उमा-
भगवन्देवदेवेश मम प्रीतिविवर्धन
जात्यन्धाश्चैव दृश्यन्ते जाता वा नष्टचक्षुषः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
हन्त ते कथयिष्यामि शृणु कल्याणि कारणम्
ये पुरा कामकारेणि परवेश्मसु लोलुपाः
परस्त्रियोऽभिवीक्षन्ते दुष्टेनैव स्वचक्षुषाः
अन्धीकुर्वन्ति ये मर्त्याः क्रोधलोभसमन्विताः
लक्षणज्ञाश्च रूपेषु अयथावत्प्रदर्शकाः
एवं युक्तसमाचाराः कालधर्मवशास्तु ते
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये
यदि चेन्मानुषं जन्म लभेरंस्ते तथाऽपि वा
स्वभावतो वा जाता वा अन्धा एव भवन्ति ते
अक्षिरोगयुता वाऽपि नास्ति तत्र विचारणा
उमा-
मुखरोगयुताः केचिद्दृश्यन्ते सततं नराः
दन्तकण्ठकपोलस्थैर्व्याधिभिर्बहुपीडिताः
आदिप्रभृति वै मर्त्या जाता वाऽप्यथ कारणात्
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
हन्त ते कथयिष्यामि शृणु देवि समाहिता
कुवक्तारस्तु ये देवि जिह्वया कटुकं भृशम्
असत्यं परुषं घोरं गुरून्प्रति परान्प्रति
जिह्वाबाधां तदाऽन्येषां कुर्वते कोपकारणात्
प्रायशोऽनृतभूयिष्ठा नराः कार्यवशेन वा
तेषां जिह्वाप्रदेशस्था व्याधयस्सम्भवन्ति ते
कुश्रोतारस्तु ये चार्थं परेषां कर्णनाशकाः
कर्णरोगान्बहुविधाँल्लभन्ते ते पुनर्भवे
दन्तरोगशिरोरोगकर्णरोगास्तथैव च
अन्ये मुखाश्रिता दोषास्सर्वे चात्मकृतं फलम्
उमा-
पीड्यन्ते सततं देव मानुषेष्वेव केचन
कुक्षिपक्षाश्रितैर्दोषैर्व्याधिभिश्चोदराश्रितैः
तीक्ष्णशूलैश्च पीड्यन्ते नरा दुःखपरिप्लुताः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि कामक्रोधवशा भृशम्
आत्मार्थमेव चाहारं भुञ्जन्ते निरपेक्षकाः
अभक्ष्याहारदानैश्च विश्वस्तानां विषप्रदाः
अभक्ष्यभक्षदाश्चैव शौचमङ्गलवर्जिताः
मांसयुक्तसमाचाराः पुनर्जन्मनि शोभने
कथञ्चित्प्राप्य मानुष्यं तत्र ते व्याधिपीडिताः
तैस्तैर्बहुविधाकारैर्व्याधिभिर्दुःखसंश्रिताः
भवन्त्येवं तथा देवि यथा चैवं तथा कृतम्
उमा-
दृश्यन्ते सततं देव व्याधिभिर्मेहनाश्रितैः
पीड्यमानास्तथा मर्त्या अश्मरीशर्करादिभिः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि परदारप्रधर्षकाः
तिर्यग्योनिषु धूर्ता वै मैथुनार्थं चरन्ति च
कामदोषेण ये धूर्ताः कन्यासु विधवासु च
बलात्कारेण गच्छन्ति रूपदर्पसमन्विताः
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः
मेहनस्थैस्तथा घोरैः पीड्यन्ते व्यधिभिः प्रिये
उमा-
भगवन्मानुषाः केचिद्दृश्यन्ते शोषिणः कृशाः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि मांसलुब्धाः सुलोलुपाः
आत्मार्थे स्वादुगृद्धाश्च परभोगोपतापिनः
अभ्यसूयापराश्चापि परभोगेषु ये नराः
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
शेषव्याधियुतास्तत्र नरा धमनिसन्तताः
भवन्त्येव नरा देवि पापकर्मोपभोगिनः
उमा-
भगवन्मानुषाः केचित्क्लिश्यन्ते कण्ठरोगिणः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि परेषां रूपनाशनाः
आघातवधबन्धैश्च वृथा दण्डेन मोहिताः
इष्टनाशकरा ये तु अपथ्याहारदा नराः
चिकित्सका वा दुष्टास्च द्वेषलोभसमन्विताः
निर्दयाः प्राणिहिंसायां मलदाश्चित्तनाशनाः
