोतुं भूयोऽहमिच्छामि प्रजानां हितकारणात्
शुभाशुभमिति प्रोक्तं कर्म स्व स्वं समासतः
तन्मे विस्तरतो ब्रूहि शुभाशुभविधिं प्रति
अशुभं कीदृशं कर्म प्राणिनो यन्निपातयेत्
शुभं वाऽपि कथं देव प्रजानामूर्ध्वदं भवेत्
एतन्मे वद देवेश श्रोतुकामाऽस्मि कीर्तय
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि तत्सर्वं शृणु शोभने
सुकृतं दुष्कृतं चेति द्विविधं कर्मविस्तरम्
तयोर्यद्दुष्कृतं कर्म तच्च सञ्जायते त्रिधा
मनसा कर्मणा वाचा बुद्धिमोहसमुद्भवात्
मनःपूर्वं तु वा कर्म वर्तते वाङ्मयं ततः
जायते वै क्रियायोगमनु चेष्टाक्रमः प्रिये
अभिद्रोहोऽभ्यसूया च परार्थेषु च वै स्पृहा
शुभाशुभानां मर्त्यानां वर्तनं परिवारितम्
धर्मकार्ये यदाऽश्रद्धा पापकर्मणि हर्षणम्
एवमाद्यशुभं कर्म मनसा पापमुच्यते
अनृतं यच्च परुषमबद्धं यच्च शङ्करि
असत्यं परिवादश्च पापमेतत्तु वाङ्मयम्
अगम्यागमनं चैव परदारनिषेवणम्
वधबन्धपरिक्लेशैः परप्राणोपतापनम्
चौर्यं परेषां द्रव्याणां हरणं नाशनं तथा
अभक्ष्यभक्षणं चैव व्यसनेष्वविषङ्गता
दर्पात्स्तम्भाभिमानाच्च परेषामुपतापनम्
अकार्याणां च करणमशौचं पानसेवनम्
दौश्शील्यं पापसम्पर्के साहाय्यं पापकर्मणि
अधर्म्यमयशस्यं च कार्यं तस्य निषेवणम्
एवमाद्यशुभं चान्यच्छारीरं पापमुच्यते
मानसाद्वाङ्मयं पापं विशिष्टमिति लक्ष्यते
वाङ्मयादपि वै पापाच्छारीरं गण्यते बहु
एवं पापयुतं कर्म त्रिविधं पातयेन्नरम्
परोपतापजननमत्यन्तं पातकं स्मृतम्
त्रिविधं तत्कृतं पापं कर्तारं पापकं नयेत्
पातकं चापि यत्कर्म कर्मणा बुद्धिपूर्वकम्
सापदेशमवश्यं तु कर्तव्यमिति तत्कृतम्
कथञ्चित्तत्कृतमपि कर्ता तेन स लिप्यते
उमा-
अवश्यं पापदेशेन प्रतिहन्येत कारणम्
भगवन्पापकं कर्म यथा कृत्वा न लिप्यते
श्रीमहेश्वरः-
यो नरोऽनपराधी च स्वात्मप्राणस्य रक्षणात्
शत्रुमुद्यतशस्त्रं वा पूर्वं तेन हतोऽपि वा
प्रतिहन्यान्नरो हिंस्यान्न स पापेन लिप्यते
चोरादधिकसन्त्रस्तस्तत्प्रतीकारचेष्टया
यः प्रजघ्नन्नरो हन्यान्न स पापेन लिप्यते
ग्रामार्थं भर्तृपिण्डार्थं दीनानुग्रहकारणात्
वधबन्धपरिक्लेशान्कुर्वन्पापात्प्रमुच्यते
दुर्भिक्षे चात्मवृत्त्यर्थमेकायतनगस्तथा
अकार्यं वाऽप्यभक्ष्यं वा कृत्वा पापान्न लिप्यते
विधिरेष गृहस्थानां प्रायेणैवोपदिश्यते
अवाच्यं पापकार्यं वा देशकालवशेन तु
बुद्धिपूर्व नरः कुर्वंस्तत्प्रयोजनमात्रया
किञ्चिदालिप्यते पापैरथवा न च लिप्यते
एवं देवि विजानीहि नास्ति तत्र विचारणा
उमा-
भगवन्पानदोषांश्च पेयापेयत्वकारणम्
एतदिच्छाम्यहं श्रोतुं तन्मे वद महेश्वर
श्रीमहेश्वरः-
हन्त ते कथयिष्यामि पानोत्पत्तिं शुचिस्मिते
पुरा सर्वेऽभवन्मर्त्या बुद्धिमन्तो नयानुगाः
शुचयश्च शुभाचारास्सर्वे चोन्मनसः प्रिये
एवम्भूते तदा लोके प्रेष्यकृन्न परस्परम्
प्रेष्याभावान्मनुष्याणां कर्मारम्भो ननाश ह
उभयोर्लोकयोर्नाशं दृष्ट्वा कर्मक्षयात्प्रभुः
यज्ञकर्म कथं लोके वर्तेतेति पितामहः
आज्ञापयत्सुरां देवि मोहयस्वेति मानुषान्
तमसस्सारमुद्धृत्य पानं बुद्धिप्रणाशनम्
न्यपातयन्मनुष्येषु पापदोषावहं प्रिये
तदाप्रभृति तत्पानान्मुमुहुर्मानवा भुवि
कार्याकार्यमजानन्तो वाच्यावाच्यं गुणागुणम्
केचिद्धसन्ति तत्पीत्वा प्रवदन्ति तथा परे
नृत्यन्ति मुदिताः केचिद्गायन्ति च शुभाशुभान्
कलिं ते कुर्वतेऽभीष्टं प्रहरन्ति परस्परम्
क्वचिद्धावन्ति सहसा प्रस्खलन्ति पतन्ति च
अयुक्तं बहु भाषन्ते यत्र क्वचन शोभने
नग्ना विक्षिप्य गात्राणि नष्टज्ञाना इवासते
एवं बहुविधान्भावान्कुर्वन्ति भ्रान्तचेतनाः
ये पिबन्ति महामोहं पानं पापयुता नराः
धृतिं लज्जां च बुद्धिं च पानं पीतं प्रणाशयेत्
तस्मान्नरास्सम्भवन्ति निर्लज्जा निरपत्रपाः
बुद्धिसत्वैः परिक्षीणास्तेजोहीना मलान्विताः
पीत्वा पीत्वा तृषायुक्ताः पानपास्सम्भवन्ति च
पानकामाः पानकथाः पानकालाभिकाङ्क्षिणः
पानार्थं वश्यकामास्ते सम्भवन्ति नराधमाः
पानकामास्तृषायोगाद्बुद्धिसत्वपरिक्षयात्
पानदानां प्रेष्यकाराः पानपास्सहसाऽभवन्
तदाप्रभृति वै लोके दीनैः पानवशैर्नरैः
कारयन्ति च कर्माणि बुद्धिमन्तस्तु पानदाः
कारुत्वमथ दासत्वं प्रेष्यतामेत्य पानपाः
सर्वकर्मकराश्चासन्पशुवद्रज्जुबन्धिताः
पानपस्तु सुरां पीत्वा तदा बुद्धिप्रणाशनात्
कार्याकार्यस्य चाज्ञानाद्यथेष्टकरणात्स्वयम्
विदुषामविधेयत्वात्पापमेवाभिपद्यते
परिभूतो भवेल्लोके मद्यपो मित्रभेदकः
सर्वकालमशुद्धश्च सर्वभक्षस्तथा भवेत्
विनष्टो ज्ञातिविद्वद्भ्यस्सततं कलिभावगः
परुषं कटुकं घोरं वाक्यं वदति सर्वशः
गुरूनतिवदेन्मत्तः परदारान्प्रधर्षयेत्
संविदं कुरुते शौण्डेर्न शृणोति हितं क्वचित्
एवं बहुविधा दोषाः पानपे सन्ति शोभने
केवलं नरकं यान्ति नास्ति तत्र विचारणा
तस्मात्तद्वर्जितं सद्भिः पानमात्महितैषिभिः
यदि पानं न वर्जेरन्सन्तश्चारित्रकारणात्
भवेदेतज्जगत्सर्वममर्यादं च निष्क्रियम्
तस्माद्बुद्धेर्हि रक्षार्थं सद्भिः पानं विवर्जितम्
इति ते दुष्कृतं सर्वं कथितं त्रिविधं प्रिये
विधानं सुकृतस्यापि भूयश्शृणु शुचिस्मिते
प्रोच्यते तत्त्रिधा देवि सुकृतं च समासतः
यदौपरमिकं चैव सुकृतं निरुपद्रवम्
तथैव सोपकरणं तावता सुकृतं विदुः
निवृत्तिः पापकर्मभ्यस्तदौपरमिकं प्रिये
मनोवाक्कायजा दोषाश्शृणु मे वर्जनाच्छुभम्
त्रैविध्यदोषोपरमे यस्तु दोषव्यपेक्षया
स हि प्राप्नोति सकलं सर्वदुष्कृतवर्जनात्
प्रथमं वर्जयेद्दोषान्युगपत्पृथगेव वा
तथा धर्ममवाप्नोति दोषत्यागो हि दुष्करः
दोषसाकल्यसन्त्यागान्मुनिर्भवति मानवः
सौकर्यं पश्य धर्मस्य कार्यारम्भादृतेऽपि च
आत्मोपलब्धोपरमाल्लभन्ते सुकृतं परम्
अहो नृशंसाः पच्यन्ते मानुषास्स्वल्पबुद्धयः
ये तादृशं न बुध्यन्ते आत्माधीनं न निर्वृताः
दुष्कृतत्यागमात्रेण पदमूर्ध्वं हि लभ्यते
पापभीरुत्वमात्रेण दोषाणां परिवर्जनात्
सुशोभनो भवेद्देवि ॠजुर्धर्मव्यपेक्षया
इत्यौपरमिकं देवि कथितं सुकृतं तव
श्रुत्वा च वृद्धसंयोगादिन्द्रियाणां च निग्रहात्
सन्तोषाच्च धृतेश्चैव शक्यते दोषवर्जनम्
तदेव धर्ममित्याहुर्दोषसंयमनं प्रिये
यमधर्मेण धर्मोस्ति नान्यश्शुभतरः प्रिये
यमधर्मेण यतयः प्राप्नुवन्त्युत्तमां गतिम्
ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम्
सफलो दोषसन्त्यागो दानादपि शुभादपि
तपो दानं महादेवि दोषमल्पं हि निर्भरेत्
सुकृतं यामिकं चोक्तं वक्ष्ये निरुपसाधनम्
सुखाभिसन्धिर्लोकानां सत्यं शौचमथार्जवम्
व्रतोपवासः प्रीतिश्च ब्रह्मचर्यं दमश्शमः
एवमादि शुभं कर्म सुकृतं नियमाश्रितम्
शृणु तेषां विशेषांश्च कीर्तयिष्यामि भामिनि
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव
नास्ति सत्यात्परं दानं नास्ति सत्यात्परं तपः
यथा श्रुतं यथा दृष्टमात्मना यद्यथा कृतम्
तथा तस्याविकारेण वचनं सत्यलक्षणम्
यच्छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत्
सत्यमेव प्रवक्तव्यं पारावर्यं विजानता
दीर्घायुश्च भवेत्सत्यात्कुलसन्तानपालकः
लोकसंस्थितिपालश्च भवेत्सत्येन मानवः
उमा-
कथं सन्धारयन्मर्त्यो व्रतं शुभमवाप्नुयात्
श्रीमहेश्वरः-
पूर्वमुक्तं तु यत्पापं मनोवाक्कायकर्मभिः
व्रतवत्तस्य सन्त्यागस्तपोव्रतमिति स्मृतम्
त्याज्यं वा यदि वा जोष्यमव्रतेनि वृथा चरन्
तथा फलं न लभते तस्माद्धर्मं वृथा चरेत्
शुद्धकायो नरो भूत्वा स्नात्वा तीर्थ यथाविधि
पञ्चभूतानि चन्द्रार्कौ सन्ध्ये धर्मयमौ पितॄन्
आत्मनैव तथाऽऽत्मानं निवेद्य व्रतवच्चरेत्
व्रतमामरणाद्वाऽपि कालच्छेदेन वा हरेत्
शाकादिषु व्रतं कुर्यात्तथा पुष्पफलादिषु
ब्रह्मचर्यव्रतं कुर्यादुपवासव्रतं तथा
एवमन्येषु बहुषु व्रतं कार्यं हितैषिणा
व्रतभङ्गो यथा न स्याद्रक्षितव्यं तथा बुधैः
व्रतभङ्गो महत्पापमिति विद्धि शुभेक्षणे
औषधार्थं यदज्ञानाद्गुरूणां वचनादपि
अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते
व्रतापवर्गकाले तु दैवब्राह्मणपूजनम्
नरेण तु यथा विद्धि कार्यसिद्धिं यथाऽऽप्तुयात्
उमा-
कथं शौचविधिस्तत्र तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
बाह्ममाभ्यन्तरं चेति द्विविधं शौचमिष्यते
मानसं सुकृतं यत्तच्छौचमाभ्यन्तरं स्मृतम्
सदाऽऽहारविशुद्धिश्च कायप्रक्षालनं च यत्
बाह्यशौचं भवेदेतत्तथैवाचमनादिना
मृच्चैव शुद्धदेशस्था गोशकृन्मूत्रमेव च
द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च
एतैस्सम्मार्जनैः कायमम्भसा च पुनः पुनः
अक्षोभ्यं यत्प्रकीर्णं च नित्यस्रोतं च यज्जलम्
प्रायशस्तादृशे मज्जेदन्यथा च विवर्जयेत्
त्रिस्त्रिराचमनं श्रेष्ठं निष्फेनैर्निर्मलैर्जलैः
तथा विण्मूत्रयोः शुद्धिरद्भिर्बहुमृदा भवेत्
तथैव जलसंशुद्धिर्यत्संशुद्धं तु संस्पृशेत्
