उमा-
उक्तस्त्वया त्रिवर्गस्य धर्मः परमकश्शुभः
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीतु मे
श्रीमहेश्वरः-
ब्रह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना
लोकांस्तारयितुं युक्ता मर्त्येषु क्षितिदेवताः
तेषु तावत्प्रवक्ष्यामि धर्मं शुभफलोदयम्
ब्राह्मणेष्वभयो धर्मः परमश्शुभलक्षणः
इमे च धर्मा लोकानां पूर्वं सृष्टास्स्वयम्भुवा
पृथिव्यां सद्द्विजैर्नित्यं कीर्त्यमानं निबोध मे
स्वदारनिरतिर्धर्मो नित्यं जप्यं तथैव च
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्
शूद्रो धर्मपरो नित्यं शुश्रूषाऽविमना भवेत्
त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः
त्रिवर्गस्य व्यतिक्रान्तं तस्य धर्मस्सनातनः
षट्तु कर्माणि प्रोक्तानि सृष्टानि ब्रह्मणा पुरा
धर्मिष्ठानि वरिष्ठानि तानि तानि शृणूत्तमे
यजनं याजनं चैव दानं पात्रे प्रतिग्रहः
अध्यापनञ्चाध्ययनं षट्कर्मा धर्मभागृजुः
नित्यस्स्वाध्यायतो धर्मो नित्ययज्ञसनातनः
दानं प्रशंसते नित्यं ब्राह्मणेषु त्रिकर्मसु
अयमेव परो धर्मस्संवृतस्सत्सु विद्यते
गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान्
पञ्चयज्ञविशुद्धात्मा ऋतुनित्योऽनसूयकः
दान्तो ब्राह्मणसत्कर्ता सुसम्मृष्टनिवेशनः
चक्षुश्श्रोत्रमनोजिह्वास्निग्धवर्णप्रदस्सदा
अतिथ्यभ्यागतरतश्शेषान्नकृतभोजनः
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा
दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः
प्रातरुत्थाय वै पश्चाद्भोजने तु निमन्त्रयेत्
सत्कृत्यानुव्रजेद्यश्च तस्य धर्मस्सनातनः
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते
तदहं कीर्तयिष्यामि त्रिवर्गेषु च यद्यथा
एकेनांशेन धर्मार्थः कर्तव्यो हितमिच्छता
एकेनांशेन कामार्थमेकमंशं विवर्धयेत्
निवृत्तिलक्षणः पुण्यो धर्मो मोक्षो विधीयते
तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता
सर्वभूतदया धर्मो निवृत्तिः परमस्सदा
बुभुक्षितं पिपासार्तमतिथिं श्रान्तमागतम्
अर्चयन्ति वरारोहे तेषामपि फलं महत्
पात्रमित्येव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति
काले सम्प्राप्तमतिथिं भोक्तुकाममुपस्थितम्
यस्तं सम्भावयेत्तत्र व्यासोऽयं समुपस्थितः
तस्य पूजां यथाशक्त्या सौम्यचित्तः प्रयोजयेत्
चित्तमूलो भवेद्धर्मो धर्ममूलं भवेद्यशः
तस्मात्सौम्येन चित्तेन दातव्यं देवि सर्वथा
सौम्यचित्तस्तु यो दद्यात्तद्धि दानमनुत्तमम्
यथाऽम्बुबिन्दुभिस्सूक्ष्मैः पतद्भिर्मेदिनीतले
केदाराश्च तटाकानि सरांसि सरितस्तथा
तोयपूर्णानि दृश्यन्ते अप्रतर्क्याणि शोभने
अल्पमल्पमपि ह्येकं दीयमानं विवर्धते
पीडयाऽपि च भृत्यानां दानमेव विशिष्यते
पुत्रदारधनं धान्यं न मृताननुगच्छति
श्रेयो दानं च भोगश्च धनं प्राप्य यशस्विनि
दानेन हि महाभागा भवन्ति मनुजाधिपाः
नास्ति भूमौ दानसमं नास्ति दानसमो निधिः
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्
आश्रमे यस्तु तप्येत तपोमूलफलाशनः
आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः
मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत्
सम्यक्तपश्चरन्तीह श्रद्दधाना वनाश्रमे
गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम्
उमा-
गृहाश्रमस्य या चर्या व्रतानि नियमाश्च ये
तथा च देवताः पूज्यास्सततं गृहमेधिना
यद्यच्च परिहर्तव्यं गृहीणा तिथिपर्वसु
तत्सर्वं श्रोतुमिच्छामि कथ्यमानं त्वया विभो
श्रीमहेश्वरः-
गृहाश्रमस्य यन्मूलं फलं धर्मोऽयमुत्तमम्
पादैश्चतुर्भिस्सततं धर्मो यत्र प्रतिष्ठितः
सारभूतं वरारोहे दध्नो घृतमिवोद्धृतम्
तदहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि
शुश्रूषन्ते ये पितरं मातरं च गृहाश्रमे
भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः
तेषु तेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः
पितरः पितृलोकस्थास्स्वधर्मेण स रज्यते
उमा-
मातापितृवियुक्तानां का चर्या गृहमेधिनाम्
विधवानां च नारीणां भवानेतद्ब्रवीतु मे
श्रीमहेश्वरः-
देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम्
अहिंसा सर्वभूतानामलोभस्सत्यसन्धता
ब्रह्मचर्यं शरण्यत्वं शौचं पूर्वाभिभाषणम्
कृतज्ञत्वमपैशुन्यं सततं धर्मशीलता
दिने द्विरभिषेकं च पितृदैवतपूजनम्
गवाह्निकप्रदानं च संविभागोऽतिथिष्वपि
दीप प्रतिश्रयं चैव दद्यात्पाद्यासनं तथा
पञ्चमेऽहनि षष्ठे वा द्वादशेऽप्यष्टमेऽपि वा
चतदुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत्
श्मश्रुकर्म शिरोभ्यङ्गमञ्जनं दन्तधावनम्
नैतेष्वहस्सु कुर्वीत तेषु लक्ष्मीः प्रतिष्ठिता
व्रतोपवासनियमस्तपो दानं च शक्तितः
भरणं भृत्यवर्गस्य दीनानामनुकम्पनम्
परदारान्निवृत्तिश्च स्वदारेषु रतिस्सदा
शरीरमेकं दम्पत्योर्विधात्रा पूर्वनिर्मितम्
तस्मात्स्वदारनिरतो ब्रह्मचारी विधीयते
शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च
आर्जवे वर्तमानस्य सर्वभूतहितैषिणः
प्रियातिथेश्च क्षान्तस्य धर्मार्जितधनस्य च
गृहाश्रमपदस्थस्य किमन्यैः कृत्यमाश्रमैः
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः
तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः
राजानस्सर्वपाषण्डास्सर्वे रङ्गोपजीविनः
व्यालग्रहाश्च डम्याश्च चोरा राजभटास्तथा
सविद्यास्सर्वजीवज्ञास्सर्वे वै विचिकित्सकाः
दूराध्वानं प्रपन्नाश्च क्षीणपथ्योदना नराः
एते चान्ये च बहवस्तर्कयन्ति गृहाश्रमम्
मार्जारा मूषिकाश्श्वानस्सूकराश्च शुकास्तथा
कपोतका कावटकास्सरीसृपनिषेवणाः
अरण्यवासिनश्चान्ये सङ्घा ये मृगपक्षिणाम्
एवं बहुविधा देवि लोकेऽस्मिन्सचराचराः
गृहे क्षेत्रे बिले चैव शतशोऽथ सहस्रशः
गृहस्थेन कृतं कर्म सर्वैस्तैरिह भुज्यते
उपयुक्तं च यत्तेषां मतिमान्नानुशोचति
धर्म इत्येव सङ्कल्प्य यस्तु तस्य फलं शृणु
सर्वयज्ञप्रणीतस्य हयमेधेन यत्फलम्
वर्षे स द्वादशे देवि फलेनैतेन युज्यते
आशापाशविमोक्षं च विद्धि धर्ममनुत्तमम्
वृक्षमूलचरो नित्यं शून्यागारनिवेशनमम्
नदीपुलिनशायी च नदीतीरमनुव्रजन्
विमुक्तस्सर्वसङ्गेभ्यस्स्नेहबन्धेन वै द्विजः
आत्मन्येवात्मना भावं समायोज्येह तेन वै
आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा
पवित्रनित्यो युक्तश्च तस्य धर्मस्सनातनः
नैकत्र रमते सक्तो न चैकग्रामगोचरः
युक्तोऽप्यटति यो युक्तो न चैकपुलिनाशयः
एष मोक्षविदां धर्मो वेदोक्तस्सत्पथे स्थितः