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
यदि वै मानुषं जन्म लभेरंस्तेषु दुःखिताः
अत्र ते क्लेशसंयुक्ताः कण्ठरोगशतैर्वृताः
केचित्त्वग्दोषसंयुक्ता व्रणकुष्ठैश्च संयुताः
श्वित्रकुष्ठयुता वाऽपि बहुधा कृच्छ्रसंयुताः
भवन्त्येव नरा देवि यथा तेन कृतं फलम्
उमा-
भगवन्मानुषाः केचिदङ्गहीनाश्च पङ्गव
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि लोभमोहसमावृताः
प्राणिनां प्राणहिंसार्थमङ्गविघ्नं प्रकुर्वते
शस्त्रेणोत्कृत्य वा देवि प्राणिनां चेष्टनाशकाः
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
तदङ्गहीना वै प्रेत्य भवन्त्येव न संशयः
स्वभावतो वा जाता वा पङ्गवस्ते भवन्ति वै
उमा-
भगवन्मानुषाः केचिद्ग्रन्थिभिः पिलकैस्तथा
क्लिश्यमानाः प्रदृश्यन्ते तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि ग्रन्थिभेदकरा नृणाम्
मुष्टिप्रहारपरुषा नृशंसाः पापकारिणः
पाटकास्तोटकाश्चैव शूलतुन्नास्तथैव च
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
ग्रन्थिभिः पिलकैश्चैव क्लिश्यन्ते भृशदुःखिताः
उमा-
भगवन्मानुषाः केचित्पादरोगसमन्विताः
दृश्यन्ते सततं देव तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि क्रोधलोभसमन्विताः
मनुजा देवतास्थानं स्वपादैर्भ्रंशयन्त्युत
जानुभिः पार्ष्णिभिश्चैव प्राणिहिंसां प्रकुर्वते
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
पादरोगैर्बहुविधैर्बाध्यन्ते श्वपदादिभिः
उमा-
भगवन्मानुषाः केचिद्दृश्यन्ते बहवो भुवि
वातजैः पित्तजै रोगैर्युगपत्सान्निपातकैः
रोगैर्बहुविधैर्देव क्लिश्यमानास्सुदुःखिताः
असमस्तैस्समस्तैश्च आढ्या वा दुर्गतास्तथा
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्
ये पुरा मनुजा देवि त्वासुरं भावमाश्रिताः
स्ववशाः कोपनपरा गुरुविद्वेषिणस्तथा
परेषां दुःखजनका मनोवाक्कायकर्मभिः
छिन्दन्भिन्दन्तुदन्नेव नित्यं प्राणिषु निर्दयाः
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
यदि वै मानुषं जन्म लभेरंस्ते तथाविधाः
तत्र ते बहुभिर्घोरैस्तप्यन्ते व्याधिभिः प्रिये
केचिच्च छर्दिसंयुक्ताः केचित्काससमन्विताः
ज्वरातिसारतृष्णाभिः पीड्यमानास्तथा परे
पादगुल्मैश्च बहुभिश्श्लेष्मदोषसमन्विताः
पादरोगैश्च विविधैर्व्रणकुष्ठभगन्दरैः
आढ्या वा दुर्गता वाऽपि दृश्यन्ते व्याधिपीडिताः
एवमात्मकृतं कर्म भुञ्जन्ते तत्र तत्र ते
गृहीतुं न च शक्यं हि केनचित्स्वकृतं फलम्
इति ते कथितं देवि भूयश्श्रोतुं किमिच्छसि
उमा-
भगवन्देवदेवेश भूतपाल नमोस्तु ते
ह्रस्वाङ्गाश्चैव वक्राङ्गाः कुब्जा वामनकास्तथा
अपरे मानुषा देव दृश्यन्ते कुणिबाहवः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि लोभमोहसमन्विताः
धान्यमानान्विकुर्वन्ति क्रयविक्रयकारणात्
तुलदोषं तदा देवि धृतमानेषु नित्यशः
अर्धापकर्षणाच्चैव सर्वेषां क्रयविक्रये
अङ्गदोषकरा ये तु परेषां कोपकारणात्
मांसादाश्चैव ये मूर्खा अयथावत्प्रथास्सदा
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
ह्रस्वाङ्गा वामनाश्चैव कुब्जाश्चैव भवन्ति ते
उमा-
भगवन्मानुषाः केचिद्दृश्यन्ते मानुषेषु वै
उन्मत्ताश्च पिशाचाश्च पर्यटन्तो यतस्ततः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि दर्पाहङ्कारसंयुताः
बहुधा प्रलपन्त्येव हसन्ति च परान्भृशम्
मोहयन्ति परान्भोगैर्मदनैर्लोभकारणात्
वृद्धान्गुरूंश्च ये मूर्खा वृथैवापहसन्ति च
शौण्डा विदग्धाश्शास्त्रेषु तथैवानृतवादिनः
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
उन्मत्ताश्च पिशाचाश्च भवन्त्येव न संशयः
उमा-
भगवन्मानुषाः केचिन्निरपत्यास्सुदुःखिताः
यतन्तो न लभन्त्येव अपत्यानि यतस्ततः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः
घ्नन्ति बालांश्च भुञ्जन्ते मृगाणां पक्षिणामपि
गुरुविद्वेषिणश्चैव परपुत्राभ्यसूयकाः
पितृपूजां न कुर्वन्ति यथोक्तां चाष्टकादिभिः
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
मानुष्यं वा चिरात्प्राप्य निरपत्या भवन्ति ते
पुत्रशोकयुताश्चापि नास्ति तत्र विचारणा
उमा-
भगवन्मानुषाः केचित्प्रदृश्यन्ते सुदुःखिताः
उद्वेगवासनिरतास्सोद्वेगाश्च यतव्रताः
नित्यं शोकसमाविष्टा दुर्गताश्च तथैव च
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा नित्यमुत्क्रोशनपरायणाः
भीषयन्ति परान्नित्यं विकुर्वन्ति तथैव च
ऋणवृद्धिकराश्चैव दरिद्रेभ्यो यथेष्टतः
ऋणार्थमभिगच्छन्ति सततं वृद्धिरूपकाः
उद्विजन्ते हि तान्दृष्ट्वा धारकास्स्वार्थकारणात्
अतिवृद्धिर्न कर्तव्या दरिद्रेभ्यो यथेष्टतः
ये श्वभिः क्रीडमानाश्च त्रासयन्ति वने मृगान्
प्राणिहिंसां तथा देवि कुर्वन्ति च यतस्ततः
येषां गृहेषु वै श्वानस्त्रासयन्ति वृथा नरान्
एवंयुक्तसमाचाराः कालधर्मगताः पुनः
पीडिता यमदण्डेन निरयस्थाश्चिरं प्रिये
कथञ्चित्प्राप्य मानुष्यं तत्र ते दुःखसंयुताः
कुदेशे दुःखभूयिष्ठे व्याघातशतसङ्कुले
जायन्ते तत्र शोचन्तस्सोद्वेगाश्च यतस्ततः
उमा-
भगवन्मानुषाः केचिदैश्वर्यज्ञानसंयुताः
म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि धनधान्यसमन्विताः
अयथावत्प्रयच्छन्ति श्रद्धावर्जितमेव वा
अपात्रेभ्यश्च ये दानं शौचमङ्गलवर्जिताः
ददत्येव च ये मूर्खाश्श्लाघयाऽवज्ञयाऽपि वा
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसङ्कटे
म्लेच्छाधिपत्यं सम्प्राप्य जायन्ते तत्र तत्र वै
उमा-
भगवन्भगनेत्रघ्न मानुषेषु च केचन
क्लीबा नपुंसकाश्चैव दृश्यन्ते षण्डकास्तथा
नीचकर्मरता नीचा नीचसख्यास्तथा भुवि
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्
ये पुरा मनुजा भूत्वा घोरकर्मरतास्तथा
पशुपंस्त्वोपगातेन जीवन्ति च रमन्ति च
पुंस्त्वोपघातिनश्चैव नराणां कोपकारणात्
ये धूर्तास्स्त्रीषु गच्छन्ति अयथावद्यथेष्टतः
कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात्
एवंयुक्तसमाचाराः कालधर्मं गतास्तु ते
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः
क्लीबा वर्षवराश्चैव षण्डकाश्च भवन्ति ते
नीचकर्मपरा लोके निर्लज्जा वीतसम्भ्रमाः
परान्दीनान्बहिष्कृत्य ते भवन्ति स्वकर्मणा
यदि चेत्सम्प्रपश्येरंस्ते मुच्यन्ते हि कल्मषात्
अत्रापि ते प्रमाद्येयुः पतन्ति नरकालये
स्त्रीणामपि तथा देवि यथा पुंसां तु कर्मजम्
इति ते कथितं देवि भूयश्श्रोतुं किमिच्छसि