श्रीमहेश्वरः-
श्रूयतां कारणं देवि यथा हि दुरतिक्रमः
विधिस्सर्वेषु भूतेषु मर्तव्ये समुपस्थिते
आयुःक्षयेणोपहितास्समागम्य वरानने
कीटाः पतङ्गा बहवस्स्थूलास्सूक्ष्माश्च मध्यमाः
प्रज्वलत्सु प्रदीपेषु स्वयमेव पतन्ति ते
बहूनां मृगयूथानां नानावननिषेविणाम्
यस्तु कालं गतस्तेषां स वै पाशेन बध्यते
सूनार्थं देवि बद्धानां क्षीणायुर्यो निबध्यते
अवशो घातकस्याथ हस्तं तदहरेति सः
यथा पक्षिगणाः क्षिप्रं विस्तीर्णाकाशगामिनः
क्षीणायुषो निबध्यन्ते शक्ता अपि पलायितुम्
यथा वारिचरा मीना बहवोऽम्बुजजातयः
जालं समधिरोहन्ति स्वयमेव विधेर्वशात्
शल्यकस्य च जिह्वाग्रं स्वयमारुह्य शोभने
आयुःक्षयेणोपहता निबध्यन्ते सरीसृपाः
कृषतां कर्षकाणां च नास्ति बुद्धिर्विहिंसने
अथैषां लाङ्गलाग्राद्यैर्हन्यन्ते जन्तवोऽक्षयाः
पादाग्रेणैव चैकेन यां हिंसां कुरुते नरः
मातङ्गोऽपि न तां कुर्यात्क्रूरो जन्मशतैरपि
म्रियन्ते यैर्हि मर्तव्यं न तान्हन्ति कृषीवलाः
कृषामीति मनस्तस्य नास्ति चिन्ता विहिंसने
तस्माज्जीवसहस्राणि हत्वाऽपि न स लिप्यते
विधिना स हतः पूर्वं पश्चात्प्राणि विपद्यते
एवं सर्वेषु भूतेषु विधिर्हि दुरतिक्रमः
गतायुषा मुहूर्तं तु न शक्यमुपजीवितुम्
जीवितव्ये न मर्तव्यं न भूतं न भविष्यति
शुभाशुभं कर्मफलं न शक्यमतिवर्तितुम्
तथा ताभिश्च मर्तव्यं मोक्तव्याश्चैव तास्तथा
रन्तिदेवस्य गावो वै विधेर्हि वशमागताः
स्वयमायान्ति गावो वै हन्यन्ते यत्र सुन्दरि
गवां वै हन्यमानानां रुधिरप्रभवा नदी
चर्मण्वतीति विख्याता खुरशृङ्गास्थिदुर्गमा
रुधिरं तां नदीं प्राप्य तोयं भवति शोभने
मेध्यं पुण्यं पवित्रं च गन्धवर्णरसैर्युतम्
तत्राभिषेकं कुर्वन्ति कृतजप्याः कृताह्निकाः
द्विजा देवगणाश्चापि लोकपाला महेश्वराः
तस्य राज्ञस्सदा सत्रे स्वयमागम्य सुन्दरि
विधिना पूर्वदृष्टेन तन्मांसमुपकल्पितम्
मन्त्रवत्प्रतिगृह्णन्ति यथान्यायं यथाविधि
समांसं च सदा ह्यन्नं शतशोऽथ सहस्रशः
भुञ्जानानां द्विजातीनामस्तमेति दिवाकरः
गावो यास्तत्र हन्यन्ते राज्ञस्तस्य क्रतूत्तमे
पठ्यमानेषु मन्त्रेषु यथान्यायं यथाविधि
ताश्च स्वर्गं गता गावो रन्तिदेवश्च पार्थिवः
सदा सत्रविधानेन सिद्धिं प्राप्तो नरोत्तमः
अथ यस्तु सहायार्थमुक्तस्स्यात्पार्थिवैर्नरैः
भोगानां संविभागेन वस्त्राभरणभूषणैः
सहभोजनसम्बन्धैस्सत्कारैर्विविधैरपि
सहायकाले सम्प्राप्ते सङ्ग्रामे शस्त्रमुद्धरेत्
व्यूढानीके यथाशास्त्रं सेनयोरुभयोरपि
हस्त्यश्वरथसम्पूर्णे पदातिबलसङ्कुले
चामरच्छत्रशबले ध्वजचर्मायुधोज्ज्वले
शक्तितोमरकुन्तासिशूलमुद्गरपाणिभिः
कूटमुद्गरचापेषु मुसुण्ठीजुष्टमुष्टिभिः
भिण्डिपालगदाचक्रप्रास मुद्गरधारिभिः
नानाप्रहरणैर्योधैस्सेनयोरुभयोरपि
युद्धशौण्डैः प्रगर्जद्भिर्वृषेषु वृषभैरिव
शङ्खदुन्दुभिनादेन नानातूर्यरवेण च
हयहेषितशब्देन कुञ्जराणां तु बृंहितैः
योधानां सिंहनादैश्च घण्टानां शिञ्जितस्वनैः
दिशश्च विदिशश्चैव समन्ताद्बधिरीकृताः
ग्रीष्मान्तेष्ववगर्जद्भिर्नभसीव बलाहकैः
रथनेमिखुरोद्धूतैररुणै रणरेणुभिः
कपिलाभिरिवाकाशे छाद्यमाने समन्ततः
प्रवृत्ते शस्त्रसम्पाते योधानां तत्र सेनयोः
तेषां प्रहारक्षतजं रक्तचन्दनसन्निभम्
तेषामस्राणि गात्रेभ्यस्स्रवन्ते रणमूर्धनि
पलाशाशोकपुष्पाणां जङ्गमा इव राशयः
रणे समभिवर्तन्त उद्यतायुधपाणयः
शोभमाना रणे शूरा आह्वयन्तः परस्परम्
हन्यमानेष्वभिघ्नत्सु शूरेषु रणसङ्कटे
पृष्ठं दत्त्वा च ये तत्र नायकस्य नराधमाः
अनाहता निवर्तन्ते नायके चाप्यनीप्सति
ते दुष्कृतं प्रपद्यन्ते नायकस्याखिलं नराः
यच्चास्ति सुकृतं तेषां युज्यते तेन नायकः
अहिंसा परमो धर्म इति येऽपि नरा विदुः
सङ्ग्रामेषु न युध्यन्ते भृत्याश्चैवानुरूपतः
नरकं यान्ति ते घोरं भर्तृपिण्डापहारिणः
यस्तु प्राणान्परित्यज्य प्रविशेदुद्यतायुधः
सङ्ग्राममग्निप्रतिमं पतङ्ग इव निर्भयः
स्वर्गमाविशते ज्ञात्वा योधस्य गतिनिश्चयम्
आविष्टश्चैव सत्त्वेन सघृणो जायते नरः
प्रहारैर्नन्दयेद्देवि सत्त्वेनाधिष्ठितो हि सः
प्रहारव्यथितश्चैव न वैक्लब्यमुपैति सः
यस्तु स्वं नायकं रक्षेदतिघोरे रणाङ्कणे
तापयन्नरिसैन्यानि सिंहो मृगगणानिव
आदित्य इव मध्याह्ने दुर्निरीक्ष्यो रणाजिरे
निर्दयो यस्तु सङ्ग्रामे प्रहरन्नुद्यतायुधः
यजते स तु पूतात्मा सङ्ग्रामेण महाक्रतुम्
वर्म कृष्णाजिनं तस्य दन्तकाष्ठं धनुस्स्मृतम्
रथो वेदिर्ध्वजो यूपः कुशाश्च रथरश्मयः
मानो दर्पस्त्वहङ्कारस्त्रयस्त्रेताग्नयस्स्मृताः
प्रमोदश्च स्रुवस्तस्य उपाध्यायो हि सारथिः
स्रुग्भाण्डं चापि यत्किञ्चिद्यज्ञोपकरणानि च
आयुधान्यस्य तत्सर्वं समिधस्सायकास्स्मृताः
स्वेदस्रवश्च गात्रेभ्यः क्षौद्रं तस्य यशस्विनः
