उमा-
भगवन्देवदेवेश त्रिपुरान्तक शङ्कर
अयं त्वृषिगणो देव तपस्तप इति प्रभो
तपसा कर्शितो नित्यं तपोऽर्जनपरायणः
अस्य किंलक्षणो धर्मः कीदृशश्चागमस्तथा
एतदिच्छाम्यहं श्रोतुं तन्मे वद वरप्रद
नारदः-
एवं ब्रुवन्त्यां रुद्राण्यामृषयस्साधु साध्विति
अब्रुवन्हृष्टमनसस्सर्वे तद्गतमानसाः
शृण्वन्तीमृषिधर्मांस्तु ऋषयश्चाभ्यपूजयन्
ऋषयः-
नारदः-
त्वत्प्रसादद्वयं देवि श्रोष्यामः परमं हितम्
धन्याः खलु वयं सर्वे पादमूलमुपाश्रिताः
इति सर्वे तदा देवीं वाचा समभिपूजयन्
श्रीमहेश्वरः-
न्यायतस्त्वं महाभागे श्रोतुकामा मनस्विनि
हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते
वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः
बहुशाखो बहुविधो ऋषिधर्मस्सनातनः
प्रायशस्सर्वभोगार्थमृषिभिः क्रियते तपः
तथा सञ्चरतां तेषां देवि धर्मविधिं शृणु
भूत्वा पूर्वं गृहस्थस्तु पुत्रानृण्यमवाप्य च
कलत्रकार्यं संस्थाप्य कारणात्सन्त्यजेद्गृहम्
अवस्थाप्य मनो धृत्या व्यवसायपुरस्सरः
निर्द्वन्द्वो वा सदारो वा वनवासाय संव्रजेत्
देशाः परमपुण्या ये नदीवनसमन्विताः
अबोधमुक्ताः प्रायेण तीर्थायतनसंयुताः
तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद्यथागमम्
दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत्
काल्योत्थानं च शौचं च सर्वदेवप्रणामनम्
शकृदालेपनं काये त्यक्तदोषप्रमादता
सायम्प्रातश्चाभिषेकं चाग्निहोत्रं यथाविधि
काले शौचं च कार्यं च जटावल्कलधारणम्
सततं वनचर्या च समित्कुसुमकारणात्
नीवाराग्रयणं काले शाकमूलोपचायनम्
सदायतनशौचं च तस्य धर्माय चेष्यते
अतिथीनामाभिमुख्यं तत्परत्वं च सर्वदा
पाद्यासनाभ्यां सम्पूज्य तथाऽऽहारनिमन्त्रणम्
अग्राम्यपचनं काले पितृदेवार्चनं तथा
पश्चादतिथिसत्कारस्तस्य धर्मस्सनातनः
शिष्टैर्धर्मासने चैव धर्मार्थसहिताः कथाः
प्रतिश्रयविभागश्च भूमिशय्या शिलासु वा
व्रतोपवासयोगश्च क्षमा चेन्द्रियनिग्रहः
दिवारात्रं यथायोगं शौचं धर्मस्य चिन्तनम्
एवं धर्माः पुरा दृष्टास्सामान्यवनवासिनाम्
एवं वै यतमानस्य कालधर्मो यदा भवेत्
वदैव सोऽभिजयति स्वर्गलोकं शुचिस्मिते
तत्र संविदिता भोगास्स्वर्गस्त्रीभिरनिन्दिते
परिभ्रष्टो यथा स्वर्गाद्विशिष्टस्तु भवेन्नृषु
एवं धर्मस्तथा देवि सर्वेषां वनवासिनाम्
एतत्ते कथितं सर्वं किं भूयश्श्रोतुमिच्छसि
उमा-
भगवन्देवदेवेश ऋषीणां चरितं शुभम्
विशेषधर्मानिच्छामि श्रोतुं कौतूहलं हि मे
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता
वननित्यैर्वनरतैर्वानप्रस्थैर्महर्षिभिः
वनं गुरुमिवालम्ब्य वस्तव्यमिति निश्चयः
वीरशय्यामुपासद्भिर्वारस्थानोपसेविभिः
व्रतोपवासैर्बहुभिर्ग्रीष्मे पञ्चतपैस्तथा
पञ्चयज्ञपरैर्नित्यं पौर्णमास्यापरायणैः
मण्डूकशायैर्हेमन्ते शैवालाङ्कुरभोजनैः
चीरवल्कलसंवीतैर्मृगाजिनधरैस्तथा
