उमा-
भगवन्देवदेवेश शूलपाणे वृषध्वज
पुंश्चल्य इव या स्त्रीषु नीचवृत्तिरतास्स्मृताः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः
कामरागसमायुक्ताः पतीनतिचरन्ति वै
प्रतिकूलपरा यास्तु पतीन्प्रति यथा तथा
शौचं लज्जां तु विस्मृत्य यथेष्टपरिचारणाः
एवंयुक्तसमाचारा यमलोके सुदण्डिताः
यदि वै मानुषं जन्म लभेरंस्तास्तथाविधाः
बहुसाधारणा एव पुंश्चल्यश्च भवन्ति ताः
पौश्चल्यं यत्तु तद्वृत्तं स्त्रीणां कष्टतमं स्मृतम्
ततःप्रभृति ता देवि पतन्त्येव न संशयः
शोचन्ति चेत्तु तद्वृत्तं मनसा हितमाप्नुयुः
उमा-
भगवन्देवदेवेश प्रमदा विधवा भृशम्
दृश्यन्ते मानुषा लोके सर्वकल्याणवर्जिताः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः
कुटुम्बं तत्र वै पत्युर्नाशयन्ति वृथा तथा
विषदाश्चाग्निदाश्चैव पतीन्प्रति सुनिर्दयाः
अन्यासां हि पतीन्यान्ति स्वपतीन्द्वेष्यकारणात्
एवंयुक्तसमाचारा यमलोके सुदण्डिताः
निरयस्थाश्चिरं कालं कथञ्चित्प्राप्य मानुषम्
तत्र ता भोगरहिता विधवास्तु भवन्ति वै
उमा-
भगवन्प्रमदा लोके पत्यौ ज्ञातिषु सत्सु च
लिङ्गिन्यस्सम्प्रदृश्यन्ते पाषण्डमतमाश्रिताः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
याः पुरा भावदोषेणि लोभमोहसमन्विताः
परद्रव्यपरा लोभात्परेषां द्रव्यहारकाः
अभ्यसूयापरा यास्तु सपत्नीनां प्रदूषकाः
ईर्ष्यापराः कोपनाश्च बन्धूनां विफलास्सदा
एवंयुक्तसमाचाराः पुनर्जन्मनि तास्स्त्रियः
अलक्षणसमायुक्ताः पाषण्डं धर्ममाश्रिताः
स्त्रियः प्रव्राजशीलाश्च भवन्त्येव न संशयः
उमा-
भगवन्मानुषाः केचित्कारुवृत्तिसमाश्रिताः
प्रदृश्यन्ते मनुष्येषु नीचकर्मरतास्तथा
केन कर्मविपाकेन तन्मे शंसितुमर्हति
श्रीमहेश्वरः-
ये पुरा मनुजा देवि स्तब्धमानयुता भृशम्
दर्पाहङ्कारसंयुक्ताः केवलात्मपरायणाः
तादृशा मानुषा देवि पुनर्जन्मनि शोभने
कारवो नटगन्धर्वास्सम्भवन्ति यथा तथा
नापिता बन्दिनश्चैव तथा वैतालिकाः प्रिये
एवम्भूतास्त्वधोवृत्तिं जीवन्त्याश्रित्य मानवाः
परप्रसाधनकरास्ते परैः कृतवेतनाः
परावमानस्य फलं भुञ्जते पौर्वदैहिकम्
उमा-
भगवन्देवदेवेश मानुषेष्वेव केचन
दासभूताः प्रदृश्यन्ते सर्वकर्मपरा भृशम्
श्रीमहेश्वरः-
आघातभर्त्सनसहाः पीड्यमानाश्च सर्वशः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्
ये पुरा मनुजा देवि परेषां वित्तहारकाः
ऋणवृद्धिकरं क्रौर्यान्न्यासदत्तं तथैव च
निक्षेपकारणाद्दत्तपरद्रव्यापहारिणः
प्रमादाद्विस्मृतं नष्टं परेषां धनहारकाः
वधबन्धपरिक्लेशैर्दासत्वं कुर्वते परान्
तादृशा मरणं प्राप्ता दण्डिता यमशासनैः
कथञ्चित्प्राप्य मानुष्यं तत्र ते देवि सर्वथा
दासभूता भविष्यन्ति जन्मप्रभृति मानवाः
तेषां कर्माणि कुर्वन्ति येषां ते धनहारकाः
आसमाप्तेस्स्वपापस्य कुर्वन्तीति विनिश्चयः
पशुभूतास्तथा चान्ये भवन्ति धनहारकाः
तत्तथा क्षीयते कर्म तेषां पूर्वापराधजम्
अतोऽन्यथा न तच्छक्यं कर्म भोक्तुं सुरासुरैः
किन्तु मोक्षविधिस्तेषां सर्वता तत्प्रसादनम्
अयथावन्मोक्षकामः पुनर्जन्मनि चेष्यते
मोक्षकामी यथान्यायं कुर्वन्कर्माणि सर्वशः
भर्तुः प्रसादमाकाङ्क्षेदायासान्सर्वथा सहन्
प्रीतिपूर्वं तु यो भर्त्रा मुक्तो मुक्तस्स पावनः
तथाभूतान्कर्मकरान्सदा सन्तोषयेत्पतिः
यथार्हं कारयेत्कर्म दण्डं कारणतः क्षिपेत्
वृद्धान्बालांस्तथा क्षीणान्पालयन्धर्ममाप्नुयात्
इति ते कथितं देवि भूयश्श्रोतुं किमिच्छसि
उमा-
भगवन्मानुषेष्वेव मानुषास्समदर्शनाः
चण्डाला इव दृश्यन्ते स्पर्शमात्रे विदूषिताः
नीचकर्मरता देव सर्वेषां मलहारकाः
दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः
श्रीमहेश्वरः-
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
तदहं ते प्रवक्ष्यामि तदेकाग्रमनाश्शृणु
ये पुरा मनुजा देवि अतिमानयुता भृशम्
आत्मसम्भावनायुक्तास्स्तब्धा दर्पसमन्विताः
प्रणामं तु न कुर्वन्ति गुरूणामपि पामराः
ये स्वधर्मार्पणं कार्यमतिमानान्न कुर्वते
परान्सन्नामयन्त्येव अत्मनाऽऽत्मनि ये बलात्SV-13-01-125-042a
पानपास्सर्वभक्षाश्च परुषाः कटुका नराः
एवंयुक्तसमाचारा दण्डिता यमशासनैः
कथञ्चित्प्राप्य मानुष्यं चण्डालास्सम्भवन्ति ते
नीचकर्मरताश्चैव सर्वेषां मलहारकाः
परेषां वन्दनपरास्ते भवन्त्येव मानिनः
विरूपाः पापयोनिस्थास्स्पर्शनादिविवर्जिताः
कुवृत्तिमुपजीवन्ति भुत्वा ते रजकादयः
पुराऽतिमानदोषात्तु भुञ्जते स्वकृतं फलम्
तानवस्थाप्य कृपणांश्चण्डालानपि बुद्धिमान्
न निन्देन्नातिकुप्येत भुञ्जते स्वकृतं फलम्
चण्डाला अपि तां जातिं शोचन्तश्शुद्धिमाप्नुयुः
उमा-
भगवन्मानुषाः केचिदाशापाशशतैर्वृताः
परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने
द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मानुषा देवि ऐश्वर्यस्थानसंयुताः
संवादं तु न कुर्वन्ति परैरैश्वर्यमोहिताः
द्वाराणि न ददत्येव लोभमोहादिभिर्वृताः
अवस्थामोहसंयुक्तास्स्वार्थमात्रपरायणाः
सर्वभोगयुता वाऽपि सर्वेषां निष्फला भृशम्
अपि शप्ता न कुर्युस्ते परानुग्रहकारणात्
निर्दयाश्चैव निर्द्वारा भोगैश्वर्यगतिं प्रति
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः
दुर्गता दुरवस्थाश्च कर्मव्याक्षेपसंयुताः
अभिधावन्ति ते सर्वे तमर्थमभिवेदिनः
राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः
कर्म विज्ञापितुं द्रष्टुं न लभन्ते कथञ्चन
प्रवेष्टुमपि ते द्वारं बहिस्तिष्ठन्ति काङ्क्षया
उमा-
भगवन्मानुषाः केचिन्मनुष्येषु बहुष्वपि
सहसा नष्टसर्वस्वा नष्टकोशपरिग्रहाः
दृश्यन्ते मानुषाः केचिद्राजचोरोदकादिभिः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मानुषा देवि आसुरं भावमाश्रिताः
परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः
उत्कोचनपराश्चैव पिशुनाश्च तथाविधाः
परद्रव्यहरा घोराश्चौर्याद्वाऽन्येन कर्मणा
निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः
नास्तिकानृतभूयिष्ठाः परद्रव्यापहारिणः
एवंयुक्तसमाचारा दण्डिता यमशासनैः
निरयस्थाश्चिरं कालं तत्र दुःखसमन्विताः
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः
तत्रस्थाः प्राप्नुवन्त्येव सहसा द्रव्यवाशनम्
कष्टं तत्प्राप्नुवन्त्येव कारणाकारणादपि
नाशं विनाशं द्रव्याणामुपघातं च सर्वशः
उमा-
भगवन्मानुषाः केचिद्बान्धवैस्सहसा पृथक्
कारणादेव सहसा सर्वेषां प्राणनाशनम्
शस्त्रेण वाऽन्यथा वाऽपि प्राप्नुवन्ति वधं नराः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि घोरकर्मरतानृताः
आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशं
निर्दयाः प्राणिहिंसायां तथा प्राणिविघातकाः
विश्वस्तघातकाश्चैव तथा सुप्तविघातकाः
प्रायशोऽनृतभूयिष्ठा नास्तिका मांसभोजनाः
एवंयुक्तसमाचाराः कालधर्मं गताः पुनः
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये
तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात्
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः
तत्र ते प्राप्नुवन्त्येव वधबन्धान्यथा तथा
आढ्या वा दुर्गता वाऽपि भुञ्जते स्वकृतं फलम्
सुप्ता मत्ताश्च विश्वस्तास्तथा ते प्राप्नुवन्त्युत
प्राणवाधकृतं दुःखं बान्धवैस्सहसा पृथक्
पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम्
उमा-
भगवन्मानुषाः केचिद्राजभिर्नीतिकोविदैः
दण्ड्यन्ते मानुषे लोके मानुषास्सर्वतोभयाः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि मानुषांश्चेतराणि वा
क्लिष्टघातेन निघ्नन्ति प्राणान्प्राणिषु निर्दयाः
आसुरा घोरकर्माणः क्रूरदण्डवधप्रियाः
ये दण्डयन्त्यदण्ड्यांश्च राजानः कोपमोहिताः
हिंसाहङ्कारपरुषा मांसादा नास्तिकाशुभाः
केचित्स्त्रीपुरुषघ्नाश्च गुरुघ्नाश्च तथा प्रिये
एवंयुक्तसमाचाराः प्राणिधर्मं गताः पुनः
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये
पूर्वजन्मकृतं कर्म भुञ्जते तदिह प्रजाः
इहैव यत्कर्म कृतं तत्परत्र फलत्युत
एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते
न चर्षीणां न देवानाममृतत्वात्तपोबलात्
तैरेकेन शरीरेण भुज्यते कर्मणः फलम्
न तथा मानुषाणां स्यादन्तर्धाय भवेद्धि तत्
उमा-
किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः
कृतापराधमुद्दिश्य हन्ता हर्ताऽयमित्युत
पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान्
तैरेव हि शरीरेण भुञ्जन्ते कर्मणां फलम्
दृश्यन्ते मानुषे लोके तद्भवान्नानुमन्यते
एतन्मे संशयस्थानं तन्मे त्वं छेत्तुमर्हसि
श्रीमहेश्वरः-
स्थाने संशयितं देवि तत्त्वं शृणु समाहिता
कर्म कर्मफलं चेति युगपद्भुवि नेष्यते
ये त्वयाऽभिहिता देवि हन्ता हर्ताऽयमित्यपि
तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः
देवि कर्म कृतं चैषां हेतुर्भवति शासने
अपराधापरेशेन राजा दण्डयति प्रजाः
इह लोके व्यवस्थार्थं राजभिर्दण्डनं स्मृतम्
उद्वेजनार्थं शेषाणामपराधं तमुद्दिशन्
पुराकृतफलं दण्डो दण्ड्यमानस्य तद्ध्रुवम्
प्रागेव च मया प्रोक्तं तत्र निस्संशया भव
उमा-
भगवन्भुवि मर्त्यानां दण्डितानां नरेश्वरैः
दण्डेनैव कृतेनेह पापनाशो भवेन्न वा
श्रीमहेश्वरः-
एतन्मया संशयितं तद्भवांश्छेत्तुमर्हति
स्थाने संशयितं देवि शृणु तत्वं समाहिता
ये नृपैर्दण्डिता भूमावपराधापदेशतः
यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः
अदण्डिता वा ये मिथ्या मिथ्या वा दण्डिता भुवि
तान्यमो दण्डयत्येव स हि वेद कृताकृतम्
नातिक्रमेद्यमं कश्चित्कर्म कृत्वेह मानुषः
राजा यमश्च कुर्वाते दण्डमात्रं तु शोभने
उभाभ्यां यमराजभ्यां दण्डितोऽदण्डितोऽपि वा
पश्चात्कर्मफलं भुङ्क्ते नरके मानुषेषु वा
नास्ति कर्मफलच्छेत्ता कश्चिल्लोकत्रयेऽपि च
इति ते कथितं सर्वं निर्विशङ्का भव प्रिये
उमा-
किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः
पुनस्तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते
सर्वपापहरं चेति हयमेधं वदन्ति च
प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते
तस्मान्मया संशयितं त्वं तच्छेत्तुमिहार्हसि
श्रीमहेश्वरः-
स्थाने संशयितं देवि शृणु तत्त्वं समाहिता
संशयो हि महानेव पूर्वेषां च मनीषिणाम्
द्विधा तु क्रियते पापं सद्भिश्चासद्भिरेव च
अभिसन्धाय वा नित्यमन्यथा वा यदृच्छया
केवलं चाभिसन्धाय संरम्भाच्च करोति यत्
कर्मणस्तस्य नाशस्तु न कथञ्चन विद्यते
अभिसन्धिकृतस्यैव नैव नाशोऽस्ति कर्मणः
अश्वमेधसहस्रैश्च प्रायश्चित्तशतैरपि
अन्यथा यत्कृतं पापं प्रमादाद्वा यदृच्छया
प्रायश्चित्ताश्वमेधाभ्यां श्रेयसा तत्प्रणश्यति
लोकसंव्यवहारार्थं प्रायश्चित्तादिरिष्यते
विद्ध्येवं पापके कार्ये निर्विशङ्का भव प्रिये
इति ते कथितं देवि भूयश्श्रोतुं किमिच्छसि
उमा-
भगवन्देवदेवेश मानुषाश्चेतरा अपि
म्रियन्ते मानुषा लोके कारणाकारणादपि
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि कारणाकारणादपि
यथाऽसुभिर्वियुज्यन्ते प्राणिनः प्राणिनिर्दर्यैः
तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम्
विषदास्तु विषेणैव शस्त्रैश्शस्त्रेण घातकाः
एवमेव यथा लोके मानुषान्घ्नन्ति मानुषाः
कारणेनैव तेनाथ तता स्वप्राणनाशनम्
प्राप्नुवन्ति पुनर्देवि नास्ति तत्र विचारणा
इति ते कथितं सर्वं कर्मपाकफलं प्रिये
भूयस्तव समासेन कथयिष्यामि तच्छृणु
सत्यप्रमाणकरणान्नित्यमव्यभिचारि च
यैः पुरा मनुजैर्देवि यस्मिन्काले यथा कृतम्
येनैव कारणेनापि कर्म यत्तु शुभाशुभम्
तस्मिन्काले तथा देवि कारणेनैव तेन तु
प्राप्नुवन्ति नराः प्रेत्य निस्सन्देहं शुभाशुभम्
इति सत्यं प्रजानीहि लोके तत्र विधिं प्रति
कर्मकर्ता नरो भोक्ता स नास्ति दिवि वा भुवि
न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः
कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते
एतदुद्देशतः प्रोक्तं कर्मपाकफलं प्रति
यदन्यच्च मया नोक्तं यस्मिंस्ते कर्मसङ्ग्रहे
बुद्धितर्केण तत्सर्वं तथा वेदितुमर्हसि
कथितं श्रोतुकामाया भूयश्श्रोतुं किमिच्छसि
उमा-
भगवन्देवदेवेश लोकपालनमस्कृत
प्रसादात्ते महादेव श्रुता मे कर्मणां गतिः
सङ्गृहीतं च तत्सर्वं तत्वतोऽमृतसन्निभम्
कर्मणा ग्रथितं सर्वमिति वेद शुभाशुभम्
गोवत्सवच्च जननीं निम्नं सलिलवत्तथा
कर्तारं स्वकृतं कर्म नित्यं तदनुधावति
कृतस्य कर्मणश्चेह नाशो नास्तीति निश्चयः
अशुभस्य शुभस्यापि तदप्युपगतं मया
भूय एव महादेव वरद प्रीतिवर्धन
कर्मणां गतिमाश्रित्य संशयान्मोक्तुमर्हसि
श्रीमहेश्वरः-
यत्ते विवक्षितं देवि गुह्यमप्यसितेक्षणे
तत्सर्वं निर्विशङ्का त्वं पृच्छ मां शुभलक्षणे
उमा-
एवं व्यवस्थिते लोके कर्मणां वृषभध्वज
कृत्वा तत्पुरुषः कर्म शुभं वा यदि वेतरत्
कर्मणस्सुकृतस्येह कदा भुङ्क्ते फलं पुनः
इह वा प्रेत्य वा देव तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
स्थाने संशयितं देवि तद्धि गुह्यतमं नृषु
त्वत्प्रियार्थं प्रवक्ष्यामि देवि गुह्यं शुभानने
पूर्वदेहकृतं कर्म भुञ्जते तदिह प्रजाः
इहैव यत्कृतं पुंसां तत्परत्र फलिष्यते
एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते
देवानामसुराणां च अमरत्वात्तपोबलात्
एकेनैव शरीरेण भुज्यते कर्मणां फलम्
मानुषैर्न तथा देवि अन्तरं त्वेतदिष्यते
उमा-
भगवन्भगनेत्रघ्न मानुषाणां विचेष्टितम्
सर्वमात्मकृतं चेति श्रुतं मे भगवन्मतम्
लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम्
तदेव ग्रहनक्षत्रं प्रायशः पर्युपासते
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि
श्रीमहेश्वरः-
स्थाने संशयितं देवि शृणु तत्वविनिश्चयम्
नक्षत्राणि ग्रहाश्चैव शुभाशुभनिवेदकाः
मानवानां महाभागे न तु कर्मकरास्स्वयम्
प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति
अनागतमतिक्रान्तं ज्योतिश्चक्रेण बोध्यते
किन्तु तत्र शुभं कर्म सुग्रहैस्तु निवेद्यते
दुष्कृतस्याशुभैरेव समावायो भवेदिति
तस्मात्तु ग्रहवैषम्ये विषमं कुरुते जनः
ग्रहसाम्ये शुभं कुर्याज्ज्ञात्वाऽऽत्मानं तथा कृतम्
केवलं ग्रहनक्षत्रं न करोति शुभाशुभम्
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति
पृथग्ग्रहाः पृथक्कर्ता कर्ता स्वं भुञ्जते फलम्
इति ते कथितं सर्वं विशङ्कां जहि शोभने
उमा-
भगवन्विविधं कर्म कृत्वा जन्तुश्शुभाशुभम्
किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि
श्रीमहेश्वरः-
स्थाने संशयितं देवि तत्ते वक्ष्यामि तत्वतः
अशुभं पूर्वमित्याहुरपरे शुभमित्यपि
मिथ्या तदुभयं प्रोक्तं केवलं तद्ब्रवीमि ते
मानुषे तु पदे कर्म युगपद्भुज्यते सदा
यथाकृतं यथायोगमुभयं भुज्यते क्रमात्
भुञ्जानाश्चापि दृश्यन्ते क्रमशो भुवि मानवाः
ऋद्धिं हानिं सुखं दुःखं तत्सर्वमुभयं भयम्
दुःखान्यनुभवन्त्याढ्या दरिद्राश्च सुखानि च
यौगपद्याद्धि भुञ्जाना दृश्यन्ते लोकसाक्षिकम्
नरके स्वर्गलोके च न तथा संस्थितिः प्रिये
नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा
शुभाशुभानामाधिक्यं कर्मणां तत्र सेव्यते
निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत्
तत्रापि सुमहद्भुक्त्वा पूर्वमल्पं पुनश्शुभे
एतत्ते सर्वमाख्यातं किं भूयश्श्रोतुमिच्छसि
उमा-
भगवन्प्राणिनो लोके म्रियन्ते केन हेतुना
जाता जाता न तिष्ठन्ति तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि शृणु सत्यं समाहिता
आत्मा कर्मक्षयाद्देहं यथा मुञ्चति तच्छृणु
शरीरात्मसमाहारो जन्तुरित्यभिधीयते
तत्रात्मानं नित्यमाहुरनित्यं क्षेत्रमुच्यते
एवं कालेन सङ्क्रान्तं शरीरं जर्झरीकृतम्
अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत्
नित्यस्यानित्यसन्त्यागाल्लोके तन्मरणं विदुः
कालं नातिक्रमेरन्हि सदेवासुरमानवाः
यथाऽऽकाशे न तिष्ठेत द्रव्यं किञ्चिदचेतनम्
तथा धावति कालोऽयं क्षणं किञ्चिन्न तिष्ठति
स पुनर्जायतेऽन्यत्र शरीरं नवमाविशन्
एवंलोकगतिर्नित्यमादिप्रभृति वर्तते
उमा-
भगवन्प्राणिनो बाला दृश्यन्ते मरणं गताः
अतिवृद्धाश्च जीवन्तो दृश्यन्ते चिरजीविनः
केवलं कालमरणं न प्रमाणं महेश्वर
तस्मान्मे संशय ब्रूहि प्राणिनां जीवकारणम्
श्रीमहेश्वरः-
शृणु तत्कारणं देवि निर्णयस्त्वेक एव सः
जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत्
जीर्णे कर्मणि सङ्घातस्स्वयमेव विशीर्यते
पूर्वकर्मप्रमाणेन जीवितं मृत्युरेव वा
यावत्पूर्वकृतं कर्म तावज्जीवति मानवः
तत्र कर्मवशाद्बाला म्रियन्ते कालसङ्क्षयात्
चिरं जीवन्ति वृद्धाश्च तथा कर्मप्रमाणतः
इति ते कथितं देवि निर्विशङ्का भव प्रिये
उमा-
भगवन्केन वृत्तेन भवन्ति चिरजीविनः
अल्पायुषो नराः केन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
शृणु तत्सर्वमखिलं गुह्यं पथ्यतरं नृणाम्
येन वृत्तेन सम्पन्ना भवन्ति चिरजीविनः
अहिंसा सत्यवचनमक्रोधः क्षीन्तिरार्जवम्
गुरूणां नित्यशुश्रूषा वृद्धानामपि पूजनम्
शौचादकार्यसन्त्यागात्सदा पथ्यस्य भोजनम्
एवमादिगुणं वृत्तं नराणां दीर्घजीविनाम्
तपसा ब्रह्मचर्येण रसायननिषेवणात्
उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः
स्वर्गे वा मानुषे वाऽपि चिरं तिष्ठन्ति धार्मिकाः॥
अपरे पापकर्माणः प्रायशोऽनृतवादिनः
हिंसाप्रिया गुरुद्विष्टा निष्क्रियाश्शौचवर्जिताः
नास्तिका घोरकर्माणस्सततं मांसपानपाः
पापाचारा गुरुद्विष्टाः कोपनाः कलहप्रियाः
एवमेवाशुभाचारास्तिष्ठन्ति निरये चिरम्
तिर्यग्योनौ तथाऽत्यन्तमल्पास्तिष्ठन्ति मानवाः
तस्मादल्पायुषो मर्त्यास्तादृशास्सम्भवन्ति ते
अगम्यदेशगमनादपथ्यानां च भोजनात्
आयुःक्षयो भवेन्नॄणामायुःक्षयकरा हि ते
भवन्त्यल्पायुषस्तैस्तैरन्यथा चिरजीविनः
एतत्ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि
उमा-
देवदेव महादेव श्रुतं मे भगवन्निदम्
आत्मनो जातिसम्बन्धं ब्रूहि स्त्रीपुरुषान्तरम्
स्त्रीप्राणाः पुरुषप्राणा एकस्स पृथगेव वा
एष मे संशयो देव तं मे छेत्तुं त्वमर्हसि
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता
स्त्रीत्वं पुंस्त्वमिति प्राणे स्थितिर्नास्ति शुभेक्षणे
निर्विकारस्सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि
कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते
कृत्वा कर्म पुमान्स्त्री वा स्त्री पुमानपि जायते
स्त्रीभावयुक्पुमान्कृत्वा कर्मणा प्रमदा भवेत्
उमा-
भगवन्सर्वलोकेश कर्मात्मा न करोति चेत्
कोऽन्यः कर्मकरो देहे तन्मे त्वं वक्तुमर्हसि
श्रीमहेश्वरः-
शृणु भामिनि कर्तारमात्मा हि न च कर्मकृत्
प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः
शरीरं प्राणिनां लोके यथा पित्तकफानिलैः
व्याप्तमेभिस्त्रिभिर्दोषैस्तथा व्याप्तं त्रिभिर्गुणैः
सत्त्वं रजस्तमश्चैव गुणास्त्वेते शरीरिणः
प्रकाशात्मकमेतेषां सत्त्वं सततमिष्यते
रजो दुःखत्मकं तत्र तमो मोहात्मकं स्मृतम्
त्रिभिरेतैर्गुणैर्युक्तं लोके कर्म प्रवर्तते
सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः
एवमादि तथाऽन्यश्च कर्म सात्त्विकमुच्यते
दाक्ष्यं कर्मपरत्वं च लोभो मोहो विधिं प्रति
रजसश्चोद्भवं चैतत्कर्म नानाविधं सदा
अनृतं चैव पारुष्यं धृतिर्विद्वेषिता भृशम्
कलत्रसङ्गो माधुर्यं नित्यमैश्वर्यलुब्धता
हिंसाऽसत्यं च नास्तिक्यं निद्रालस्यभयानि च
तमसश्चोद्भवं चैतत्कर्म पापयुतं तथा
तस्माद्गुणमयस्सर्वः कार्यारम्भश्शुभाशुभः
तस्मादात्मानमव्यग्रं विद्ध्यकर्तारमव्ययम्
सात्त्विकाः पुण्यलोकेषु राजसा मानुषे पदे
तिर्यग्योनौ च नरके तिष्ठेयुस्तामसा नराः
उमा-
किमर्थमात्मा भिन्नेऽस्मिन्देहे शस्त्रेण वा हते
स्वयं प्रयास्यति तदा तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
तदहं ते प्रक्ष्यामि शृणु कल्याणि कारणम्
एतन्नैर्मापिकैश्चापि मुह्यन्ते सूक्ष्मबुद्धिभिः
कर्मक्षये तु सम्प्राप्ते प्राणिनां जन्मधारिणाम्
उपद्रवो भवेद्देहे येन केनापि हेतुना
तन्निमित्तं शरीरी तु शरीरं प्राप्य सङ्क्षयम्
अपयाति परित्यज्य ततः कर्मवशेन सः
देहः क्षयेपि नैवात्मा वेदनाभिर्न चाल्यते
तिष्ठेत्कर्मफलं यावद्व्रजेत्कर्मक्षये पुनः
आदिप्रभृति लोकेऽस्मिन्नेवमात्मगतिस्स्मृता
एतत्ते कथितं देवि किं भूयश्श्रोतुमिच्छसि