युधिष्ठिरः-
विद्या तपश्च दानं च किमेतेषां विशिष्यते
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च
कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन्
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले
तमुपच्छन्नमासीनं ज्ञात्वा स मुनिसत्तमः
अर्चित्वा भोजयामास मैत्रेयो मुनिसत्तमम्
भुक्त्वा तदन्नममृतं गुणवत्सार्वकामिकम्
प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः
तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत्
मैत्रैयः-
कारणं ब्रूहि धर्मात्मन्व्यस्मयिष्ठाः कुतश्च ते
तपस्विनो धृतिमतः प्रमोदस्समुपागतः
एतदिच्छामि ते विद्वन्नभिवाद्य प्रणम्य च
आत्मनश्च तपोभाग्यं सुखभाग्यं ममेह च
तपोभाग्यान्महाभाग सुखभाग्यात्तथैव च
पृथगाचरितं तात पृथगाच्चरितात्मनः
कल्पान्तरमहं मन्ये विशिष्टमपि यत्त्वया
व्यासः-
अतिच्छेदातिवादाभ्यां स्मयो यन्मामुपागतः
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत्
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं प्रति
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत्
इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम्
अल्पो हि तादृशो न्यासो भवत्युत महाफलः
तृषिताय तु यद्दत्तं हृदयेनानसूयता
तोषितास्त्रिदशा यत्ते दत्त्वैतद्दर्शनं मम
अजैषीर्महतो लोकान्महायज्ञैरिव प्रभो
अतो दानपवित्रेण प्रीतोऽस्मि तपसैव हि
दूरात्पुण्यवतो गन्धः पुण्यस्यैव च दर्शनात्
पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः
दानकर्मार्जितस्तात यथैवाप्यनुलेपनात्
शुभं सर्वपवित्रेभ्यो दानमेव परं द्विज
यानीमान्युत्तमानीति वेदोक्तानि प्रशंसति
तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः
ते वै प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः
यथा वेदास्स्वधीताश्च यथा चेन्द्रियसंयमः
सर्वत्यागो यता चेह तथा दानमनुत्तमम्
त्वं हि तात सुखादेव शुभमेष्यसि शोभनम्
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः
तन्नः प्रत्यक्षमेवेदमुपलक्ष्यमसंशयम्
श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्ततस्सुखम्
सुखादेव परं दुःखं दुःखादन्यत्परं सुखम्
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः
विविधानीह वृत्तानि नरस्याहुर्मनीषिणः
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम्
न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम्
यथा स्वकर्म निर्वृत्तं न पुण्यं न च पापकम्
नित्यं चाकृपणो भुङ्क्ते स्वजनैर्देहि याचतः
भाग्यक्षयेण क्षीयन्ते नोपभोगेन सञ्चयाः
रमस्वैधस्व मोदस्व देहि दाने रमस्व च
न त्वामतिभविष्यन्ति वैद्या न च तपस्विनः
भीष्मः-
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूर्वकः
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः
मैत्रैयः-
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत्
अनुज्ञातस्तु भवता किञ्चिद्ब्रूयामहं विभो
व्यासः-
यद्यदिच्छसि मैत्रेय यावद्यावत्तथा यथा
ब्रूहि तत्त्वं महाप्राज्ञ शुश्रूषे वचनं तव
मैत्रेयः-
निर्दोषं निर्मलं चैव वचनं सत्यसंहितम्
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः
भवतो भावितात्मत्वाल्लाभोऽयं सुमहान्मम
भूयो बुद्ध्याऽनुपश्यामि सुसंवृद्धतपा इव
अपि मे दर्शनादेव भवतोऽभ्युदयो महान्
मन्ये तव प्रसादोऽयं बुद्धिकर्मस्वभावतः
तपश्श्रुतं च योनिश्चाप्येत ब्राह्मण्यकारणम्