चातुर्मास्यपरैः कैश्चिद्देवधर्मपरायणैः
एवंविधैर्वनेवासैस्तप्यते सुमहत्तपः
एवं कृत्वा शुभं कर्म पश्चाद्याति त्रिविष्टपम्
तत्रापि सुमहत्कालं संविहृत्य यथासुखम्
जायते मानुषे लोके दानभोगसमन्वितः
तपोविशेषसंयुक्ताः कथितास्ते शुचिस्मिते
उमा-
भगवन्सर्वलोकेश तेषु ये दारसंयुताः
कीदृशं चरितं तेषां तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
य एकपत्नीधर्माणश्चरन्ति विपुलं तपः
विन्ध्यपादेषु ये केचिद्ये च नैमिशवासिनः
पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः
सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः
हिंसाद्रोहविमुक्ताश्च सर्वभूतानुकम्पिनः
शान्ता दान्ता जितक्रोधास्सर्वातिथ्यपरायणाः
प्राणिष्वात्मोपमा नित्यमृतुकालाभिगामिनः
स्वदारसहिता देवि चरन्ति व्रतमुत्तमम्
वसन्ति सुखमव्यग्राः पुत्रदारसमन्विताः
तेषां परिच्छदारम्भाः कृतोपकरणानि च
गृहस्थवद्द्वितीयं ते यथायोगं प्रमाणतः
पोषणार्थं स्वदाराणामग्निकार्यार्थमेव च
गावश्च कर्षणं चैव सर्वमेतद्विधीयते
एवं वनगतैर्देवि कर्तव्यं दारसङ्ग्रहैः
ते स्वदारैस्समायान्ति पुण्याँल्लोकान्द्दढव्रताः
पतिभिस्सह ये दाराश्चरन्ति विपुलं तपः
अव्यग्रभावादैकात्म्यात्ताश्च गच्छन्ति वै दिवम्
एतत्ते कथितं देवि किं भूयश्श्रोतुमिच्छसि
उमा-
भगवन्देवदेवेश तेषां कर्मफलं प्रभो
श्रोतुमिच्छाम्यहं देव प्रसादात्ते वरप्रद
श्रीमहेश्वरः-
वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये
अग्नियोगं व्रजन्ग्रीष्मे ततो द्वादशवार्षिकम्
काष्ठवन्मौनमास्थाय नरो द्वादशवार्षिकम्
मरुतां लोकमास्थाय तत्र भोगैश्च युज्यते
कुशशर्करसंयुक्ते स्थण्डिले संविशन्मुनिः
यक्षलोकेऽभिजायेत सहस्राणि चतुर्दश
वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम्
वीरासनगतो यस्तु कण्टकाफलकाश्रितः
गन्धर्वेष्वभिजायेत नरो द्वादशवार्षिकम्
वीरस्थायी चोर्ध्वबाहुर्नरो द्वादशवार्षिकम्
देवलोकेऽभिजायेत दिव्यभोगसमन्वितः
पादाङ्गुष्ठेन यस्तिष्ठेदूर्ध्वबाहुर्जितेन्द्रियः
इन्द्रलोकेऽभिजायेत सहस्राणि चतुर्दश
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम्
नागलोकेऽभिजायेत संवत्सरगणान्बहून्
एवं दृढव्रता देवि वानप्रस्थाश्च कर्मभिः
स्थानेषु तत्र तिष्ठन्ति तत्तद्भोगसमन्विताः
तेभ्यो भ्रष्टाः पुनर्देवि जायन्ते नृषु भोगिनः
वर्णोत्तमकुलेष्वेव धनधान्यसमन्विताः
एतत्ते कथितं देवि किं भूयश्श्रोतुमिच्छसि
उमा-
एषां यायावराणां तु धर्ममिच्छामि मानद
कृपया परयाऽऽविष्टस्तन्मे ब्रूहि महेश्वर
श्रीमहेश्वरः-
धर्मं ययावराणां त्वं शृणु भामिनि तत्परा
व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः
धृतिमन्तः क्षमायुक्तास्सत्यव्रतपरायणाः
पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः
वर्षैश्शीतातपैश्चैव कुर्वन्तः परमं तपः
कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते
तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः
दिव्यभूषणसंयुक्ता विमानवरसंयुताः
विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः
एतत्ते कथितं देवि किं भूयश्श्रोतुमिच्छसि
उमा-
श्रीमहेश्वरः-
तेषां चक्रचराणां च धर्ममिच्छामि वै प्रभो
एतत्ते कथयिष्यामि शृणु शाकटिकं शुभे
संवहन्तो धुरं दानैः शकटानां तु सर्वदा
प्रार्थयन्ते यथाकालं शकटैर्भैक्षचर्यया
तपोर्जनपरा धीरास्तपसा क्षीणकल्मषाः
पर्यटन्तो दिशस्सर्वाः कामक्रोधविवर्जिताः
तेनैव कालयोगेन त्रिदिवं यान्ति शोभने
तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम्
उमा-
एतत्ते कथितं देवि किं भूयश्श्रोतुमिच्छसि
वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो
श्रीमहेश्वरः-
ते वै वैखानसा नाम वानप्रस्थाश्शुभेक्षणे
तीव्रेण तपसा युक्ता दीप्तिमन्तस्स्वतेजसा
सत्यव्रतपरा धीरास्तेषां निष्कल्मषं तपः
अश्मकुट्टास्तथाऽन्ये च दन्तोलूखलिनस्तथा
शीर्णपर्णाशिनश्चान्ये उञ्छवृत्तास्तथा परे
कपोतवृत्तयश्चान्ये कापोतीं वृत्तिमाश्रिताः
पशुप्रचारनिरताः फेनपाश्च तथा परे
मृगवन्मृगचर्यायां सञ्चरन्ति तथा परे
अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च
केचिच्चरन्ति सद्विष्णोः पादपूजनमुत्तमम्
सञ्चरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः
स्ववशादेव ते मृत्युं भीषयन्ति च नित्यशः
इन्द्रलोके तथा तेषां निर्मिता भोगसञ्चयाः
अमरैस्समतां यान्ति देववद्भोगसंयुताः
वराप्सरोभिस्संयुक्ताश्चिरकालमनिन्दिते
एतत्ते कथितं देवि भूयश्श्रोतुं किमिच्छसि
उमा-
श्रीमहेश्वरः-
भगवञ्श्रोतुमिच्छामि वालखिल्यांस्तपोधनान्
धर्मचर्यां तथा देवि वालखिल्यगतां शृणु
मृगनिर्मोकवसना निर्द्वन्द्वास्ते तपोधनाः
अङ्गुष्ठमात्रास्सुश्रोणि तेष्वेवाङ्गेषु संयुताः
उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैस्स्तवैः
भास्करस्येव किरणैस्सहसा यान्ति नित्यदा
द्योतयन्तो दिशस्सर्वा धर्मज्ञास्सत्यवादिनः
तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम्
लोकोऽयं धार्यते देवि तेषामेव तपोबलात्
महात्मनां तु तपसा सत्येन च शुचिस्मिते
क्षमया च महाभागे भूतानां संस्थितिं विदुः
प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः
तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम्
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत्
पञ्चभूतार्थतत्वे च लोकसृष्टिविवर्धनम्
एतत्सर्वं समासेन तपोयोगाद्विनिर्मितम्
तस्मादयं त्वृषिगणस्तपस्तप इति प्रिये
प्रियार्थमृषिसङ्घस्य प्रजानां हितकाम्यया
नारदः-
एवं ब्रुवन्तं देवेशमृषयश्चापि तुष्टुवुः
भूयः परतरं यत्तु तदाप्रभृति चक्रिरे