वैशम्पायनः-
अनुशास्य शुभैर्वाक्यैर्भीष्ममाह महामतिः
प्रीत्या पुनस्स शुश्रूषुर्वचनं यद्युधिष्ठिरः
जनमेजयः-
पितामहो मे विप्रर्षे भीष्मं कालवशं गतम्
किमपृच्छत्तदा राजा सर्वसामाजिकं हितम्
उभयोर्लोकयोर्युक्तं पुरुषार्थमनुत्तमम्
तन्मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे
वैशम्पायनः-
भूय एव महाराज शृणु धर्मसमुच्चयम्
यदपृच्छत्तदा राजा कुन्तीपुत्रो युधिष्ठिरः
शरतल्पगतं भीष्मं सर्वपार्थिवसन्निधौ
अजातशत्रुः प्रीतात्मा पुनरेवाभ्यभाषत
युधिष्ठिरः-
पितामह महाप्राज्ञ सर्वशास्त्रविशारदः
श्रूयतां मे हि वचनमर्थित्वात्प्रब्रवीम्यहम्
परावरज्ञो भूतानां दयावान्सर्वजन्तुषु
आगमैर्बहुभिः प्रीतो भवान्नः परमं कुले
त्वादृशो दुर्लभो लोके साम्प्रतं ज्ञानसंयुतः
भवता गुरुणा चैव धन्याश्चैव वयं प्रभो
अयं स कालस्सम्प्राप्तो दुर्लभो ज्ञातिबान्धवैः
शास्ता तु नास्ति नः कश्चित्त्वदृते पुरुषर्षभ
तस्माद्धर्मार्थसहितमायत्यां च हितोदयम्
आश्चर्यं परमं वाक्यं श्रोतुमिच्छामि भारत
अयं नारायणश्श्रीमन्सर्वपार्थिवसन्निधौ
भवन्तं बहुमानाच्च प्रणयाच्चैव सेवते
अस्यैव तु समक्षं नः पार्थिवानां तथैव च
इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम्
यदि तेऽहमनुग्राह्यो भ्रातृभिस्सहितोऽनघ
मत्प्रियार्थं हि कौरव्य स्नेहाद्भाषितुमर्हसि
वैशम्पायनः-
भीष्मः-
तस्य तद्वचनं श्रुत्वा स्नेहादागतविक्लवः
प्रविबन्निव तं दृष्ट्वा भीष्मो वचनमब्रवीत्
शृणु राजन्पुरावृत्तिमितिहासं पुरातनम्
वैशम्पायनः-
एतावदुक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम्
धर्मराजं समीक्ष्येदं पुनर्वक्तुं समारभत्
भीष्मः-
अयं नारायणश्श्रीमान्पुत्रार्थे व्रतकाङ्क्षया
दीक्षितो हि महाबाहुः पुरा द्वादशवार्षिकम्
दीक्षितं केशवं द्रष्टुमभिजग्मुर्महर्षयः
सेवित्वा च महात्मानं प्रीयमाणं जनार्दनम्
नारदः पर्वतश्चैव कृष्णद्वैपायनस्तथा
देवलः काश्यपश्चैव हस्तिकाश्यप एव च
जमदग्निश्च राजेन्द्र धौम्यो वाल्मीकिरेव च
अपरेऽपि तपस्सिद्धास्सत्यव्रतपरायणाः
शिष्यैरनुगतास्सर्वे ब्रह्मविद्भिरकल्मषैः
केशवस्तानभिगतान्प्रीत्या सम्परिगृह्य च
तेषामतिथिसत्कारं पूजनार्थं कुलोचितम्
देवकीतनयो हृष्टो देवतुल्यमकल्पयत्
उपविष्टेषु सर्वेषु विष्टरेषु तदाऽनघ
विश्वस्तेष्वाभितुष्टेषु केशवार्चनया पुनः
परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः
विष्णोर्नारायणस्यैव प्रसादात्कथयामि ते
तस्यैव व्रतचर्यायां मुनिभिर्विस्मितं पुनः
यत्र गोवृषभाङ्कस्य प्रभावोऽभून्महात्मनः
यत्र देवी महादेवमपृच्छत्संशयान्पुरा
कथयामास देवेशो देव्याः प्रियचिकीर्षया
उमापत्योश्च संवादं शृणु तात मनोरमम्
वर्णाश्रमाणां धर्मश्च तत्र तात समाहितः
ऋषिधर्मश्च निखिलो राजधर्मश्च पुष्कलः
गृहस्थधर्मश्च शुभः कर्मपाकफलानि च
देवगुह्यं च विविधं दानधर्मविधिस्तथा
विधानमत्र प्रोक्तं यद्यमस्य नियमस्य च
यमलोकविधानं च स्वर्गलोकगतिस्तथा
प्राणमोक्षविधिश्चैव तीर्थचर्या च पुष्कला
मोक्षधर्मविधानं च साङ्ख्ययोगसमन्वितम्
स्त्रीधर्मश्च स्वयं देव्या देवदेवाय भाषितः
एवमादि शुभं सर्वं तत्र तात समाहितम्
रुद्राण्यास्संशयप्रश्नो यत्र तात प्रवर्तते
धन्यं यशस्यमायुष्यं धर्म्यं च परमं हितम्
पुष्टियोगमिमं दिव्यं कथ्यमानं मया शृणु
इतिहासमिमं दिव्यं पवित्रं परमं शुभम्
सायं प्रातस्सदा सम्यक्श्रोतव्यं च बुभूषता
ततो नारायणो देवस्सङ्क्लिष्टो व्रतचर्यया
वह्निर्विनिस्सृतो वक्त्रात्कृष्णस्याद्भुतदर्शनः
अग्निना तेन महता निस्सृतेन मुखाद्विभोः
पश्यतामेव सर्वेषां दग्ध एव नगोत्तमः
मृगपक्षिगणाकीर्णश्श्वापदैरपि सङ्कुलः
वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः
पुनस्स दृष्टमात्रेण हरिणा सौम्यचेतसा
स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः
सिद्धचारणसङ्घैश्च प्रसन्नैरुपशोभितः
मत्तवारणसंयुक्तो नानापक्षिगणैर्युतः
तदद्भुतमचिन्त्यं च सर्वेषामभवद्भृशम्
तं दृष्ट्वा हृष्टरोमाणस्सर्वे मुनिगणास्तदा
विस्तिताः परमायत्तास्साध्यसाकुललोचनाः
न किञ्चिदब्रुवंस्तत्र शुभं वा यदि वेतरत्
ततो नारायणो देवो मुनिसङ्घे तु विस्मिते
तान्समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः
श्रीभगवान्-
किमर्थं मुनिसङ्घस्य विस्मयोऽयमनुत्तमः
एतं मे संशयं सर्वे याथातथ्येन नन्दिताः
भीष्मः-
ऋषयो वक्तुमर्हन्ति निश्चयेनार्थकोविदाः
केशवस्य वचश्श्रुत्वा तुष्टुवुर्मुनिपुङ्गवाः
ऋषयः-
भवान्सृजति वै लोकान्भवान्संहरति प्रजाः
भवाञ्शीतं भवानुष्णं भवान्सत्यं भवान्क्रतुः
भवानादिर्भवानन्तो भवतोऽन्यन्न विद्यते
स्थावरं जङ्गमं सर्वं त्वमेव पुरुषोत्तम
त्वत्तस्सर्वमिदं तात लोकचक्रं प्रवर्तते
त्वमेवार्हसि तद्वक्तुं मुखादग्निविनिर्गमम्
एतन्नो विस्मयकरं बभूव मधुसूदन
ततो विगतसन्त्रासा भवाम पुरुषोत्तम
यदिच्छेत्तत्र वक्तव्यं कुतोऽस्माकं नियोगतः
श्रीभगवान्-
नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः
तस्माल्लोकहितं गुह्यं श्रूयतां कथयामि वः
असुरस्साम्प्रतं कश्चिदहितो लोकनाशनः
मायास्त्रकुशलश्चैव बलदर्पसमन्वितः
बभूव स मया बद्धो लोकानां हितकाम्यया
पुत्रेण मे वधो दृष्टस्तस्य वै मुनिपुङ्गवाः
तदर्थं पुत्रमेवाहं सिसृक्षुर्वनमागतः
आत्मनस्सदृशं पुत्रमहं जनयितुं व्रतैः
एवं व्रतपरीतस्य तपस्तीव्रतया मम
अथात्मा मम देहस्थस्सोऽग्निर्भूत्वा विनिस्सृतः
विनिस्सृत्य गतो द्रष्टुं क्षणेन च पितामहम्
ब्रह्मणा मन्मथोऽनङ्गः पुत्रत्वे मे प्रकल्पितः
अनुज्ञातश्च तेनैव पुनरायान्ममान्तिकम्
एवं मे वैष्णवं तेजो मम वक्त्राद्विनिःसृतम्
तत्तेजसा निर्मथितः पुरतोऽयं गिरिस्स्थितः
दृष्ट्वा दाहं गिरेस्तस्य सौम्यभावतया मम
पुनस्स दृष्टमात्रेण गिरिरासीद्यथा पुरा
एतद्गुह्यं यथातथ्यं कथितं वस्समासतः
भवन्तो व्यथिता येन विस्मिताश्च तपोधनाः
भीष्मः-
ऋषीणामेवमुक्त्वा तु तान्पुनः प्रत्यभाषत
श्रीभगवान्-
भवतां दर्शनादेव प्रीतिरभ्यधिका मम
भवन्तस्तु तपस्सिद्धा भवन्तो देवदर्शनाः
सर्वत्र गतिमन्तश्च ज्ञानविज्ञानभाविताः
गत्यागतिज्ञा लोकानां सर्वे निर्धूतकल्मषाः
तस्माद्भवद्भिर्यत्किञ्चिदृष्टं वाऽप्यथवा श्रुतम्
आश्चर्यभूतं लोकेषु तद्भवन्तो ब्रुवन्तु मे
युष्माभिः कथितं यत्स्यात्तपसा भावितात्मभिः
तत्स्यादमृतसङ्काशं वाङ्मधुश्रवणे स्पृहा
रागद्वेषवियुक्तानां सततं सत्यवादिनाम्
श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत्
तत्संयोगहितं मेऽस्तु न वृथा कर्तुमर्हथ
भवतां दर्शनं तस्मात्सफलं तु भवेन्मम
तदहं सज्जनमुखान्निस्सृतं जनसंसदि
कथयिष्याम्यहं बुद्ध्या बुद्धिदीपकरं नृणाम्
तदन्ये वर्धयिष्यन्ति पूजयिष्यन्ति चापरे
वात्सल्यविगताश्चान्ये प्रशंसन्ति पुरातनम्
भीष्मः-
एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः
वाग्भिस्साञ्जलिमालाभिरिदमूचुर्जनार्दनम्
ऋषयः-
अयुक्तमस्मानेवं त्वं वाचा वरद भाषितुम्
त्वच्छासनमुखास्सर्वे त्वदधीनपरिश्रमाः
एवं पूजयितुं चास्मान्न चैवार्हसि केशव
त्वत्तस्त्वन्यं न पश्यामो यल्लोके ते न विद्यते
भीष्मः-
दिवि वा भुवि वा किञ्चित्तत्सर्वं हि त्वया ततम्
न विद्महे वयं देव कथ्यमानं तवान्तिके
एवमुक्तो हृषीकेशस्सस्मितं चेदमब्रवीत्
श्रीभगवान्-
अहं मानुषयोनिस्थस्साम्प्रतं मुनिपुङ्गवाः
तस्मान्मानुषवद्वीर्यं मम जानीत सुव्रताः
भवद्भिः कथ्यमानं च अपूर्वमिव तद्भवेत्
भीष्मः-
एवं सञ्चोदितास्सर्वे केशवेन महात्मना
ऋषयश्चानुवर्तन्ते वासुदेवस्य शासनम्
ततस्त्वृषिगणास्सर्वे नारदं देवदर्शनम्
अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने
ऋषिरुग्रतपाश्चायं केशवस्य प्रियोऽधिकम्
पुराणज्ञश्च वाग्मी च कारणैस्तं च मेनिरे
सर्वे तदर्हणं कृत्वा नारदं वाक्यमब्रुवन्
ऋषयः-
भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ
दृष्टं वै यत्तदाश्चर्यं श्रोतॄणां परमं प्रियम्
अतस्त्वमविशेषेण हितार्थं सर्वमादितः
प्रियार्थं केशवस्यास्य स भवान्वक्तुमर्हति
भीष्मः-
तदा संयोजितस्सर्वैर्ऋषिभिर्नारदस्तदा
प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम्
समुद्वीक्ष्य हृषीकेशं वक्तुमेवोपचक्रमे
ततो नारायणसुहृन्नारदो वदतां वरः
शङ्करस्योमया सार्धं संवादमनुभाषत