युधिष्ठिरः-
इमे वै मानुषा लोके भृशं मांसेषु गृद्धिनः
विसृज्य भक्षयान्विविधान्यथा रक्षोगणास्तथा
अपूपान्विविधाकाराञ्शाकानि विविधानि च
पादपान्रससंयुक्तान्न चेच्छन्ति यथाऽऽमिषम्
न मन्ये रसतः किञ्चिन्मांसतोऽस्तीह किञ्चन
तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा
भक्षणे चैव ये दोषास्तत्पातस्य च मोक्षणम्
सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे
भीष्मः-
सर्वमेतन्महाबाहो यथा वदसि भारत
न मांसात्परमस्तीह रसतो विद्यते भुवि
क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये
अध्वना कर्शितानां च न मांसाद्विद्यते परम्
सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां दधाति च
नाशो भक्षणदोषस्य दानमेव सदा मतम्
क्षुधितानां द्विजानां च सर्वेषां चापि जीवितम्
दत्त्वा भवति पूतात्मा श्रद्धया लोभवर्जितः
शिक्षयन्ति न याचन्ते दर्शयन्ति स्वमूर्तिभिः
अवस्थेयमदानस्य मा भूदेवं भवानिति
दानाद्यस्सुशुचिर्मांसं पुनर्नैव च भक्षयेत्
न भक्ष्योऽभ्यधिकः कश्चिन्मांसादस्ति परन्तप
विवर्जने तु बहवो गुणाः कौरवनन्दन
ये भवन्ति मनुष्याणां तान्मे निगदतश्शृणु
स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति
नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नृप
न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते
तस्माद्दयां नरः कुर्याद्यथाऽऽत्मनि तथा परे
शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः
खादनेन महान्दोषो मलेन स हि कल्प्यते
अहिंसालक्षणो धर्म इति वेदविदो विदुः
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मविन्नरः
पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते
विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यते
यज्ञार्थे पशवस्सृष्टा इत्यपि श्रूयते श्रुतिः
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते
क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु
स्ववीर्येणोपार्जितं मांसं यथा भुञ्जन्न दुष्यते
आरण्यास्सर्वदैवत्याः प्रोक्षितास्सर्वशो मृगाः
अगस्त्येन पुरा राजन्मृगयाऽनेन पूज्यते
रक्षणार्थाय भूतानां हिंस्रान्हन्यान्मृगान्पुनः
नात्मानमपरित्यज्य मृगया नाम विद्यते
समतामुपसङ्गम्य रूपं हन्यान्न वा नृप
अतो राजर्षयस्सर्वे मृगयां यान्ति भारत
न हि लिप्यन्ति पापेन न चैतत्पातकं भुवि
न ह्यतस्सदृशं किञ्चिदिह लोके परत्र च
यत्सर्वेष्विह भूतेषु दया कौरवन्दन
न भयं विद्यते जातु नरस्येह दयावतः
दयावतामिमे लोकाः परे चापि तपस्विनाम्
अभयं सर्वभूतेभ्यो यो ददाति दयापरः
अभयं तस्य भूतानि ददतीत्यनुशुश्रुम
क्षतं च स्खलितं चैव पतितं क्लिन्नमाहतम्
सर्वभूतानि रक्षन्ति समेषु विषमेषु च
नैतं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः
मुञ्चन्ति भयकालेषु मोक्षयन्ति च ये परान्
प्राणदानात्परं दानं न भूतं न भविष्यति
न ह्यात्मनः प्रियतरं किञ्चिदस्तीह निश्श्रुतम्
अनिष्टं सर्वभूतानां मरणं नाम भारत
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः
व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च
गर्भवासेऽपि पच्यन्ते क्षाराम्लकटुकै रसैः
मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः
जाताश्चाप्यवशास्तत्र च्छिद्यमानाः पुनः पुनः
हन्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः
कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः
आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनः पुनः
नात्मनोऽस्ति प्रियतरः पृथिवीमनुसृत्य ह
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत्
सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत्
आश्वासं विपुलं स्थानं प्राप्नुयान्नात्र संशयः
ये भक्षयन्ति मांसानि भूतानां जीविनैषिणाम्
भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः
मां भक्षयति यस्मात्स भक्षयिष्ये तमप्यहम्
एतन्मांसस्य मांसत्वं ततो बुद्ध्यस्व भारत
घातको हन्यते नित्यं तथा बध्येत बन्धकः
आक्रुष्टः क्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुयात्
येन तेन शरीरेण यद्यत्कर्म करोति यः
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते
अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः
अहिंसा परमं दानमहिंसा परमं तपः
अहिंसा परमो यज्ञस्तथाऽहिंसा परं बलम्
अहिंसा परमं शौचमहिंसा परमं सुखम्
अहिंसा परमं मित्रमहिंसा परमा मतिः
अहिंसा परमं मन्त्रमहिंसा परमा श्रुतिः
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लवः
सर्वदानफलं वाऽपि नैव तुल्यमहिंसया
अहिंसास्यात्तपोऽक्षय्यमहिंस्रो जयते सदा
अहिंस्रस्सर्वभूतानां यथा माता यथा पिता
एतत्फलमहिंसायां भूयश्च कुरुपुङ्गव
न शक्या ये गुणा वक्तुमिह वर्षशतैरपि