युधिष्ठिरः-
अकामाश्च सकामाश्च ये हता स्मिन्महाहवे
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे
जानामि चाहं धर्मज्ञ प्राणत्यागं सुदुष्करम्
समृद्धे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे
संसारेऽस्मिन्समे जाताः प्राणिनोऽभिरताः कथम्
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः
भीष्मः-
समृद्धे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे
संसारेऽस्मिन्समे जाताः प्राणिनः पृथिवीपते
निरता येन भावेन तत्र मे शृणु कारणम्
सम्यक्त्वयमनुप्रश्नस्त्वद्युक्तश्च युधिष्ठिर
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर
ब्रह्मिभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि
गतिज्ञस्सर्वभूतानां रुतज्ञश्च शरीरिणाम्
सर्वज्ञस्त्वरितं दृष्ट्वा कीटं वचनमब्रवीत्
वैशम्पायनः-
कीट त्वं त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे
क्व च वासस्तदाचक्ष्व कुतस्ते भयमागतम्
कीटः-
शकटव्रजस्य महतो घोषं श्रुत्वा भयं महत्
आगतं वै महाबुद्धे स्वन एष हि दारुणः
श्रूयते तु स मा हन्यादित ह्यस्मादपक्रमे
श्वसतां च शृणोम्येनं गोवृषाणां प्रचोद्यताम्
वहतां सुमहाभारं सन्निकर्षे स्वनं प्रभो
नृणां च संवाहयतां श्रूयन्ते विविधास्स्वनाः
वोढुमस्मद्विधेनैष न शक्यः कीटयोनिना
तस्मादहमाक्रामे भयात्तस्मात्सुदारुणात्
दुःखं मृत्युर्हि तानां जीवितं च सुदुर्लभम्
अतो भीतः पलायामि गच्छेयं नापदं यथा
भीष्मः-
इत्युक्तस्स च तं प्राह कुतः कीट सुखं तव
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून्
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते
कीटः-
सर्वतो निरतो जीव इहापि च सुखं मम
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम्
इहापि विषयस्सर्वो यथादेहं प्रवर्तितः
मनुष्यास्तिर्यगाश्चैव पृथग्भोगा विशेषतः
अहमासं मनुष्येषु शूद्रो बहुधनः पुरा
अब्रह्मण्यो नृशंसश्च कदर्यो बुद्धिजीवनः
वाक्श्लक्ष्णो ह्यकृतप्रज्ञो द्वेष्टा विश्वस्य कर्मणः
मिथोगुप्तनिधिर्नित्यं परस्वहरणे रतः
भृत्यातिथिजनश्चापि गृहेऽपर्यशितो मया
मात्सर्यात्स्वादुकामेन नृशंसेन बुभुक्षता
देवार्थं पितृयज्ञार्थं न च श्राद्धं कृतं मया
न दत्तमन्नकामेषु दत्तमन्नं लुनामि च
गुप्तं शरणमाश्रित्य भयेषु शरणागतान्
त्यक्त्वाऽकस्मान्निशायां च न दत्तमभयं मया
धनं धान्यं प्रियान्दारान्दानं वासस्तथाऽद्भुतम्
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम्
श्रियः परं सुखं दृष्ट्वा यातनाया बुभूषकः
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया
मृत्वा तदनुतप्ये वै त्यक्त्वा प्रियमिवात्मजम्
शुभानामपि जानामि कृतानां कर्मणां फलम्
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया
सकृज्जातिगुणोपेतस्सङ्गत्या गृहमागतः
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः
कर्मणामेव चैवाहं सुखाशामिव लक्षये
तच्छ्रोतुमहमिच्छामि त्वत्तश्श्रेयस्तपोधन
व्यासः-
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे
तथैव कीट तत्कर्म येन त्वं न प्रमुह्यसे
अहं हि दर्शनादेव तारयामि तपोबलात्
तपोबलं हि बलवद्बलमन्यन्न विद्यते
जानामि पापैस्स्वकृतैर्गतं त्वां कीट कीटताम्
अवाप्स्यसि परं धर्मं मानुष्ये यदि मन्यसे
कर्मभूमिकृतं देवा भुञ्जते तिर्यगाश्च ते
धन्या अपि मनुष्येषु कामार्थाश्च यथा गुणाः
वाग्बुद्धिपाणिपादैश्च समुपेता विपश्चितः
किमायाति मनुष्यस्य मन्दस्यार्थस्य जीवतः
दैवे यः कुरुते पूजां विप्राग्निशशिसूर्ययोः
ब्रुवन्नपि कथां पुण्यां तत्र कीटत्वमेष्यसि
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे
क्रमात्तेऽहं विनेष्यामि ब्रह्मत्वं यदि चेच्छसि
भीष्मः-
स तथेति प्रतिश्रुत्य कीटस्समवतिष्ठत
तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम्
श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु
स कीटस्त्वेवमाख्यातमृषिणा सत्यवादिना
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः
कीटः-
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम्
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः
स्यन्दनेषु च काम्भोजा युक्ताःसमरवाजिनः
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम्
सबान्धवस्सहामात्यो ह्यश्नामि पिशितोदनम्
गृहेषु स्वनिवासेषु सुखेषु शयनेषु च
परार्ध्येषु महाभाग स्वपामि च सुपूजितः
सर्वेष्वपररात्रेषु सूतमागधवन्दिनः
स्तुवन्ति मां यथा देवा महेन्द्रमिव वन्दिनः
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः
यदहं कीटतां प्राप्य स्मृतिजातो जुगुप्सिताम्
ननु नाशोऽस्ति पापस्य यन्मयोपचितं पुरा
व्यासः-
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना
ममैतद्दर्शनं प्राप्तं तच्चैव सुकृतं पुरा
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चितं तथा
इतस्त्वं राजपुत्रत्वाद्ब्राह्मणत्वमवाप्स्यसि
गोब्राह्मणकृते प्राणान्हित्वाऽऽत्मीयान्रणाजिरे
भीष्मः-
राजपुत्रस्सुखं प्राप्य ईजे चैवाप्तदक्षिणैः
अथ चोद्दीप्यत स्वर्गे प्रभूतोऽप्यव्ययस्सुखी
तिर्यग्योन्याश्शूद्रतामभ्यपैति शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः
वृतश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गे पुण्यं ब्राह्मणस्साधुवृत्तः
क्षत्रधर्ममनुप्राप्तस्स्मरन्नेव स वीर्यवान्
त्यक्त्वा हि कीटतां राजंश्चचार विपुलं तपः
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा
व्यासः-
क्षात्रादेव व्रतात्कीट भूतानां परिपालनम्
क्षत्रादेव व्रतात्त्वं हि ततो विप्रत्वमेष्यसि
पाहि सर्वाः प्रजास्सम्यक् शुभाशुभविदात्मवान्
शुभैस्संविभजन्कामैरशुभानां च भावनैः
आत्मवान्भव सुप्रीतस्स्वधर्माचरणे रतः
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि
भीष्मः-
सोऽप्यरण्यादिह प्रेत्य पुनरेव युधिष्ठिर
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पालयन्
अचिरेणैव कालेन कीटः पार्थिवसत्तम
प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः
ततस्तु ब्राह्मणं द्रष्टुं पुनरेव महायशाः
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा
व्यासः-
इह ब्रवीमि ते श्रेयो मा व्यथिष्ठाः कथञ्चन
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु
उपपद्यस्व धर्मज्ञ यथाधर्मं यथाश्रुतम्
तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन
धर्मलाभात्परं न स्यात्तस्माद्धर्मं चरोत्तमम्
कीटः-
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृतेऽद्य वै
धर्ममूलं शुभं प्राप्य पापं नष्टमिहाद्य वै
भीष्मः-
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम्
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम्
ततस्सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः
अथ पापहरं कीटः पार्थ ब्रह्म सनातनम्
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनं यथा
कुरुक्षेत्रे युद्धहताः पुण्ये क्षत्रियपुङ्गवाः
सम्प्राप्तास्ते गतिं पुण्यां तन्मा त्वं शोच पुत्रक