युधिष्ठिरः-
यज्ज्ञेयं परमं कृत्यमनुष्ठेयं महात्मभिः
सारं मे सर्वशास्त्राणां वक्तुमर्हस्यनुग्रहात्
भीष्मः-
श्रूयतामिदमत्यन्तं गूढं संसारमोचनम्
श्रोतव्यं च त्वया सम्यग्ज्ञातव्यं च विशां पते
पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः
नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम्
नारदश्चाब्रवीदेनं ब्रह्मणोक्तं महात्मना
नारदः-
शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम्
अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसारकम्
यः परः प्रकृते प्रोक्तः पुरुषः पञ्चविंशकः
स एव सर्वभूतात्मा नर इत्यभिधीयते
नराज्जातानि तत्त्वानि नाराणीति ततो विदुः
तान्येव चायनं तस्य तेन नारायणस्स्मृतः
नारायणाज्जगत्सर्वं सर्गकाले प्रजायते
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते
नारायणः परं ब्रह्म तत्त्वं नारायणः परः
परादपि परश्चासौ तस्मान्नास्ति परात्परम्
वासुदेवं तथा विष्णुमात्मानं च तथा विदुः
सञ्ज्ञाभेदैस्स एवैकस्सर्वशास्त्राभिसंस्कृतः
आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः
इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा
तस्मात्त्वं गहनान्सर्वांस्त्यक्त्वा शास्त्रार्थविस्तरान्
अनन्यचेता ध्यायस्व नारायणमजं विभुम्
मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः
सोऽपि सद्गतिमाप्नोति किं पुनस्तत्परायणः
नमो नारायणायेति यो वेद ब्रह्म शाश्वतम्
अन्त्यकाले जपन्नेति तद्विष्णोः परमं पदम्
श्रवणान्मननाच्चैव गीतिस्तुत्यर्चनादिभिः
आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा
लिप्यते न स पापेन नारायणपरायणः
पुनाति सकलं लोकं सहस्रांशुरिवोदितः
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः
केशवाराधनं हित्वा नैव यान्ति परां गतिम्
जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः
तद्भक्तवत्सलं देवं समाराधय सुव्रत
भीष्मः-
नारदेनैवमुक्तस्तु स विप्रोऽभ्यर्चयद्धरिम्
स्वप्नोऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम्
किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम्
तं दृष्ट्वा देवदेवेशं प्राणमत्सम्भ्रमान्वितः
अथ कालेन महता तथा प्रत्यक्षतां गतः
संस्तुतस्स्तुतिभिर्वेदैर्देवगन्धर्वकिन्नरैः
अथ तेनैव भगवानात्मलोकमधोक्षजः
गतस्सम्पूजितस्सर्वैस्स योगिनिलयो हरिः
तस्मात्त्वमपि राजेन्द्र तद्भक्तस्तत्परायणः
अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम्
अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम्
निरुपममुपमेयं योगिविज्ञानगम्यं त्रिभुवनगुरुमीशं सम्प्रपद्यस्व विष्णुम्