नारदः-
क्षणज्ञा देवदेवस्य श्रोतुकामा प्रियं हितम्
उमा देवी महादेवमपृच्छत्पुनरेव तु
उमा-
भगवन्देवदेवेश सर्वदेवनमस्कृत
चतुर्मुखो वै भगवानभवत्केन हेतुना
भगवन्केन ते वक्त्रमैन्द्रमद्भुतदर्शनम्
उत्तरं चापि भगवन्पश्चिमं शुभदर्शनम्
दक्षिणं च मुखं रौद्रं केनोर्ध्वं जटिलावृतम्
यथादिशं महाभाग श्रोतुमिच्छामि कारणम्
एष मे संशयो देव तन्मे शंसितुमर्हसि
श्रीमहादेवः-
तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि भामिनि
पुराऽसुरो महाघोरौ लोकोद्वेगकरौ भृशम्
सुन्दोपसुन्दनामानावासतुर्बलगर्वितौ
अशस्त्रवध्यौ बलिनौ परस्परहितैषिणौ
तयोरेव विनाशाय निर्मिता विश्वकर्मणा
सर्वतस्सारमुद्धृत्य तिलशो लोकपूजिता
तिलोत्तमेति विख्याता अप्सरा हि बभूव ह
देवकार्यं करिष्यन्ती हासभावसमन्विता
सा तपस्यन्तमागम्य रूपेणाप्रतिमा भुवि
मया बहुमता चेयं देवकार्यं करिष्यति
इति मत्वा तदा चाहं कुर्वन्तीं मां प्रदक्षिणम्
तथैव तां दिदृक्षुश्च चतुर्वक्त्रोऽभवं प्रिये
ऐन्द्रं मुखमिदं पूर्वं तपश्चर्यापरं सदा
दक्षिणं मे मुखं दिव्यं रौद्रं संहरति प्रजाः
लोककार्यपरं नित्यं पश्चिमं मे मुखं प्रिये
वेदानधीते सततमद्भुतं चोत्तरं मुखम्
एतत्ते सर्वमाख्यातं किं भूयश्श्रोतुमिच्छसि
उमा-
श्रीमहेश्वरः-
भगवञ्श्रोतुमिच्छामि शूलपाणे वरप्रद
किमर्थं नीलता कण्ठे तव भाति महेश्वर
एतत्ते कथयिष्यामि शृणु देवि समाहिता
पुरा युगान्तरे यत्नादमृतार्थं सुरासुरैः
बलवद्भिर्विमथितश्चिरकालं महोदधिः
रज्जुना नागराजेन मथ्यमाने महोदधौ
विषं तत्र समुद्भूतं सर्वलोकविनाशनम्
तद्दृष्ट्वा विबुधास्सर्वे तदा विमनसोऽभवन्
ग्रस्तं हि तन्मया देवि लोकानां हितकारणात्
तत्कृता नीलता चासीत्कण्ठे बर्हिनिभा शुभे
तदाप्रभृति चैवाहं नीलकण्ठ इति स्मृतः
एतत्ते सर्वमाख्यातं किं भूयश्श्रोतुमिच्छसि
उमा-
नीलकण्ठ नमस्तेऽस्तु सर्वलोकसुखावह
बहूनामायुधानां त्वं पिनाकं धर्तुमिच्छसि
किमर्थं देवदेवेश तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
शस्त्रागमं ते वक्ष्यामि शृणु धर्म्यं शुचिस्मिते
युगान्तरे महादेवि कण्वो नाम महामुनिः
स हि दिव्यां तपश्चर्यां कर्तुमेवोपचक्रमे
तथा तस्य तपो घोरं चरतः कालपर्ययात्
वल्मीकं पुनरुद्भूतं तस्यैव शिरसि प्रिये
वेणुर्वल्मीकसंयोगान्मूर्ध्नि तस्य बभूव ह
धरमाणश्च तत्सर्वं तपश्चर्यां तथाऽकरोत्
तस्मै ब्रह्मा वरं दातुं जगाम तपसार्चितः
दत्त्वा तस्मै वरं देवो वेणुं दृष्ट्वा त्वचिन्तयत्
लोककार्यं समुद्दिश्य वेणुनाऽनेन भामिनि
चिन्तयित्वा तमादाय कार्मुकार्थे न्ययोजयत्
विष्णोर्मम च सामर्थ्यं ज्ञात्वा लोकपितामहः
धनुषी द्वे तदा प्रादाद्विष्णवे च मम चैव तु
पिनाकं नाम मे चापं शार्ङ्गं नाम हरेर्धनुः
तृतीयमवशेषेण गाण्डीवमभवद्धनुः
तच्च सोमाय निर्दिश्य ब्रह्मा लोकं गतः पुनः
एतत्ते सर्वमाख्यातं शस्त्रागममनिन्दिते
उमा-
भगवन्देवदेवेश पिनाकपरमप्रिय
वाहनेषु तथाऽन्येषु सत्सु भूतपते तव
श्रीमहादेवः-
अयं तु वृषभः कस्माद्वाहनं स यथाऽभवत्
एष मे संशयो देव तन्मे शंसितुमर्हसि
तदहं ते प्रवक्ष्यामि वाहनं स यथाऽभवत्
आदिसर्गे पुरा गावश्श्वेतवर्णाश्शुचिस्मिते
बलसंहनना गावो दर्पयुक्ताश्चरन्ति ताः
अहं तु तप आतिष्ठं तस्मिन्काले शुभानने
एकपादश्चोर्ध्वबाहुर्लोकार्थं हिमवद्गिरौ
गावो मे पार्श्वमागम्य दर्पोत्सिक्तास्समन्ततः
स्थानभ्रंशं तदा देवि चक्रिरे बहुशस्तदा
अपचारेण वै तासां मनःक्षोभोऽभवन्मम
तस्माद्दग्धा यदा गावो रोषाविष्टेन चेतसा
तस्मिंस्तु व्यसने घोरे वर्तमाने पशून्प्रति
अनेन वृषभेणाहं शमितस्सम्प्रसादनैः
तदाप्रभृति शान्ताश्च वर्णभेदत्वमागताः
श्वेतोऽयं वृषभो देवि सर्वसंस्कारसंयुतः
वाहनत्वे ध्वजत्वे मे तदाप्रभृति योजितः
तस्मान्मे गोपतित्वं च देवैर्गोभिश्च कल्पितम्
प्रसन्नश्चाभवं देवि तदा गोपतितां गतः