उमा-
भगवन्सर्वलोकेश त्रिपुरार्दन शङ्कर
कीदृशा यमदण्डास्ते कीदृशाः परिचारकाः
कथं मृतास्ते गच्छन्ति प्राणिनो यमसादनम्
कीदृशं भवनं तस्य कथं दण्डयति प्रजाः
एतत्सर्वं महादेव श्रोतुमिच्छाम्यहं प्रभो
श्रीमहेश्वरः-
शृणु कल्याणि तत्सर्वं यत्ते देवि मनःप्रियम्
दक्षिणस्यां दिशि शुभे यमस्य सदनं महत्
विचित्रं रमणीयं च नानाभावसमन्वितम्
पितृभिः प्रेतसङ्घैश्च यमदूतैश्च सन्ततम्
प्राणिसङ्घैश्च बहुभिः कर्मवश्यैश्च पूरितम्
तत्रास्ते दण्डयन्नित्यं यमो लोकहिते रतः
मायया सततं वेत्ति प्राणिनां यच्छुभाशुभम्
मायया संहरंस्तत्र प्राणिसङ्घान्यतस्ततः
तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः
को हि मानुषमात्रस्तु देवस्य चरितं महत्
एवं संवसतस्तस्य यमस्य परिचारकाः
गृहीत्वा सन्नयन्त्येव प्राणिनः क्षीणकर्मणः
यन केनापदेशेन त्वपदेशसमुद्भवः
कर्मणा प्राणिनो लोके उत्तमाधममध्यमाः
यथार्हं तान्समादाय नयन्ति यमसादनम्
धार्मिकानुत्तमान्विद्धि स्वर्गिणस्ते यथाऽमराः
त्रिषु जन्म लभन्ते ये कर्मणा मध्यमास्स्मृताः
तिर्यङनरकगन्तारो ह्यधमास्ते नराधमाः
पन्थानस्त्रिविधा दृष्टास्सर्वेषां गतजीविनाम्
रमणीयं निराबाधं दुर्दर्शमिति नामतः
रमणीयं तु यन्मार्गं पताकाध्वजसङ्कुलम्
धूपितं सिक्तसम्मृष्टं पुष्पमालाभिसङ्कुलम्
मनोहरं सुखस्पर्शं गच्छतामेव तद्भवेत्
निराबाधं यथालोकं सुप्रशस्तं कृतं भवेत्
तृतीयं यत्तु दुर्दर्शं दुर्गन्धि तमसा वृतम्
परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम्
किमिकीटसमाकीर्णं भजतामतिदुर्गमम्
मार्गैरेवं त्रिभिर्नित्यमुत्तमाधममध्यमान्
सन्नयन्ति यथा काले तन्मे शृणु शुचिस्मिते
उत्तमानन्तकाले तु यमदूतास्सुसंवृताः
नयन्ति सुखमादाय रमणीयपथेन वै
उमा-
भगवंस्तत्र चात्मानं त्यक्तदेहं गताश्रियम्
अदृश्यं कथमादाय सन्नयन्ति यमान्तिकम्
श्रीमहेश्वरः-
शृणु भामिनि तत्स्रवं त्रिविधं देहकारणम्
कर्मवश्यं भोगवश्यं दुःखवश्यमिति प्रिये
मानुषं कर्मवश्यं स्याद्द्वितीयं भोगसाधनम्
तृतीयं यातनावश्यं शरीरं मायया कृतम्
यमलोके न चान्यत्र दृश्यते यातनायुतम्
शरीरैर्यातनावश्यैर्जीवानामुच्य भामिनि
नयन्ति यामिकास्तत्र प्राणिनो मायया मृतान्
मध्यमान्योधवेषेण मध्यमेन पथा तथा
चण्डालवेषास्त्वधमान्गृहीत्वा भर्त्सतर्जनैः
आकर्षन्तस्तथा पाशैर्दुर्दर्शेन नयन्ति तान्
त्रिविधानेवमादाय नयन्ति यमसादनम्
धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा
लोकपालं सभाध्यक्षं तथैव परिषद्गतम्
दर्शयन्ति महाभागे यामिकास्तं निवेद्य ते
पूजयन्दण्डयन्कांश्चित्तेषां शृण्वञ्शुभाशुभम्
व्यावृतो बहुसाहस्रैस्तत्रास्ते सततं यमः
गतानां तु यमस्तेषामुत्तमानभिपूजया
अभिसङ्गृह्य विधिवत्पृष्ट्वा स्वागतकौशलम्
प्रस्तुत्य तत्कृतं तेषां लोकं सन्दिशते यमः
यमेनैवमनुज्ञाता यान्ति पश्चात्त्रिविष्टपम्
मध्यमानां यमस्तेषां श्रुत्वा कर्म यथातथम्
जायन्तां मानुषेष्वेव इति सन्दिशते च तान्
अधमान्पाशसंयुक्तान्यमो नावेक्षते गतान्
यमस्य पुरुषा घोराश्चण्डालसमदर्शनाः
यातनाः प्रापयन्त्येताँल्लोकपालस्य शासनात्
भिन्दन्तश्च तुदन्तश्च प्रकर्षन्तो यतस्ततः
क्रोशन्तः पातयन्त्येतान्मिथो गर्तेष्ववाङ्मुखान्
संयामिन्यश्शिलाश्चैषां पतन्ति शिरसि प्रिये
अयोमुखाः कङ्कवला भक्षयन्ति सुदारुणाः
असिपत्रवने घोरे चारयन्ति तथा परान्
तीक्ष्णदंष्ट्रास्तथा श्वानः कांश्चित्तत्र ह्यदन्ति वै
तत्र वैतरणी नाम नदी ग्राहसमाकुला
दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी
तस्यां सम्मज्जयन्त्येते तृषितान्पाययन्ति तान्
आरोपयन्ति वै कांश्चित्तत्र कण्टकशल्मलीम्
यन्त्रचक्रेषु तिलवत्पीड्यन्ते तत्र केचन
अङ्गरेषु च दह्यन्ते तथा दुष्कृतकारिणः
कुम्भीपाकेषु पच्यन्ते पच्यन्ते सिकतासु वै
पाठ्यन्ते तरुवच्छस्त्रैः पापिनः क्रकचादिभिः
भिद्यन्ते भागशश्शूलैस्तुद्यन्ते सूक्ष्मसूचिभिः
एवं त्वया कृतं दोषं तदर्थं दण्डनं त्विति
वाचैव घोषयन्ति स्म दण्डमानास्समन्ततः
एवं ते यातनां प्राप्य शरीरैर्यातनाशयैः
प्रसहन्तश्च तद्दुःखं स्मरन्तस्स्वापराधजम्
क्रोशन्तश्च रुद्रन्तश्च न मुच्यन्ते कथञ्चन
स्मरन्तस्तत्र तप्यन्ते पापमात्मकृतं भृशम्
एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः
यातनाभिश्च पच्यन्ते नरकेषु पुनः पुनः
अपरे यातनां भुक्त्वा मुच्यन्ते तत्र किल्बिषात्
पापदोषक्षयकरा यातना संस्मृता नृणाम्
बहु तप्तं यथा लोहममलं तत्तथा भवेत्
उमा-
भगवंस्ते कथं तत्र दण्ड्यन्ते नरकेषु वै
कति ते नरका घोराः कीदृशास्ते महेश्वर
श्रीमहेश्वरः-
शृणु भामिनि तत्सर्वं पञ्चैते नरकास्स्मृताः
भूमेरधस्ताद्विहिता घोरा दुष्कृतकर्मणाम्
प्रथमं रौरवं नाम शतयोजनमायतम्
तावत्प्रमाणविस्तीर्णं तामसं पापपीडितम्
भृशं दुर्गन्धि परुषं क्रिमिभिर्दारुणैर्वृतम्
अतिघोरमनिर्देश्यं प्रतिकूलं ततस्ततः
ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने
क्रिमिभिर्भक्ष्यमाणाश्च विष्ठागन्धसमायुताः
एवं प्रमाणमुद्विग्ना यावत्तिष्ठन्ति तत्र ते
यातनाभ्यो दशगुणं नरके दुःखमिष्यते
तत्र चात्यन्तिकं दुःखमिष्यते च शुभेक्षणे
क्रोशन्तश्च रुद्रन्तश्च वेदनास्तत्र भुञ्जते
भ्रमन्ति दुःखमोक्षार्थं ज्ञाता कश्चिन्न विद्यते
दुःखस्यान्तरमात्रं तु ज्ञानं वा न च लभ्यते
महारौरवसञ्ज्ञं तु द्वितीयं नरकं प्रिये
तस्माद्द्विगुणितं विद्धि माने दुःखे च रौरवात्
तृतीयं नरकं तत्र कण्टिकावनसञ्ज्ञितम्
ततो द्विगुणितं तच्च पूर्वाभ्यां दुःखमानयोः
महापातकसंयुक्ता घोरास्तस्मिन्विशन्ति हि
अग्निकुण्डमिति ख्यातं चतुर्थं नरकं प्रिये
एतद्द्विगुणितं तस्माद्यथाऽनिष्टसुखं तथा
ततो दुःखं हि सुमहदमानुषमिति स्मृतम्
भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः
पञ्चकष्टमिति ख्यातं नरकं पञ्चमं प्रिये
तत्र दुःखमनिर्देश्यं महाघोरं यथातथम्
पञ्चेन्द्रियैरसह्यत्वात्चकष्टमिति स्मृतम्
भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः
अमानुषार्हजं दुःखं महाभूतैश्च भुञ्जते
अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम्
पञ्चकष्टेन हि समं नास्ति दुःखं तथा परम्
दुःखस्थानमिति प्राहुः पञ्चकष्टमिति प्रिये
एवं त्वेतेषु तिष्ठन्ति प्राणिनोः दुःखभागिनः
अन्ये च नरकास्सन्ति अवीचिप्रमुखाः प्रिये
क्रोशन्तश्च रुदन्तश्च वेदनार्ता भृशातुराः
केचिद्भ्रमन्तश्चेष्टन्ते केचिद्धावन्ति चातुराः
आधावन्तो निवार्यन्ते शूलहस्तैर्यतस्ततः
रुजार्दितास्तृषायुक्ताः प्राणिनः पापकारिणः
यावत्पूर्वकृतं तावन्न मुच्यन्ते कथञ्चन
क्रिमिभिर्भक्ष्यमाणाश्च वेदनार्तास्तृषान्विताः
संस्मरन्तस्स्वकं पापं कृतमात्मापराधजम्
शोचन्तस्तत्र तिष्ठन्ति यावत्पापक्षयं प्रिये
एवं भुक्त्वा तु नरकं मुच्यन्ते पापसङ्क्षयात्
उमा-
भगवन्कतिकालं ते तिष्ठन्ति नरकेषु वै
एतद्वेदितुमिच्छामि तन्मे ब्रूहि महेश्वर
श्रीमहेश्वरः-
शतवर्षसहस्राणामादिं कृत्वा हि जन्तवः
तिष्ठन्ति नरकावासाः प्रलयान्तमिति स्थितिः
उमा-
भगवंस्तेषु के तत्र तिष्ठन्तीति वद प्रभो
श्रीमहेश्वरः-
रौरवे शतसाहस्रं वर्षाणामिति संस्थितिः
मानुषघ्नाः कृतघ्नाश्च तथैवानृतवादिनः
द्वितीये द्विगुणं कालं पच्यन्ते तादृशा नराः
महापातकयुक्तास्तु तृतीये दुःखमाप्नुयुः
एतावन्मानुषसहं परमन्येषु लक्ष्यते
यक्षाविद्याधराश्चैव काद्रवेयाश्च किन्नराः
गन्धर्वा भूतसङ्घाश्च तेषां पापयुता भृशम्
चतुर्थे परिपच्यन्ते तादृशा नरकास्स्मृताः
चतुर्थे परितप्यन्ते यावद्युगविपर्ययः
सहन्तस्तादृशं घोरं पञ्चकष्टे तु यादृशम्
तत्रास्य चिरदुःखस्य ह्यधोन्यान्विद्धि मानुषान्
एवं ते नरकान्भुक्त्वा तत्र क्षपितकल्मषाः
नरकेभ्यो विमुक्ताश्च जायन्ते कृमिजातिषु
उद्भेदजेषु वा केचिदत्रापि क्षीणकल्मषाः
पुनरेव प्रजायन्ते मृगपक्षिषु शोभने
उमा-
मृगपक्षिषु तद्भुक्त्वा लभन्ते मानुषं पदम्
नानाजातिषु केनैव जायन्ते पापकारिणः
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि शोभने
सर्वदाऽऽत्मा कर्मवशो नानाजातिषु जायते
यश्च मांसप्रियो नित्यं काकगृध्रान्स संस्पृशेत्
सुरापस्सततं मर्त्यस्सूकरत्वं व्रजेद्भुवम्
अभक्ष्यभक्षणो मर्त्यः काकजातिषु जायते
आत्मघ्नो यो नरः कोपात्प्रेतजातिषु तिष्ठति
पैशुन्यात्परिवादाच्च कुक्कुटत्वमवाप्नुयात्
नास्तिकश्चैव यो मूर्खो मृगजातिं स गच्छति
हिंसाविहारस्तु नरः क्रिमिकीटेषु जायते
अतिमानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत्
अगम्यागमनाच्चैव परदारनिषेवणात्
मूषिकत्वं व्रजेन्मर्त्यो नास्ति तत्र विचारणा
कृतघ्नो मित्रघाती च सृगालवृकजातिषु
कृतघ्नः पुत्रघाती च स्थावरेष्वथ तिष्ठति
एवमाद्यशुभं कृत्वा नरा निरयगामिनः
तां तां योनि प्रपद्यन्ते स्वकृतस्यैव कारणात्
एवं जातिषु निर्देश्याः प्राणिनः पापकारिणः
कथञ्चित्पुनरुत्पद्यि लभन्ते मानुषं पदम्
बहुशश्चाग्निसङ्क्रान्तं लोहं शुचिमयं तथा
बहुदुःखाभिसन्तप्तस्तथाऽऽत्मा शोध्यते बलात्
तस्मात्सुदुर्लभं चेति विद्धि जन्मसु मानुषम्