उमा-
भगवन्भगनेत्रघ्न कालसूदन शङ्कर
इमे वर्णाश्च चत्वारो विहितास्स्वस्वभावतः
उताहो क्रियया वर्णास्सम्भवन्ति महेश्वर
एवं मे संशयप्रश्नस्तं मे छेत्तुं त्वमर्हसि
श्रीमहेश्वरः-
स्वभावादेव विद्यन्ते चत्वारो ब्राह्मणादयः
एकजात्या सुदुष्प्रापमन्यवर्णत्वमागतम्
तच्च कर्मविशेषेण पुनर्जन्मनि जायते
तस्मात्तेषां प्रवक्ष्यामि तत्सर्वं कर्म पाकजम्
ब्राह्मणस्तु नरो भूत्वा स्वजातिमनुपालयन्
दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत्
सत्यार्जवपरो भूत्वा दानयज्ञपरस्तथा
सत्यां जात्यां समुदितो जातिधर्मान्न हापयेत्
एवं संवर्तमानस्तु कालधर्मं गतः पुनः
स्वर्गलोके हि जायेत स्वर्गभोगाय भामिनि
तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते
एवं स्वकर्मणा मर्त्यस्स्वजातिं लभते पुनः
अपरस्तु तथा कश्चिद्ब्रह्मयोनिसमुद्भवः
अवमत्यैव तां जातिमज्ञानतमसा वृतः
अन्यथा वर्तमानस्तु जातिकर्माणि वर्जयेत्
शूद्रवद्विचरेल्लोके शूद्रकर्माभिलाषवान्
शूद्रैस्सह चरन्नित्यं शौचमङ्गलवर्जितः
स चापि कालधर्मस्थो यमलोके सुदण्डितः
यदि जायेत मर्त्येषु शूद्र एवाभिजायते
शूद्र एव भवेद्देवि ब्राह्मणोऽपि स्वकर्मणा
तथैव शूद्रस्त्वपरश्शूद्रकर्माणि वर्जयन्
सत्यार्जवपरो भूत्वा दानधर्मपरस्तथा
मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः
एवं युक्तसमाचारश्शूद्रोऽपि मरणं गतः
स्वर्गलोकेऽभिजायेत तत्क्षये नृषु जायते
ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते
एवमेव सदा लोके शूद्रो ब्राह्मण्यमाप्नुयात्
एवं क्षत्रियवैश्याश्च जातिधर्मेण संयुताः
स्वकर्मणैव जायन्ते विशिष्टेष्वधमेषु च
एवं जातिविपर्यासः प्रेत्यभावे भवेन्नृणाम्
अन्यथा तु न शक्यं तल्लोकसंस्थितिकारणात्
तस्माज्जातिं विशिष्टां तु कथञ्चित्प्राप्य पण्डितः
सर्वथा तां तथा रक्षेन्न पुनर्भ्रश्यते यथा
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि
उमा-
जन्मप्रभृति कैश्शुद्धो लभेज्जन्मफलं नरः
शोभनाशोभनं सर्वमधइकारवशात्स्वकम्
श्रीमहेश्वरः-
कर्म कुर्वन्न लिप्येत आर्जवेन समाचरेत्
आत्मैव तच्छुभं कुर्यादशुभे योजयेत्परान्
शठेषु शठवत्कुर्योदार्यष्वार्यवदाचरेत्
आपत्सु नावसीदेच्च घोरान्सङ्ग्रामयेत्परात्
सामाने सर्वकार्याणि कर्तुं पूर्वं समारभेत्
अनर्थाधर्मशोकानां यथा न प्राप्नुयात्स्वयम्
प्रीयतेत तथा कर्तुमेतद्वृत्तं समासतः
एवं वृत्तं समासाद्य गृहमाश्रित्य मानवाः
निराहारा निरुद्वेगाः प्राप्नुवन्त्युत्तमां गतिम्
एतज्जन्मफलं नित्यं सर्वेषां गृहवासिनाम्
एवं गृहरतैर्नित्यं वर्तितव्यमिति स्थितिः
एतत्सर्वं मया प्रोक्तं किं भूयश्श्रोतुमिच्छसि
उमा-
सुरासुरपते देव वरद प्रीतिवर्धन
मानुषेष्वेव ये केचिदाढ्याः क्लेशविवर्जिताः
भुञ्जाना विविधान्भोगान्दृश्यन्ते निरुपद्रवाः
अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः
किमर्थं मानुषे लोके न समत्वेन कल्पिताः
एतच्छ्रोतुं महादेव कौतूहलमतीव मे
श्रीमहेश्वरः-
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि
शृणु तत्सर्वमखिलं मानुषाणां हितं वचः
आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत्प्रजाः
नित्यं न भवतो ह्यस्य रागद्वेषौ प्रजापतेः
तदा तस्मात्सुरास्सर्वे बभूवुस्समतो नराः
एवं संवर्तमाने तु युगे कालविपर्ययात्
केचित्प्रपेदिरे तत्र विषमं बुद्धिमोहिताः
तेषां हि निन्दितं दृष्ट्वा तुल्यानामेव भामिनि
ब्राह्मणास्ते समाजग्मुस्तत्तत्कारणवेदकाः
ब्राह्मणाः-
कर्तुं नार्हसि देवेश पक्षपातं त्वमीदृशम्
पुत्रभावे समे देव किमर्थं नो भवेत्कलिः
एवमेतैरुपालब्धो ब्रह्मा वचनमब्रवीत्
ब्रह्मा-
यूयं मा ब्रूत मे दोषं स्वकृतं स्मरथ प्रजाः
युष्माभिरेव युष्माकं ग्रथितं हि शुभाशुभम्
यादृशं कुरुते कर्म तादृशं फलमश्नुते
स्वकृतस्य फलं भुङ्क्ते नान्यस्तद्भोक्तुमर्हति
एवं सम्बोधितास्तेन कालकर्त्रा स्वयम्भुवा
पुनर्विवृत्य कर्माणि शुभान्येव प्रपेदिरे
एवं विज्ञाततत्त्वास्ते दानधर्मपरायणाः
शुभानि विधिवत्कृत्वा कालधर्मं गताः पुनः
तानि दानफलान्येव भुञ्जते सुखभोगिनः
स्वकृतं तु नरस्तस्मात्स्वयमेव प्रपद्यते
अपरे धर्मकामेभ्यो निवृत्ताश्च शुभेक्षणे
कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने
दरिद्राः क्लेशभूयिष्ठा भवन्त्येव न संशयः
उमा-
मानुषेष्वथ ये केचिद्धनधान्यसमन्विताः
भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्वपि
न भुञ्जते किमर्थं ते तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
परैस्सञ्चोदिता धर्मं कुर्वते न स्वकामतः
धर्मश्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने
फलानि तानि सम्प्राप्य भुञ्जते न कदाचन
रक्षन्तो वर्धयन्तश्च आसते निधिपालवत्
उमा-
केचिद्धनवियुक्ताश्च भोगयुक्ता महेश्वर
मानुषास्सम्प्रदृश्यन्ते तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
आनृशंस्यपरा ये तु धर्मकामाश्चि दुर्गताः
परोपकारं कुर्वन्ति दीनानुग्रहकारणात्
प्रतिपद्युः परधनं नष्टं वाऽन्यैर्नरैर्हृतम्
नित्यं ये दातुमनसो नरा वित्तेष्वसत्स्वपि
कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः
एते धनविहीनाश्च भोगयुक्ता भवन्त्युत
धर्मदानोपदेशं वा कर्तव्यमिति निश्चयः
इति ते कथितं देवि किं भूयश्श्रोतुमिच्छसि
उमा-
भगवन्देवदेवेश त्रियक्ष वृषभध्वज
मानुषास्त्रिविधा देव दृश्यन्ते सततं विभो
आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः
अपरे यत्नपूर्वं तु लभन्ते भोगसङ्ग्रहम्
श्रीमहेश्वरः-
अपरे यतमानाश्च न लभन्ते तु किञ्चन
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि
ये लोके मानुषा देवि दानधर्मपरायणाः
पात्राणि विधिवज्ज्ञात्वा दूरतोऽप्यनुमानतः
अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च
दानादि चेङ्गितैरेव तैरविज्ञातमेव वा
पुनर्जन्मनि ते देवि तादृशाश्शोभना नराः
अयत्नतस्तु तान्येव फलानि प्राप्नुवन्त्युत
आसीना एव भुञ्जन्ते भोगान्सुकृतभोगिनः
अपरे ये च दानानि ददत्येव प्रयाचिताः
यदा यदाऽर्थिने दत्त्वा पुनर्दानं च याचिताः
तावत्कालं ततो देवि पुनर्जन्मनि ते नराः
यत्नतश्श्रमसंयुक्ताः पुनस्तान्प्राप्नुवन्ति च
याचिता अपि केचित्तु ददत्येव किञ्चन
अभ्यसूयापरा मर्त्या लोभोपहतचेतसः
ते पुनर्जन्मनि शुभे यतन्तो बहुधा नराः
न प्राप्नुवन्ति मनुजा मार्गन्तस्तेऽपि किञ्चन
नानुप्तं रोहते सस्यं तद्वद्दानफलं विदुः
यद्यद्ददाति पुरुषस्तत्तत्प्राप्नोति केवलम्
इति ते कथितं देवि भूयश्श्रोतुं किमिच्छसि
उमा-
भगवन्भगनेत्रघ्न केचिद्वार्धक्यसंयुताः
अभोगयोग्यकाले तु भोगांश्चैव धनानि च
लभन्ते स्थविरा भूता भोगैश्वर्यं यतस्ततः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
हन्त ते कथयिष्यामि शृणु तत्त्वं समाहिता
धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः
प्राणान्तकाले सम्प्राप्ते व्याधिभिश्च निपीडिताः
आरभन्ते पुनर्धर्मं दातुं दानानि वा नराः
ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः
अतीतयौवने काले स्थविरत्वमुपागताः
लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे
एतत्कर्मफलं देवि कालयोगाद्भवत्युत
उमा-
भोगयुक्ता महादेव केचिद्व्याधिपरिप्लुताः
असमर्थाश्च तान्भोक्तं भवन्ति किमु कारणम्
श्रीमहेश्वरः-
व्याधियोगपरिक्लिष्टा ये निराशास्स्वजीविते
आरभन्ते तदा कर्तुं दानानि शुभलक्षणे
ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्युत
असमर्थाश्च तान्भोक्तुं व्याधितास्ते भवन्त्युत
उमा-
भगवन्देवदेवेश मानुषेष्वेव केचन
रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः
श्रीमहेश्वरः-
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
हन्त ते कथयिष्यामि शृणु तत्त्वं समाहिता
ये पुरा मानुषा देवि लज्जायुक्ताः प्रियंवदाः
शक्तास्सुमधुरा नित्यं भूत्वा चैव स्वभावतः
अमांसभोजिनश्चैव सदा प्राणिदयायुताः
प्रतिकर्मप्रदा वाऽपि वस्त्रदा धर्मकारणात्
भूमिशुद्धिकरा वाऽपि कारणादग्निपूजकाः
एवं युक्तसमाचाराः पुनर्जन्मनि ते नराः
रूपेण स्पृहणीयास्तु भवन्त्येव न संशयः
उमा-
श्रीमहेश्वरः-
विरूपाश्च प्रदृश्यन्ते मानुषेष्वेव केचन
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्
रूपयोगात्पुरा मर्त्या दर्पाहङ्कारसंयुताः
विरूपहासकाश्चैव स्तुतिनिन्दादिभिर्भृशम्
परोपतापनाश्चैव मांसादाश्च तथैव च
अभ्यसूयापराश्चैव अशुद्धाश्च तथा नराः
एवं युक्तसमाचारा यमलोके सुदण्डिताः
कथञ्चित्प्राप्य मानुष्यं तत्र ते रूपवर्जिताः
विरूपास्सम्भवन्त्येव नास्ति तत्र विचारणा
उमा-
भगवन्देवदेवेश केचित्सौभाग्यसंयुताः
रूपभोग्यविहीनाश्च दृश्यन्ते प्रमदाप्रियाः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः
स्वदारैरेव सन्तुष्टा दारेषु समवृत्तयः
दाक्षिण्येनैव वर्तन्ते प्रमदास्वप्रियास्वपि
न तु प्रत्यादिशन्त्येव स्त्रीदोषान्गुणसंश्रितान्
अन्नपानीयदाः काले नृणां स्वादुप्रदाश्च ये
स्वदारव्रतिनश्चैव धृतिमन्तो निरत्ययाः
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने
मानुषास्ते भवन्त्येव सततं सुभगा भृशम्
अर्थादृतेऽपि ते देवि भवन्ति प्रमदाप्रियाः
उमा-
श्रीमहेश्वरः-
दुर्भगास्सम्प्रदृश्यन्ते आर्या भोगयुता अपि
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता
ये पुरा मनुजा देवि स्वदारेष्वनपेक्षया
यथेष्टवृत्तयश्चैव निर्लज्जा वीतसम्भ्रमाः
परेषां विप्रियकरा वाङ्मनःकायकर्मभिः
निराश्रया निरानन्दास्स्त्रीणां हृदयकोपनाः
एवं युक्तसमाचाराः पनर्जन्मनि ते नराः
दुर्भगास्तु भवन्त्येव स्त्रीणां हृदयविप्रियाः
नास्ति तेषां रतिसुखं स्वदारेष्वपि किञ्चन
उमा-
भगवन्देवदेवेश मानुषेष्वेव केचन
ज्ञानविज्ञानसम्पन्ना बुद्धिमन्तो विचक्षणाः
श्रीमहेश्वरः-
दुर्गतास्तु प्रदृश्यन्ते यतमाना यथाविधि
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्
ये पुरा मनुजा देवि श्रुतवन्तोऽपि केवलम्
निराश्रया निरन्नाद्या भृशमात्मपरायणाः
ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि
निष्किञ्चना भवन्त्येव अनुप्तं हि न रोहति
उमा-
मूर्खा लोके प्रदृश्यन्ते दृढमूला विचेतसः
ज्ञानविज्ञानरहितास्समृद्धाश्च समन्ततः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि बालिशा अपि सर्वतः
समाचरन्ति दानानि दीनानुग्रहकारणात्
अबुद्धिपूर्वं वा दानं ददत्येव यतस्ततः
ते पुनर्जन्मनि शुभे प्राप्नुवन्त्येव तत्तथा
पण्डितोऽपण्डितो वाऽपि भुङ्क्ते दानफलं नरः
बुद्ध्याऽनपेक्षितं दानं सर्वथा तत्फलत्युत
उमा-
भगवन्देवदेवेश मानुषेषु च केचन
मेधाविनश्श्रुतधरा भवन्ति विशदाक्षराः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम्
ज्ञानार्थं ते तु सङ्गृह्य तीर्थं ते विधिपूर्वकम्
विधिनैव परांश्चैव ग्राहयन्ति च नान्यथा
अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः
विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः
तादृश मरणं प्राप्ताः पुनर्जन्मनि शोभने
मेधाविनश्श्रुतिधरा भवन्ति विशदाक्षराः
उमा-
अपरे मानुषा देव यतन्तोऽपि यतस्ततः
बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धितः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः
श्लाघमानाश्च तत्प्राप्य ज्ञानाहङ्कारमोहिताः
वदन्ति ये परान्नित्यं ज्ञानाधिक्येन दर्पिताः
ज्ञानादसूयां कुर्वन्ति न सहन्ते हि चापरान्
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने
मानुष्यं सुचिरात्प्राप्य तत्र बोधविवर्जिताः
भवन्ति सततं देवि यतन्तो हीनमेधसः
उमा-
भगवन्मानुषाः केचित्सर्वकल्याणसंयुताः
पुत्रैर्दारैर्गुणयुतैर्दासीदासपरिच्छदैः
परस्परर्द्धिसंयुक्तास्स्थानैश्वर्यपरिग्रहैः
व्याधिहीना निराबाधा रूपारोग्यबलैर्युताः
धनधान्येन सम्पन्नाः प्रासादैर्यानवाहनैः
सर्वोपभोगसंयुक्ता नानाचित्रैर्मनोहरैः
श्रीमहेश्वरः-
ज्ञातिभिस्सह मोदन्ते अविघ्नं तु दिने दिने
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता
ये पुरा मनुजा देवि आढ्या वा इतरेऽपि वा
श्रुतवृत्तसमायुक्ता दानकामाश्श्रुतप्रियाः
परेङ्गितपरा नित्यं दातव्यमिति निश्चिताः
सत्यसन्धाः क्षमाशीला लोभमोहविवर्जिताः
दातारः पात्रतो दानं व्रतैर्नियमसंयुताः
स्वदुःखमिव संस्मृत्य परदुःखविवर्जिताः
सौम्यशीलाश्शुभाचारा देवब्राह्मणपूजकाः
एवंशीलसमाचाराः पुनर्जन्मनि शोभने
दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः
मानुषेष्वपि ये जातास्तादृशास्सम्भवन्ति ते
यादृशास्तु तथा प्रोक्तास्सर्वे कल्याणसंयुताः
रूपं द्रव्यं बलं चायुर्भोगैश्वर्यं बलं श्रुतम्
इत्येतत्सर्वसाद्गुण्यं दानाद्भवति नान्यथा
तपोदानमयं सर्वमिति विद्धि शुभानने
उमा-
अथ केचित्प्रदृश्यन्ते मानुषेष्वेव मानुषाः
दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः
भयैस्त्रिभिस्समाजुष्टा व्याधिक्षुद्भयसंयुताः
दुष्कलत्राभिभूताश्च सततं विघ्नदर्शकाः
केन कर्मविपाकेन तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
ये पुरा मनुजा देवि आसुरं भावमाश्रिताः
क्रोधलोभसमायुक्ता निरन्नाद्याश्च निष्क्रियाः
नास्तिकाश्चैव धूर्ताश्च मूर्खाश्चात्मपरायणाः
परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने
कथञ्चित्प्राप्य मानुष्यं तत्र ते दुःखपीडिताः
सर्वतस्सम्भवन्त्येव पूर्वमात्मप्रमादतः
यथा ते पूर्वकथितास्तथा ते सम्भवन्त्युत
शुभाशुभं कृतं कर्म सुखदुःखफलोदयम्
इति ते कथितं देवि भूयश्रोतुं किमिच्छसि