युधिष्ठिरः-
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति
बृहस्पतिः-
सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि नित्यशः
शृणु सङ्कीर्त्यमानानि षडेव भरतर्षभ
हन्त निश्श्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम्
अहिंसापाश्रयं धर्मं दान्तो विद्वान्समाचरेत्
त्रिदण्डं सर्वभूतेषु निधाय पुरुषश्शुचिः
कामक्रोधौ च संयम्य ततस्सिद्धिमवाप्नुते
अहिंसकानि भूतानि दण्डेन विनिहन्ति यः
आत्मनस्सुखमन्विच्छन्स प्रेत्य न सुखी भवेत्
आत्मोपमस्तु भूतेषु यो वै भवति पूरुषः
त्यक्तदण्डो जितक्रोधस्स प्रेत्य सुखमेधते
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः
एष साङ्ग्राहिको धर्मः कामादन्यः प्रवर्तते
प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति
यथा परः प्रक्रमते परेषु तथा परे प्रक्रमन्ते परस्मिन्
निषेवते स्वसमो जीवलोके यथा धर्मो नैपुणेनोपदिष्टः
वैशम्पायनः-
इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम्
दिवामचक्रमे धीमान्पश्यतामेव नस्तदा