पुरोडाशा नृशीर्षाणि रुधिरं चाहुतिस्स्मृता
तूणाश्चैव चरुर्ज्ञेया वसोर्धारा वसास्स्मृताः
क्रव्यादा भूतसङ्घाश्च तस्मिन्यज्ञे द्विजतयः
तेषां भक्षान्नपानानि हता नृगजवाजिनः
भुञ्जते ते यथाकामं यता यज्ञे किमिच्छताम्
निहतानां तु योधानां वस्त्राभरणभूषणम्
हिरण्यं च सुवर्णं च यद्वै यज्ञस्य दक्षिणा
यस्तत्र हन्यते देवि गजस्कन्धगतो नरः
ब्रह्मलोकमवाप्नोति रणेष्वभिमुखो हतः
रथमध्यगतो वाऽपि हयपृष्ठगतोऽपि वा
हन्यते यस्तु सङ्ग्रामे शक्रलोके महीयते
स्वर्गे हताः प्रपूज्यते हन्ता त्वत्रैव पूज्यते
द्वावेतौ सुखमेधेते हन्ता यश्चैव हन्यते
तस्मात्सङ्ग्राममासाद्य प्रहर्तव्यमभीतवत्
निर्भयो यस्तु सङ्ग्रामे प्रहरेदुद्यतायुधः
यथा नदीसहस्राणि प्रविष्टानि महोदधिम्
तथा सर्वे न सन्देहो धर्मा धर्मभृतां वरम्
प्रविष्टा राजधर्मेण आचारविनयस्तथा
वेदोक्ताश्चैव ये धर्माः पाषण्डेषु च कीर्तिताः
तथैव मानुषा धर्मा धर्माश्चान्ये तथेतरे
देशजातिकुलानां च ग्रामधर्मास्तथैव च
ये धर्माः पार्वतीयेषु ये धर्माः पत्तनादिषु
तेषां पूर्वप्रवृत्तानां कर्तव्यं परिरक्षणम्
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः
तस्माद्धर्मो न हन्तव्यः पार्थिवेन विशेषतः
प्रजाः पालयते यत्र धर्मेण वसुधाधिपः
षट्कर्मनिरता विप्राः पूज्यन्ते पितृदैवतैः
नैव तस्मिन्ननावृष्टिर्न रोगा नाप्युपद्रवाः
धर्मशीलाः प्रजास्सर्वास्स्वधर्मनिरते नृपे
एष्टव्यस्सततं देवि युक्ताचारो नराधिपः
छिद्रज्ञश्चैव शत्रूणामप्रमत्तः प्रतापवान्
शूद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः
तस्मात्प्रमादं सुश्रोणि न कुर्यात्पण्डितो नृपः
तेषु मित्रेषु त्यक्तेषु तथा मर्त्येषु हस्तिषु
विस्रम्भो नोपगन्तव्यस्स्नानपानेषु नित्यशः
राज्ञो वल्लभतामेति कुलं भावयते स्वकम्
यस्तु राष्ट्रहितार्थाय गोब्राह्मणकृते तथा
बन्दीग्रहाय मित्रार्थे प्राणांस्त्यजति दुस्त्यजान्
सर्वकामदुघां धेनुं धरणीं लोकधारिणीम्
समुद्रान्तां वरारोहे सशैलवनकाननाम्
दद्याद्देवि द्विजातिभ्यो वसुपूर्णां वसुन्धराम्
न तत्समं वरारोहे प्राणत्यागी विशिष्यते
सहस्रमपि यज्ञानां यजते च धनर्द्धिमान्
यज्ञैस्तस्य किमाश्चर्यं प्राणत्यागस्सुदुष्करः
तस्मात्सर्वेषु यज्ञेषु प्राणयज्ञो विशिष्यते
एवं सङ्ग्रामयज्ञास्ते यथार्थं समुदाहृताः