त्रिभिर्गुणैस्समुदितस्स्नातो भवति वै द्विजः
तस्मिंस्तृप्ते च तृप्यन्ति पितरो दैवतानि च
न हि श्रुतवतः किञ्चिदधिकं ब्राह्मणादृते
असंस्कारात्क्षत्रवैश्यौ नश्येते ब्राह्मणादृते
शूद्रो नश्यत्यशुश्रूषुराश्रमाणां यथार्हतः
यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः
एवं दत्त्वा श्रुतवते फलं दाता समश्नुते
ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम्
अन्नं ह्यविद्वान्हन्त्येवमविद्वांसं च हन्ति तत्
तच्चान्यं हन्ति यच्चान्यत्स भुक्त्वा हन्यतेऽबुधः
प्रगृह्यान्नमदन्विद्वान्पुनर्जनयतीश्वरः
स दाता जायते तस्मात्सूक्ष्म एवं व्यतिक्रमः
ब्राह्मं ह्यनुपयोगी यो ददञ्च्चान्नमसंशयम्
यस्तारयति वै विद्वान्पितॄन्देवान्सदाऽमृतान्
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः
यश्चैव ब्राह्मणास्तात श्रुतवृत्तोपसंहिताः
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते
ये योनिशुद्धास्सततं तपस्यभिरता भृशम्
दानाध्ययनसम्पन्नास्ते नः पूज्यतमास्सदा
भीष्मः-
तैर्हि सद्भिः कृतः पन्था देवयानो न मुह्यते
ते हि स्वर्गस्य नेतारो यज्ञवाहास्सनातनाः
एवमुक्तस्स भगवान्मैत्रेयं प्रत्यभाषत
व्यासः-
दिष्ट्यैतत्त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी
लोको ह्ययं गुणानेव भूयिष्ठं सम्प्रशंसति
रूपमानो वयोमानो धनविद्यामदस्तथा
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः
तत्ते बहुगुणं दानं वर्तयिष्यामि तच्छृणु
धर्मशास्त्राणि च तथा काश्चित्प्रिवृत्तयः
तानि चैव पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ||
अहं दानं प्रशंसामि भवानपि तपःश्रुतेः
तपः पवित्रं वेदस्य तपस्स्वर्गस्य साधनम्
तपसा महदाप्नोति विद्यया चेति नश्श्रुतम्
तपसैवाप्यनुवृतो यच्चान्यदपि दुष्कृतम्
यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः
दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम्
सर्वं वै तपसाऽभ्येति दिष्टं हि बलवत्तरम्
सुरापस्स्वर्णहारी च भ्रूणहा गुरुतल्पगः
तपसा तरते सर्वमेनसश्च प्रमुच्यते
सर्वो वैद्यश्च चक्षुष्मानपि यादृक्च तादृशः
तपस्विस्तथैवाहुस्ताभ्यां कार्यं सतां मतम्
पूर्वं पूज्याश्श्रुतधनास्तथैव च तपस्विनः
दानप्रदास्स्तथा प्रेत्य प्राप्नुवन्तीह च श्रियम्
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्
अन्नदानैस्सुकृतिनः प्रतिपद्यन्ति लौकिकम्
पूजिताः पूजयन्त्येते मानिता मानयन्ति च
अदाता यत्र यत्रैति सर्वतस्सम्प्रणुद्यते
अकर्ता चैव कर्ता च लभते यस्य यादृशम्
यद्येवोर्ध्वं यद्यवाक्च लोकान्नयसि यास्यति
प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कर्हिचित्
मेधाव्यसि कुले जातश्श्रुतवाननृशंसवान्
कौमारदारो व्रतवान्मैत्रेय निरतो भव
दानेन तपसा चैव विष्णोरभ्यर्चनेन च
ब्राह्मणस्स महाभाग तरेत्संसारसागरात्
स्वकर्मशुद्धसत्त्वानां तपोभिर्निर्मलात्मनाम्
विद्यया गतमोहानां तारणाय हरिस्स्मृतः
तदर्चनपरो नित्यं तद्भक्तस्तं नमस्कुरु
तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः
प्रणवोपासनपरा परमार्थपरास्त्विह
एतैः पावय चात्मानं सर्वपापमपोह्य च
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम्
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति
भीष्मः-
तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम्
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः