युधिष्ठिरः-
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया
श्राद्धेषु च भवानाह पितॄणां मांसमीप्सितम्
मांसैर्बहुविधैः प्रोक्तस्तथा श्राद्धविधिः पुरा
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते
जातो नस्संशयो धर्मे मांसस्य परिवर्जने
दोषो भक्षयतः कस्य त्कश्चाभक्षयतो गुणः
हत्वा भक्षयतो वाऽपि परेणोपि हृतस्य वा
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयाऽनघ
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम्
कथमायुरवाप्नोति कथं भवति सत्त्ववान्
कथमव्यङ्गतामेति लक्षण्यो जायते कथम्
भीष्मः-
मांसस्याभक्षणाद्राजन्यो धर्मः कुरुपुङ्गव
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः
रूपमव्यङ्गतामायुर्बुद्धिं बुद्धिं सत्त्वं बलं स्मृतिम्
प्राप्तुकामैर्नरैर्हिंसा वर्जनीया कृतात्मभिः
ऋषीणां तत्र संवादो बहुशः कुरुपुङ्गव
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर
यो यजेताश्वमेधेन मासि मासि यतव्रतः
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः
मांसस्याभक्षणं राजन्प्रशंसन्ति मनीषिणः
न भक्षयति यो मांसं न च हन्यान्न घातयेत्
स मित्रं सर्वभूतानां मनुस्स्वायम्भुवोऽब्रवीत्
अधृष्यस्सर्वभूतानां विश्वास्यस्सर्वजन्तुषु
साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन्
स्वमांसं परमांसेन यो वर्धयितुमिच्छति
अविश्वास्योऽवसीदेत्स इति होवाच नारदः
ददाति यजते चापि तपस्वी च भवत्यपि
मधुमांसनिवर्तीति प्राह चैवं बृहस्पतिः
मासि मास्यश्वमेधेन यो यजेत शतं समाः
न खादयति यो मांसं सममेतन्मतं मम
सदा यजति सत्रेण सदा दानं प्रयच्छति
सदा तपस्वी भवति मांसस्य परिवर्जनात्
सर्वे वेदा न तत्कुर्युस्सर्वे यज्ञाश्च भारत
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते
भक्षयित्वा निमित्तेऽपि दुष्करं कुरुते तपः
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम्
व्यक्तं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम्
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम्
दाता भवति लोके स प्राणानां नात्र संशयः
एवं हि परमं धर्मं प्रशंसन्ति मनीषिणः
प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि वै तथा
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः
विकीर्णकर्णकेनापि तृणमस्पन्दने भयम्
किं पुनर्हन्यमानानां तरसा जीवितात्मनाम्
अरोगाणामपापानां पापैर्मांसोपजीविभिः
मृत्युतो भयमस्तीति शङ्कायां दुःखमुत्तरम्
धर्मस्यायतनं तस्मान्मांसस्य परिवर्जनम्
अहिंसा परमो धर्म अहिंसा परमं तपः
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते
न हि मांसं तृणात्काष्ठादुपलाद्वाऽपि जायते
हत्वा जन्तुं तनोर्मांसं ततो दोषाऽस्ति भक्षणे
स्वाहास्वाधामृतभुजो देवास्सत्यार्जवप्रियाः
राक्षसेन्द्रभयान्मुक्तास्सर्वभूतपरायणाः
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च
उद्यतेषु च शस्त्रेषु मृगव्यालहतेषु च
रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च
अमांसभक्षणाद्राजन्न भयं तेषु विद्यते
शरण्यस्सर्वभूतानां विश्वास्यस्सर्वजन्तुषु
अनुद्वेगकरो लोके न चाप्युद्विजते सदा
यदि चेत्खादको न स्यान्न तदा घातको भवेत्
खादकः खादनार्थाय तं घातयति वै नरः
अभक्ष्यमेतदिति वै इति हिंसा निवर्तते
खादतः क्रमतो हिंसा मृगादीनां प्रवर्तते
यस्माद्धिंसति चैवायुर्हिंसदीनां महाद्युते
तस्मात्तु वर्जयेन्मांसं य इच्छेद्भूतिमात्मनः
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः
उद्वेजकास्तु भूतानां यथा व्याला मृगास्तथा
धनेन सान्तको हन्ति खादकश्चापि भोगतः
सूचको वधबन्धाच्चेत्येष हि त्रिविधो वधः
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च
संसर्गाद्वाऽथ पापानामधर्मो रुचितो नृणाम्
स्वमांसं परमांसेन यो वर्धयितुमिच्छति
उद्विग्नराष्ट्रे वसति यत्र यत्राभिजायते
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे
योऽपि खादति मांसानि प्राणिनां जीवितार्थिनाम्
सदा भवति वै पापः प्राणिहन्ता तथैव सः
अखादनानुमोदी च नैव दुष्येत मानवः
योऽनुमोदति हन्यन्तं सोऽपि दोषेण लिप्यते
अधृष्यस्सर्वभूतानामायुष्मान्निरुजस्सुखी
भवेत्त्वभक्षयन्मांसं दयावान्प्राणिनामिह
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः
मांसस्याभक्षणे धर्मो विशिष्टस्स्यादिति श्रुतम्
अप्रोक्षितं वृथामासं विधिहीनं न भक्षयेत्
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाङ्क्षया
अल्पदोषमिति ज्ञेयं विपरीते तु लिप्यते
खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः
महादोषकरस्तत्र घातको न तु खादकः
इज्यायज्ञश्रुतिवृतैर्यो मार्गैरबुधोऽधमः
हन्यान्मांसस्य गृध्नी यस्स वै नरकभाजनः
भक्षयित्वाऽपि यो मांसं पश्चादपि निवर्तते
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी
संस्कर्ता चोपभोक्ता च घातकास्सर्व एव ते
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम्
पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम्
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते
यथोक्तं राजशार्दूल न तु तन्मोक्षकारणम्
हविष्यैस्संस्कृतैर्मन्त्रैः प्रोक्षिताभ्युक्षितश्शुचिः
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च
प्रवृत्तिधर्मिणा भक्ष्यं नान्यथा मनुरब्रवीत्
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम्
स वर्जयेत मांसानि प्राणिनामिह सर्वशः
विधिनाऽपि नरः पूर्वं मांसं राजन्न भक्षयेत्
श्रूयते हि पुरा कल्पे नृणां व्रीहिमयः पशुः
येनायजन्त विद्वांसः पुण्यलोकपरायणाः
ऋषिभिस्संशयं पृष्टो वसुश्चेदिपतिः पुरा
अभक्ष्यमपि मांसस्य प्राह भक्ष्यमिति प्रभो
आकाशान्मोदिनीं प्राप्तस्ततस्स पृथिवीपतिः
यस्तदेव पुनश्चोक्त्वा विवेश धरणीतलम्
प्रजानां हितकामेन त्वगस्त्येन महात्मना
आरण्यास्सर्वदैवत्याः प्रोक्षितास्तापसैर्मृगाः
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः
इदं तु शृणु राजेन्द्र मांसस्याभक्षणे गुणाः
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम्
यश्चैव वर्जयेन्मांसं सममेतन्मतं मम
कौमुद्यास्तु विशेषेण शुक्लपक्षे नराधिप
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते
मांसं तु कौमुदे पक्षे वर्जितं सर्वराजभिः
सर्वभूतात्मभूतैस्थैर्विज्ञातार्थपरावरैः
नाभागेनाम्बरीषेण गयेन च महात्मना
आयुषा चानरण्येन दिलीपरघुसूनुभिः
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना
नृगेण विष्वगश्वेन तथैव शशबिन्दुना
युवनाश्वेन च तथा शिबिनौशीनरेण च
श्वेतच्छत्रेण राजेन्द्र सोमकेनाष्टकेन च
मनुना रन्तिदेवेन वसुना सृञ्जयेन च
दुष्यन्तेन करूशेन रामालर्कनलैस्तथा
विचकाश्वेन निमिना जनकेन च धीमता
सिलेन पृथुना चैंव वीरसेनेन चैव ह
इक्ष्वाकुणा युवाश्वेन श्वेतेन सगरेण च
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम्
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन्
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाश्श्रियाऽन्विताः
उपास्यमाना गन्धर्वैस्स्त्रीसहस्रैस्समवृताः
तदेतमुत्तमं धर्ममहिंसाधर्मलक्षणम्
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः
जन्मप्रभृति ये नित्यं मद्यैश्चैव विवर्जिताः
विशिष्टज्ञातिप्राधान्यं लभन्ते नात्र संशयः
अहिंस्रो दानशीलश्च मधुमांसविवर्जितः
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात्
मुच्येत्तथाऽऽतुरो रोगाद्दुःखान्मुच्येत दुःखितः
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः
ऋद्धिमान्वै कुरुश्रेष्ठ्यमाप्नुयाच्च महद्यशः
एतत्ते सर्वमाख्यातं मांसस्य परिवर्जने
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम्