युधिष्ठिरः-
ततो युधिष्ठिरो राजा शरतल्पे पितामहम्
पुनरेव महाराज पप्रच्छ वदतां वरः
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति पितामह
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात्
भीष्मः-
कर्मणा न नरः कुर्वन्हिंसां पार्थिवसत्तम
वाचा च मनसा चैव ततो दुःखात्प्रमुच्यते
चतुर्विधैषा निर्दिष्टाऽप्यहिंसा ब्रह्मवादिभिः
एकैकतोऽपि विभ्रष्टा न भवत्यरिसूदन
यथा पशुश्चतुष्पादस्स त्रिभिः पादैर्न तिष्ठति
तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः
यथा नागपदेऽन्यानि पदानि पदगामिनाम्
सर्वाण्येव विधीयन्ते पदजातानि कौञ्जरे
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा
कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च
पूर्वं तु मनसा त्यक्त्वा त्यजेद्वाचाऽथ कर्मणा
हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा
काये मनसि वाक्येऽपि दोषा ह्येते प्रकीर्तिताः
न भक्षयन्त्यतो मांसं तपोयुक्ता मनस्विनः
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे
पुत्रमांसोपमं जातं खादते यो विचेतनः
पितृमातृसमायोगे पुत्रत्वं जायते यथा
रसश्च हृदि जिह्वाया ज्ञानं प्रज्ञायते यथा
तथा शास्त्रेषु नियतं रागो ह्यास्वादतां गतः
संस्कृतासंस्कृतं पक्वं लवणालवणं तथा
प्रजायते यथा भावो यथा पीतं निरुच्यते
भेरीं शङ्खमृदङ्गद्यांस्तन्त्रीशब्दांश्च पुष्कलान्
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः
परेषां धनधान्यानां हिंसकास्स्तावकास्तथा
प्रशंसकाश्च मांसस्य नित्यं स्वर्गे बहिष्कृताः
अचिन्तितमनिर्दिष्टमसङ्कल्पितमेव च
रसगृद्ध्याऽभिभूता ये प्रशंसन्ति फलार्थिनः
प्रशंसा ह्येव मांसस्य दोषकल्पफलान्विता
भस्म विष्ठा कृमिर्वाऽपि निष्ठा यस्येदृशी ध्रुवा
स कायः परपीडाभिः कथं धार्यो विपश्चिता
जीवितं हि परित्यक्त्वा बहवस्साधवो जनाः
स्वमांसैः परमांसानि परिपाल्य दिवं गताः
एवमेषा महाराज चतुर्भिः कारणैः स्मृता
अहिंसा तव निर्दिष्टा सर्वधर्मानुसंहिता