शकृता भूमिशुद्धिस्स्याल्लौहानां भस्मना स्मृतम्
तक्षणं घर्षणं चैव दारवाणां विशोधनम्
दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम्
शेषाणां देवि सर्वेषामातपेन जलेन च
ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत्
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते
एवमापदि संशुद्धिरेवं शौचं विधीयते
उमा-
आहारशुद्धिस्तु कथं देवदेव महेश्वर
श्रीमहेश्वरः-
अमांसमद्यमक्लेद्यमपर्युषितमेव च
अतिकट्वम्ललवणहनं च शुभगन्धि च
क्रिमिकेशमलैर्हीनं संवृतं शुद्धदर्शम्
एवंविधं सदाहार्यं देवब्राह्मणसात्कृतम्
श्रुतमित्येव तज्ज्ञेयमन्यथा मन्यसेऽशुभम्
ग्राम्यादारण्यकैस्सिद्धं श्रेष्ठमित्यवधारय
अतिमात्रगृहीतात्तु अल्पदत्तं भवेच्छुचि
यज्ञशेषं हविश्शेषं पितृशेषं च निर्मलम्
इति ते कथितं देवि भूयश्श्रोतुं किमिच्छसि
उमा-
भक्षयन्त्यपरे मांसं वर्जयन्त्यपरे विभो
तन्मे वद महादेव भक्ष्याभक्ष्यविनिर्णयम्
श्रीमहेश्वरः-
मांसस्य भक्षणे दोषो यश्चास्याभक्षणे गुणः
तदहं कीर्तयिष्यामि तन्निबोध यथातथम्
इष्टं दत्तमधीतं च क्रतवश्च सदक्षिणाः
अमांसभक्षणस्यैव कलां नार्हन्ति षोडशीम्
आत्मार्थं यः परप्राणान्हिस्यात्स्वादुफलेप्सया
व्यालगृध्रसृगालैश्च राक्षसैश्च समस्तु सः
यो वृथा नित्यमांसाशी स पुमानधमो भवेत्
ततः कष्टतरं नास्ति स्वयमाहृत्य भक्षणात्
स्वमांसं परमांसेन यो वर्धयितुमिच्छति
उद्विग्नवासं लभते यत्र यत्रोपजायते
सञ्छेदनं स्वमांसस्य यथा सञ्जनयेद्रुजम्
तथैव परमांसेऽपि वेदितव्यं विजानता
यस्तु सर्वाणि मांसानि यावज्जीवं न भक्षयेत्
स स्वर्गे विपुलं स्थानं लभते नात्र संशयः
यत्तु वर्षशतं पूर्णं तप्यते परमं तपः
यच्चापि वर्जयेन्मांसं सममेतन्न वा समम्
न हि प्राणैः प्रियतमं लोके किञ्चन विद्यते
तस्मात्प्राणिदया कार्या यथाऽऽत्मनि तथा परे
सर्वे यज्ञा न तत्कुर्युस्सर्वे देवाश्च भामिनि
यो मांसरसमास्वाद्य पुनर्मासं विवर्जयेत्
इत्येवं मुनयः प्राहुर्मांसस्याभक्षणे गुणान्
एवं बहुगुणं देवि नृणां मांसविवर्जनम्
न शक्नुयाद्यदाऽतीव त्यक्तं मांसं कथञ्चन
पुण्यं तन्मासमात्रं वा वर्जनीयं विशेषतः
न शक्नुयादपि तथा कौमुदीमासमेव च
जन्मनक्षत्रतिथिषु सदा पर्वसु रात्रिषु
वर्जनीयं तथा मांसं परत्र हितमिच्छता
अशक्तः कारणान्मर्त्यो भोक्तुमिच्छेद्विधिं शृणु
अनेनि खादन्विधिना कलुषेण न लिप्यते
सूनायां च गतप्राणान्क्रीत्वा न्यायेन भामिनि
ब्राह्मणातिथिपूजार्थं भोक्तव्यं हितमिच्छता
भैषज्यकारणाद्व्याधौ खादन्पापैर्न लिप्यते
पितृशेषं तथैवाश्नन्मांसं नाशुभमृच्छति
उमा-
गुरुपूजा कथं देव क्रियते धर्मचारिभिः
श्रीमहेश्वरः-
गुरुपूजां प्रवक्ष्यामि यथावत्तव शोभने
कृतज्ञानां परो धर्म इति वेदानुशासनम्
तस्मात्स्वगुरवः पूज्यास्ते हि पूर्वोपकारिणः
गुरूणां च गरीयांसस्त्रयो लोकेषु पूजिताः
उपाध्यायः पिता माता सम्पूज्यास्ते विशेषतः
ये पितुर्भ्रातरो ज्येष्ठा ये च तस्यानुजास्तथा
पितुः पिता च सर्वे ते पूजनीयाः पिता तथा
मातुर्या भगिनी ज्येष्ठा मातुर्या च यवीयसी
मातामही च धात्री च सर्वास्ता मातरस्स्मृताः
उपाध्यायस्य यः पुत्रो यश्च तस्य भवेद्गुरुः
ऋत्विग्गुरुः पिता चेति गुरवस्सम्प्रकीर्तिताः
ज्येष्ठो भ्राता नरेन्द्रश्च मातुलः श्वशुरस्तथा
भयत्राता च भर्ता च गुरवस्ते प्रकीर्तिताः
इत्येष कथितस्साध्वि गुरूणां सर्वसङ्ग्रहः
अनुवृत्तिं च पूजां च तेषामपि निबोध मे
आराध्या मातापितरावुपाध्यायस्तथैव च
कथञ्चिन्नावमन्तव्या नरेण हितमिच्छता
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः
येन प्रीणाति चेन्माता प्रीतास्स्युर्देवमातरः
ये प्रीणात्युपाध्यायो ब्रह्मा तेनाभिपूजितः
अप्रीतेषु पुनस्तेषु नरो नरकमेति हि
गुरूणां वैरनिर्बन्धो न कर्तव्यः कथञ्चन
नरकं स्वगुरुप्रीत्या मनसाऽपि न गच्छति
न ब्रूयाद्विप्रियं तेषामनिष्टं न प्रवर्तयेत्
विगृह्य न वदेत्तेषां समीपे स्पर्धया क्वचित्
यद्यदिच्छन्ति ते कर्तुमस्वतन्त्रस्तदाचरेत्
वेदानुशासनसमं गुरुशासनमिष्यते
कलहांश्च विवादांश्च गुरुभिस्सह वर्जयेत्
कैतवं परिहासांश्च मन्युकामाश्रयांस्तथाः
गुरूणां योऽनहंवादी करोत्याज्ञामतन्द्रितः
न तस्मात्सर्वमर्त्येषु विद्यते पुण्यकृत्तमः
असूयामपवादं च गुरूणां परिवर्जयेत्
तेषां प्रियहितान्वेषी भूत्वा परिचरेत्सदा
न तद्यज्ञफलं कुर्यात्तपो वाऽऽचरितं महत्
यत्कुर्यात्पुरुषस्येह गुरुपूजा सदा कृता
अनुवृत्तेर्विना धर्मो नास्ति सर्वाश्रमेष्वपि
तस्मात्क्षमावृतः क्षान्तो गुरुवृत्तिं समाचरेत्
स्वमर्थं स्वशरीरं च गुर्वर्थे सन्त्यजेद्बुधः
विवादं धनहेतोर्वा मोहाद्वा तैर्न रोचयेत्
ब्रह्मचर्यमहिंसा च दानानि विविधानि च
गुरुभिः प्रतिषिद्धस्य सर्वमेतपार्थकम्
उपाध्यायं पितरं मातरं च येऽभिद्रुह्युर्मनसा कर्मणा वा
तेषां पापं भ्रूणहत्याविशिष्टं तेभ्यो नान्यः पापकृदस्ति लोके
उमा-
उपवासविधिं तत्र तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
शरीरमलशान्त्यर्थमिन्द्रियोच्छोषणाय च
एकभुक्तोपवासैस्तु धारयन्ते व्रतं नराः
लभन्ते विपुलं धर्मं तथाऽऽहारपरिक्षयात्
बहूनामुपरोधं तु न कुर्यादात्मकारणात्
जीवोपघातं च तथा स जीवन्धन्य इष्यते
तस्मात्पुण्यं लभेन्मर्त्यस्स्वयमाहारकर्शनात्
तद्गृहस्थैर्यथाशक्ति कर्तव्यमिति निश्चयः
उपवासार्दिते काये आपदर्शं पयो जलम्
भुञ्जन्नप्रतिघाती स्याद्ब्राह्मणाननुमान्य च
उमा-
श्रीमहेश्वरः-
ब्रह्मचर्यं कथं देव रक्षितव्यं विजानता
तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता
ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः
केवलं ब्रह्मचर्येणि प्राप्यते परमं पदम्
सङ्कल्पाद्दर्शनाच्चैव तद्युक्तवचनादपि
संस्पर्शादथ संयोगात्पञ्चधा रक्षितं व्रतम्
व्रतवद्धारितं चैव ब्रह्मचर्यमकल्मषम्
नित्यं संरक्षितं तस्य नैष्ठिकानां विधियते
तदिष्यते गृहस्थानां कालमुद्दिश्य कारणम्
जन्मनक्षत्रयोगेषु पुण्यवासेषु पर्वसु
देवताधर्मकार्येषु ब्रह्मचर्यव्रतं चरेत्
ब्रह्मचर्यव्रतफलं लभेद्दारव्रती सदा
शौचमायुस्तथाऽऽरोग्यं लभ्यते ब्रह्मचारिभिः
उमा-
तीर्थचर्याव्रतं देव क्रियते धर्मकाङ्क्षिभि
कानि तीर्थानि लोकेषु तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
हन्त ते कथयिष्यामि तीर्थस्नानविधिं प्रिये
पावनार्थं च शौचार्थं ब्रह्मणा निर्मितं पुरा
यास्तु लोके महानद्यस्तास्सर्वास्तीर्थसञ्ज्ञिताः
तासां प्राक्स्रोतसश्श्रेष्ठास्सङ्गमश्च परस्परम्
तासां सागरसंयोगो वरिष्ठश्चेति विद्यते
तासामुभयतः कूलं तत्र तत्र मनीषिभिः
देवैर्वा सेवितं देवि तत्तीर्थं परमं स्मृतम्
समुद्रश्च महातीर्थं पावनं परमं शुभम्
तस्य कूलगतास्तीर्था महद्भिश्च समाप्लुताः
स्रोतसां पर्वतानां च जोषितानां महर्षिभिः
अपि कूलं तटाकं वा सेवितं मुनिभिः प्रिये
तत्तु तीर्थमिति ज्ञेयं प्रभावात्तु तपस्विनाम्
तदाप्रभृति तीर्थत्वं लेभेल्लोकहिताय वै
एवं तीर्थं भवेद्देवि तस्य स्नानविधिं शृणु
जन्मना व्रतभूयिष्ठो गत्वा तीर्थानि काङ्क्षया
उपवासत्रयं कुर्यादेकं वा नियमान्वितः
पुण्यमासेवते काले पौर्णमास्यां यथाविधि
बहिरेव शुचिर्भूत्वा तत्तीर्थं मन्मना विशेत्
त्रिराप्लुत्य जलाभ्याशे दत्त्वा ब्राह्मणदक्षिणाम्
अभ्यर्च्य देवायतनं ततः प्रायाद्यथागतम्
एतद्विधानं सर्वेषां तीर्थं तीर्थमिति प्रिये
समीपतीर्थस्नानात्तु दूरतीर्थं सुपूजितम्
आदिप्रभृतिशुद्धस्य तीर्थस्नानं शुभं भवेत्
तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम्
एवं पुण्येषु तीर्थेषु तीर्थस्नानं शुभं भवेत्
एतन्नैयमिकं सर्वं सुकृतं कथितं तव
एतदर्थमवाप्नोति नरः प्रेत्य शुभेक्षणे
उमा-
लोकसिद्धं तु यद्द्रव्यं सर्वसाधारणं भवेत्
तददत्सर्वसामान्यं कथं धर्मं लभेन्नरः
एवं साधारणे द्रव्ये तस्य स्वत्वं कथं भवेत्
श्रीमहेश्वरः-
लोके भूतमयं द्रव्यं सर्वसाधारणं तथा
तथैव तद्ददन्मर्त्यो लभेत्पुण्यं स तच्छृणु
दाता प्रतिग्रहीता च देयं सोपक्रमं तथा
देशकालौ च यत्त्वेतद्दानं षङ्गुणमुच्यते
तेषां सम्पद्विशेषांश्च कीर्त्यमानान्निबोध मे
आदिप्रभृति यश्शुद्धो मनोवाक्कायकर्मभिः
सत्यवादी जितक्रोधस्त्वलुब्धो नाभ्यसूयकः
श्रुद्धावानास्तिकश्चैवक एवं दाता प्रशस्यते
शुद्धो दान्तो जितक्रोधस्तथाऽदीनकुलोद्भवः
श्रुतचारित्रसम्पन्नस्तथा बहुकलत्रवान्
पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान्
एतान्पात्रगुणान्विद्धि तादृक्पात्रं प्रशस्यते
पितृदेवाग्निकार्येषु तस्य दत्तं महाफलम्
यद्यदर्हति यो लोके पात्रं तस्य भवेच्च सः
मुच्येदापदमापन्नो येन पात्रं तदस्य तु
अन्नस्य क्षुधितं पात्रं तृषितं तु जलस्य वै
एवं पात्रेषु नानात्वमिष्यते पुरुषं प्रति
जारश्चोरश्च षण्डश्च हिंस्रस्समयभेदकः
लोकविघ्नकराश्चान्ये वर्जितव्यास्सर्वशः प्रिये
परोपघाताद्यद्द्रव्यं चौर्याद्वा लभ्यते नृभिः
निर्दयाल्लभ्यते यच्च धूर्तभावेन वै तथा
अधर्मादर्थमोहाद्वा बहूनामुपरोधनात्
लभ्यते यद्धनं देवि तदत्यन्तविगर्हितम्
तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि
तस्मान्न्यायागतेनैव दातव्यं शुभमिच्छता
यद्यदात्मप्रियं नित्यं तत्तद्देयमिति स्थितिः
उपक्रममिमं विद्धि दातॄणां परमं हितम्
पात्रभूतं तु दूरस्थमभिगम्य प्रसाद्य च
दाता दानं तथा दद्याद्यथा तुष्येत तेन सः
एष दानविधइश्श्रेष्ठस्समाहूय तु मध्यमः
पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च
शौचाचमनसंयुक्तं दातव्यं श्रद्धया प्रिये
याचितॄणां तु परममाभिमुख्यं पुरस्कृतम्
सम्मानपूर्वं सङ्ग्राह्यं दातव्यं देशकालयो
अपात्रेभ्योऽपि चान्येभ्यो दातव्यं भूतिमिच्छता
पात्राणि सम्परीक्ष्यैव दात्रा वै दानमात्रया
अतिशक्त्या परं दानं यथाशक्त्या तु मध्यमम्
तृतीयं चापरं दानं नानुरूपमिवात्मनः
यथा सम्भावितं पूर्वं दातव्यं तत्तथैव च
पुण्यक्षेत्रेषु यद्दत्तं पुण्यकालेषु वा यथा
तच्छोभनतरं विद्धि गौरवाद्देशकालयोः
उमा-
यश्च पुण्यतमो देशस्तथा कालश्च शंस मे
श्रीमहेश्वरः-
कुरुक्षेत्रं महानन्यो यश्च देवर्षिसेवितः
गिरिर्वरश्च तीर्थानि देशभागेषु पूजितः
ग्रहीतुमीप्सितो यत्र तत्र दत्तं महाफलम्॥
शरद्वसन्तकालश्च पुण्यमासस्तथैव च
शुक्लपक्षश्च पक्षाणां पौर्णमासी च पर्वसु
पितृदैवतनक्षत्रनिर्मलो दिवसस्तथा
तच्छोभनतरं विद्धि चन्द्रसूर्यग्रहे तथा
प्रतिग्रहीतुर्यः कालो मनसा कीर्तितश्शुभे
एवमादिषु कालेषु दत्तं दानं महद्भवेत्
दाता देयं च पात्रं च उपक्रमयुता क्रिया
देशकालं तथा तेषां सम्पच्छुद्धिः प्रकीर्तिता
यथैव युगपत्सम्पत्तत्र दानं महद्भवेत्
अत्यल्पमपि यद्दानमेभिष्षड्भिर्गुणैर्युतम्
भूत्वाऽनन्तं नयेत्स्वर्गं दातारं दोषवर्जितम्
सुमहद्वाऽपि यद्दानं गुणैरेभिर्विनाकृतम्
अत्यल्पफलनिर्योगमफलं वा फलोद्धतम्
उमा-
श्रीमहेश्वरः-
एवङ्गुणयुतं दानं दत्तं च फलतां व्रजेत्
तदस्ति चेन्महद्देयं तन्मे शंसितुमर्हसि
तदप्यस्ति महाभागे नराणां भावदोषतः
कृत्वा धर्मं तु विधिवत्पश्चात्तापं करोति चेत्
श्लाघया वा यदि ब्रूयाद्वृथा संसदिं यत्कृतम्
प्रकल्पयेच्च मनसा तत्फलं प्रेत्यभावतः
कर्म धर्मकृतं यच्च सततं फलकाङ्क्षया
एतत्कृतं वा दत्तं वा परत्र विफलं भवेत्
एते दोषा विवर्ज्याश्च दातृभिः पुण्यकाङ्क्षिभिः
सनातनमिदं वृत्तं सद्भिराचरितं तथा
अनुग्रहात्परेषां तु गृहस्थानामृणं हि तत्
इत्येवं मन आविश्य दातव्यं सततं बुधैः
एवमेव कृतं नित्यं सुकृतं तद्भवेन्महत्
सर्वसाधारणं द्रव्यमेवं दत्त्वा महत्फलम्
उमा-
भगवन्कानि देयानि धर्ममुद्दिश्य मानवैः
तान्यहं श्रोतुमिच्छामि तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
अजस्रं धर्मकार्यं च तथा नैमित्तिकं प्रिये
अन्नं प्रतिश्रयो दीपः पानीयं तृणमिन्धनम्
स्नेहो गन्धश्च भैषज्यं तिलाश्च लवणं तथा
एवमादि तथाऽन्यश्च दानमाजस्रमुच्यते
अजस्रदानात्सततमाजस्रमिति निश्चितम्
सामान्यं सर्ववर्णानां दानं शृणु समाहिता
अन्नं प्राणो मनुष्याणामन्नदः प्राणदो भवेत्
तस्माकदन्नं विशेषेण दातुमिच्छति मानवः
ब्राह्मणायाभिरूपाय यो दद्यादन्नमीप्सितम्
निदधाति निधिश्रेष्ठं सोऽनन्तं पारलौकिकम्
श्रान्तमध्वपरिश्रान्तमतिथिं गृहमागतम्
अर्चयीत प्रयत्नेन स हि यज्ञो वरप्रदः
कृत्वा तु पापकं कर्म यो दद्यादन्नमर्थिनाम्
ब्राह्मणानां विशेषेण सोऽपहन्ति स्वकं तमः
पितरस्तस्य नन्दन्ति सुवृष्ट्या कर्षका इव
पुत्रो यस्य तु पौत्रो वा श्रोत्रियं भोजयिष्यति
अपि चण्डालशूद्राणामन्नदानं न गर्ह्यते
तस्मात्सर्वप्रयत्नेन दद्यादन्नममत्सरः
कलत्रं पीडयित्वाऽपि पोषयेदतिथीन्सदा
जन्मापि मानुषे लोके तदर्थं हि विधीयते
अन्नदानाच्च लोकांस्तान्सम्प्रवक्ष्याम्यनिन्दिते
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्
अनेकशतभौमानि सान्तर्जलवनानि च
वैडूर्यार्चिःप्रकाशानि हेमरूप्यमयानि च
नानारूपाणि संस्थानां नानारत्नमयानि च
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च
तरुणादित्यवर्णानि स्थावराणि चराणि च
यथेष्टभक्ष्यभोज्यानि शयनासनवन्ति च
सर्वकामफलाश्चात्र वृक्षा भवनसंस्थिताः
वाप्यो बह्व्यश्च कूपाश्च दीर्घिकाश्च सहस्रशः
अरुजानि विशोकानि नित्यानि विविधानि च
भवनानि विचित्राणि प्राणदानां त्रिविष्टपे
विवस्वतश्च सोमस्य ब्रह्मणश्च प्रजापतेः
विशन्ति लोकांस्ते नित्यं जगत्यन्नोदकप्रदाः
तत्र ते सुचिरं कालं विहृत्याप्सरसां गणैः
जायन्ते मानुषे लोके सर्वकल्याणसंयुताः
बलसंहननोपेता नीरोगाश्चिरजीविनः
कुलीना मतिमन्तश्च भवन्त्यन्नप्रदा नराः
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता
सर्वकालं च सर्वस्य सर्वत्र च सदैव च
सुवर्णदानं परमं स्वर्ग्यं स्वस्त्ययनं महत्
तस्मात्ते वर्णयिष्यामि यथावदनुपूर्वशः
अपि पापकृतं क्रूरं दत्तं रुक्मं प्रकाशयेत्
सुवर्णं ये प्रयच्छन्ति श्रोत्रिभेभ्यस्सुचेतसः
देवतास्ते तर्पयन्ति समस्ता इति वैदिकम्
अग्निर्हि देवतास्सर्वास्सुवर्णं चाग्निरुच्यते
तस्मात्सुवर्णदानेन तृप्तास्स्युस्सर्वदेवताः
अग्न्यभावे तु कुर्वन्ति वह्निस्थानेषु काञ्चनम्
तस्मात्सुवर्णदातारस्सर्वान्कामानवाप्नुयुः
आदित्यस्य हुताशस्य लोकान्नानाविधाञ्शुभान्
काञ्चनं सम्प्रदायाशु प्रविशन्ति न संशयः
अलङ्कारं कृतं चापि केवलान्प्रविशिष्यते
सौवर्णैर्ब्राह्मणं काले तैरलङ्कृत्य भोजयेत्
य एतत्परमं दानं दत्त्वा सौवर्णमद्भुतम्
द्युतिं मेधां वपुः कीर्तिं पुनर्जाते लभेद्ध्रुवम्
तस्मात्स्वशक्त्या दातव्यं काञ्चनं भुवि मानवैः
न ह्येतस्मात्परं लोकेष्वन्यत्पापात्प्रमुच्यते
अत ऊर्ध्वं प्रवक्ष्यामि गवां दानमनिन्दिते
न हि गोभ्यः परं दानं विद्यते जगति प्रिये
लोकान्सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयम्भुवा
वृत्त्यर्थं सर्वभूतानां तस्मात्ता मातरस्स्मृताः
लोकज्येष्ठा लोकवृत्त्या प्रवृत्ता मय्यायत्तास्सोमनिष्यन्दभूताः
सौम्याः पुण्याः प्राणदाश्च तस्मात्पूज्याः पुण्यकामैर्मनुष्यैः
धेनुं दत्त्वा निभृतां सुशीलां कल्याणवत्सां च पयस्विनीं च
यावन्ति रोमाणि भवन्ति तस्यास्तावत्समास्स्वर्गफलानि भुङ्क्ते
प्रयच्छते यः कपिलां सचेलां सकांस्यदोहां कनकाग्र्यशृङ्गीम्
पुत्राश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र
अन्तर्जाताः क्रीतका द्यूतलब्धाः प्राणक्रीतास्सोदकाश्चौजसा वा
कृच्छ्रोत्सृष्टाः पोषणार्थागताश्च द्वारैरेतैस्ताः प्रलब्धाः प्रदद्यात्
कृशाय बहुपुत्राय श्रोत्रियायाहिताग्नये
प्रदाय नीरुजां धेनुं लोकान्प्राप्नोत्यनुत्तमान्
नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः
हव्यकव्यव्यपेतस्य न दद्याद्गाः कथञ्चन
समानवत्सां यो दद्याद्धेर्नुं विप्रे पयस्विनीम्
सुवृत्तां वस्त्रसञ्छन्नां सोमलोके महीयते
समानवत्सां यो दद्यात्कृष्णां धेनुं पयस्विनीम्
सुवृत्तां वस्त्रसञ्छन्नां लोकान्प्राप्नोत्यपाम्पतेः
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसम्पन्नां यान्ति कौबेरसद्मनः
वायुरेणुसवर्णां सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसम्पन्नां वायुलोके महीयते
समानवत्सां यो धेनुं दत्त्वा गौरीं पयस्विनीम्
सुवृत्तां वस्त्रसञ्छन्नामग्निलोके महीयते
युवानं बलिनं श्यामं शतेन सह यूथपम्
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम्
ऋषभं ये प्रयच्छन्ति श्रोत्रियाणां महात्मनाम्
ऐश्वर्यमभिजायन्ते जायमानाः पुनःपुनः
गवां मूत्रपुरीषाणि नोद्विजेन कदाचन
न चासां मांसमश्नीयाद्गोषु भक्तस्सदा भवेत्
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं शुचि
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम्
गवामुभयतः काले नित्यं स्वस्त्ययनं वदेत्
न चासां चिन्तयेत्पापमिति धर्मविदो विदुः
गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः
कथञ्चिन्नावमन्तव्या गावो लोकस्य मातरः
तस्मादेव गवां दानं विशिष्टमिति कथ्यते
गोषु पूजा च भक्तिश्च नरस्यायुष्यतां वहेत्
अतःपरं प्रवक्ष्यामि भूमिदानं महाफलम्
भूमिदानसमं दानं लोके नास्तीति निश्चयः
गृहयुक्क्षेत्रयुग्वाऽपि भूमिभागः प्रदीयते
सुखभोगं निराक्रोशं वास्तुपूर्वं प्रकल्प्य च
ग्रहीतारमलङ्कृत्य वस्त्रपुष्पानुलेपनैः
सभृत्यं सपरीवारं भोजयित्वा यथेष्टतः
यो दद्याद्दक्षिणां काले त्रिरद्भिर्गृह्यतामिति
एवं भूम्यां प्रदत्तायां श्रद्धया वीतमत्सरैः
यावत्तिष्ठति सा भूमिस्तावत्तस्य फलं विदुः
भूमिदस्स्वर्गमारुह्य रमते शाश्वतीस्समाः
अचला ह्यक्षया भूमिस्सर्वकामान्दुधुक्षति
यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्शितः
अपि गोकर्णमात्रेण भूमिदानेन मुच्यते
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च
सर्वमेतन्महाभागे भूमिदाने प्रतिष्ठितम्
भर्तुर्निश्श्रेयसे युक्तास्त्यक्तात्मानो रणे हताः
ब्रह्मलोकाय संसिद्धा नातिक्रामन्ति भूमिदम्
हलकृष्टां महीं दद्यात्सर्वबीजफलान्विताम्
सुकूपशरणां वाऽपि सा भवेत्सर्वकामदा
निष्पन्नसस्यां पृथिवीं यो ददाति द्विजन्मनाम्
विमुक्तः कलुषैस्सर्वैश्शक्रलोकं स गच्छति
यथा जनित्री क्षीरेण स्वपुत्रमभिवर्धयेत्
एवं सर्वफलैर्भूमिर्दातारमभिवर्धयेत्
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम्
ग्राहयित्वा निजां भूमिं न यान्ति यमसादनम्
यथा चन्द्रमसो वृद्धिरहन्यहनि दृश्यते
तथा भूमेः कृतं दानं सस्येसस्ये विवर्धते
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले
तथा कामाः प्ररोहन्ति भूमिदानगुणार्जिताः
पितरः पितृलोकस्था देवताश्च दिवि स्थिताः
सन्तर्पयन्ति भोगैस्तं यो ददाति वसुन्धराम्
दीर्घायुष्यं वराङ्गत्वं स्फीतां च श्रियमुत्तमाम्
परत्र लभते मर्त्यस्सम्प्रदाय वसुन्धराम्
एतत्सर्वं मयोद्दिष्टं भूमिदानस्य यत्फलम्
श्रद्दधानैर्नरैर्नित्यं श्राव्यमेतत्सनातनम्
अतः परं प्रवक्ष्यामि कन्यादानं यथाविधि
कन्या देया महादेवि परेषामात्मनोऽपि वा
कन्यां शुद्धव्रताचारां कुलरूपसमन्विताम्
यस्मै दित्सति पात्राय तेनापि भृशकामिताम्
प्रथमं तां समाकल्प्य बन्धुभिः कृतनिश्चयः
कारयित्वा गृहं पूर्वं दासीदासपरिच्छदैः
गृहोपकरणैश्चैव पशुधान्येन संयुताम्
तदर्थिने तदर्हाय कन्यां तां समलङ्कृताम्
सविवाहं यथान्यायं प्रयच्छेदग्निसाक्षिकम्
वृत्त्यायतीं यथा कृत्वा सद्गृहे तौ निवेशयेत्
एवं कृत्वा वधूदानं तस्य दानस्य गौरवात्
प्रेत्यभावे महीयेत स्वर्गलोके यथासुखम्
पुनर्जातस्य सौभाग्यं कुलवृद्धिं तथाऽऽप्नुयात्
विद्यादानं तथा देवि पात्रभूताय वै ददत्
प्रेत्यभावे लभेन्मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम्
अनुरूपाय शिष्याय यश्च विद्यां प्रयच्छति
यथोक्तस्य प्रदानस्य फलमानन्त्यमश्नुते
दापनं त्वथ विद्यानां दरिद्रेभ्योऽर्थवेदनैः
स्वयं दत्तेन तुल्यं स्यादिति विद्धि शुभानने
एवं ते कथितान्येव महादानानि मानिनि
त्वत्प्रियार्थं मया देवि भूयः श्रोतुं किमिच्छसि
उमा-
भगवन्देवदेवेश कथं देयं तिलान्वितम्
तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च
श्रीमहेश्वरः-
तिलकल्पविधिं देवि तन्मे शृणु समाहिता
समृद्धैरसमृद्धैर्वा तिला देया विशेषतः
तिलाः पवित्राः पापघ्नास्सुपुण्या इति संस्मृताः
न्यायतस्तु तिलाञ्शुद्धान्संहृत्याथ स्वशक्तितः
तिलराशिं पुनः कुर्यात्पर्वाताभं सुरत्नकम्
महान्तं यदि वा स्तोकं नानाद्रव्यसमन्वितम्
सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः
अलङ्कृत्य यथायोगं सपताकं सवेदिकम्
सभूषणं सवस्त्रं च शयनासनसम्मितम्
प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः
भोजयित्वा च विधिवद्ब्राह्मणानर्हतो बहून्
स्वयं कृतोपवासश्च वृत्तशौचसमन्वितः
दद्यात्प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम्
एकस्यापि बहूनां वा दातव्यं भूतिमिच्छता
तस्य दानफलं देवि अग्निष्टोमेन संयुतम्
केवलं वा तिलैरेव भूमौ कृत्वा गवाकृतिम्
सवस्त्रकं सरत्नं च पुंसा गोदानकाङ्क्षिणा
तदर्हाय प्रदातव्यं तस्य गोदानतः फलम्
शरावांस्तिलसम्पूर्णान्सहिरण्यान्सचम्पकान्
नृपो ददद्ब्राह्मणाय स पुण्यफलभाग्भवेत्
एवं तिलमयं देयं नरेण हितमिच्छता
नानादानफलं भूयश्शृणु देवि समाहिता
बलमायुष्यमारोग्यमन्नदानाल्लभेन्नरः
पानीयदस्तु सौभाग्यं रसज्ञानं लभेन्नरः
वस्त्रदानाद्वपुश्शोभामलङ्कारं लभेन्नरः
दीपदो बुद्धिवैशद्यं द्युतिशोभां लभेन्नरः
राजबीजाविमोक्षं तु छत्रदो लभते फलम्
दासीदासप्रदानात्तु भवेत्कर्मान्तभाङ्नरः
दासीदासं च विविधं लभेत्प्रेत्य गुणान्वितम्
यानानि वाहनं चैव तदर्हाय ददन्नरः
पादरोगपरिक्लेशान्मुक्तश्श्वसनवाहवान्
विचित्र रमणीयं च लभते यानवाहनम्
प्रतिश्रयप्रदानं च तदर्हाय तदिच्छते
वर्षाकाले तु रात्रौ वा लभेत्पक्षबलं शुभम्
सेतुकूपतटाकानां कर्ता तु लभते नरः
दीर्घायुष्यं च सौभाग्यं तथा प्रेत्य गतिं शुभां
वृक्षसंरोपको यस्तु छायापुष्पफलप्रदः
प्रेत्यभावे लभेत्पुण्यमभिगम्यो भवेन्नरः
यस्तु सङ्क्रमकृल्लोके नदीषु जलहारिणाम्
लभेत्पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम्
मार्गकृत्सततं मर्त्यो भवेत्सन्तानवान्नरः
कायदोषविमुक्तस्तु तीर्थकृत्सततं भवेत्
औषधानां प्रदानात्तु सततं कृपयाऽन्वितः
भवेद्व्याधिविहीनश्च दीर्घायुश्च विशेषतः
अनाथान्पोषयेद्यस्तु कृपणान्धकपङ्गुकान्
स तु पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम्
वेदगोष्ठास्सभाश्शाला भिक्षूणां च प्रतिश्रयम्
यः कुर्याल्लभते नित्यं नरः प्रेत्य फलं शुभम्
प्रासादवासं विविधं यक्षशोभां लभेत्पुनः
विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम्
रम्यं सदैव गोवाटं यः कुर्याल्लभते नरः
प्रेत्यभावे शुभां जातिं व्याधिमोक्षं तथैव च
एवं नानाविधं द्रव्यं दानकर्ता लभेत्फलम्
उमा-
कृतं दत्तं यथा यावत्तस्य तल्लभते फलम्
एतन्मे देवदेवेश तत्र कौतूहलं महत्
श्रीमहेश्वरः-
प्रेत्यभावे शृणु फलं दत्तस्य च कृतस्य च
दानं षङ्गुणयुक्तं तु तदर्हाय यथाविधिः
यथाविभवतो दानं दातव्यमिति मानवैः
बुद्धिमायुष्यमारोग्यं बलं भाग्यं तथाऽऽगमम्
रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम्
इदं दत्तमिदं देयमित्येवं फलकाङ्क्षया
यद्दत्तं तत्तदेव स्यान्न तु किञ्चन लभ्यते
ध्रुवं देव्यत्तमे दानं मध्यमे त्वधमं फलम्
उमा-
भगवन्देवदेवेश विशिष्टं यज्ञमुच्यते
लौकिकं वैदिकं चैव तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
देवतानां तु पूजा या यज्ञेष्वेव समाहिता
यज्ञा वेदेष्वधीताश्च वेदा ब्राह्मणसंयुताः
इदं तु सकलं द्रव्यं दिवि वा भुवि वा प्रिये
यज्ञार्थं विद्धि तत्सृष्टं लोकानां हितकाम्यया
एवं विज्ञाय तत्कर्ता सदारस्सततं द्विजः
प्रेत्यभावे लभेल्लोकान्ब्रह्मकर्मसमाधिना
ब्राह्मणेष्वेव तद्ब्रह्म नित्यं देवि समाहितम्
तस्माद्विप्रैर्यथाशास्त्रं विधिदृष्टेन कर्मणा
यज्ञकर्म कृतं सर्वं देवता अभितर्पयेत्
ब्राह्मणाः क्षत्रियाश्चैव यज्ञार्थं प्रायशस्स्मृताः
अग्निष्टोमादिभिर्यज्ञैर्वेदेषु परिकल्पितैः
सुशुद्धैर्यजमानैश्च ऋत्विग्भिश्च यथाविधिः
शुद्धैर्द्रव्योपकरणैर्यष्टव्यमिति निश्चयः
तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत्
तुष्टेषु सर्वदेवेषु यज्वा यज्ञफलं लभेत्
देवास्सन्तोषिता यज्ञैर्लोकान्संवर्धयन्त्युत
उभयोर्लोकयोः प्रीतिर्देवि यज्ञे प्रदृश्यते
तस्माद्यज्वा दिवं गत्वा अमरैस्सह मोदते
नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः
सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः
एषा यज्ञकृता पूजा लौकिकीमपरां शृणु
देवसत्कारमुद्दिश्य क्रियते लौकिकोत्सवः
देवगोष्ठेऽधिसंस्कृत्य चोत्सवं यः करोति वै
यागान्देवोपहारांश्च शुचिर्भूत्वा यथाविधि
देवान्सन्तोषयित्वा स देवि धर्ममवाप्नुयात्
गन्धमाल्यैश्च विविधैः परमान्नेन धूपनैः
बह्वीभिस्स्तुतिभिश्चैव स्तुवद्भिः प्रयतैर्नरैः
नृत्तैर्वाद्यैश्च गान्धर्वैरन्यैर्दृष्टिविलोभनैः
देवसत्कारमुद्दिश्य कुर्वते ये नरा भुवि
तेषां भक्तिकृतेनैव सत्कारेणैव पूजिताः
तेनैव तोषं संयान्ति देवि देवास्त्रिविष्टपे
मानुषैश्चोपकारैर्वा शुचिभिस्सत्परायणैः
ब्रह्मचर्यपरैरेतत्कृतं धर्मफलं लभेत्
केवलैस्स्तुतिभिर्देवि गन्धमाल्यसमाहितैः
प्रयतैश्शुद्धगात्रैस्तु शुद्धदेशे सुपूजिताः
सन्तोषं यान्ति ते देवा भक्तैस्सम्पूजितास्तथा
देवान्सन्तोषयित्वैव देवि धर्ममवाप्नुयात्
उमा-
त्रिविष्टपस्था वै भूमौ देवा मानुषचेष्टितम्
कथं ज्ञास्यन्ति विधिवत्तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि यथा तैर्ज्ञायते प्रिये
प्राणिनां तु शरीरेषु अन्तरात्मा व्यवस्थितः
आत्मानं परमं देवमिति विद्धि शुभेक्षणे
आत्मा मनोव्यवस्थानात्सर्वं वेत्ति शुभाशुभम्
आत्मैव देवास्तद्विद्युरव्यग्रमनसा कृतम्
सतां मनोव्यवस्थानाच्छुभं भवति वै नृणाम्
तस्माद्देवा हि सम्पूज्या ब्राह्मणानां तथैव च
यज्ञाश्च धर्मकार्याणि गुरुपूजा च शोभने
शुद्धगात्रैर्व्रतयुतैस्तन्मयैस्तत्परायणैः
एवं व्यवस्थितैर्नित्यं कर्तव्यमिति निश्चयः
एवं कृत्वा शुभाकाङ्क्षी परत्रेह च मोदते
अन्यथा मन आविश्य कृतं न फलति प्रिये
क्रतेऽपि तु मनो देवि अशुभं फलति ध्रुवम्