युधिष्ठिरः-
अधर्मस्य गतिर्ब्रह्मन्कथिता वै ममानघ
धर्मस्य च गतिं श्रोतुमिच्छामि वदतां वर
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम्
बृहस्पतिरुवाच
कृत्वा पापानि कर्माणि अधर्मवशमागतः
मनसा विपरीतेन निरयं प्रतिपद्यते
मोहादधर्मं यः कृत्वा पुनस्समनुतप्यते
मनस्समाधियुक्तो हि न स सेवेत दुष्कृतम्
यथा यथा नरस्सम्यगधर्ममनुभाषते
समाहितेन मनसा विमुच्येत तथातथा
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात्
अथ दत्त्वा प्रदानानि विविधानि समाहितः
मनस्समाधिसंयुक्तस्सुगतिं प्रतिपद्यते
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम्
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते
नरः कृत्वाऽप्यकार्याणि तथा धर्मेण युज्यते
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रकाशते
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः
अन्नस्य तु प्रदानेन स्वर्गमाप्नोति मानवः
तन्न्यायलब्धं दातव्यं द्विजेभ्योऽन्नमनुत्तमम्
स्वाध्यायमुदितेभ्योऽपि प्रहृष्टेनान्तरात्मना
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत्
ब्राह्मणानां सहस्राणि दश भोज्य युधिष्ठर
नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतस्सदा
भैक्ष्येणापि समाहृत्य दद्यादन्नं द्विजेषु वै
सुवर्णदानात्पापानि नश्यन्ति सुबहून्यपि
दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते
पारायणैः पुराणानां मुच्यते पातकैर्द्विजः
गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात्
वेदार्थं ज्ञापयित्वा तु शुद्धान्विप्रान्यथार्थतः
सर्वत्यागादिभिश्चैव मुच्यते पातकैर्द्विजः
सर्वातिथ्यं परं ह्येषां तस्माद्दानं परं स्मृतम्
अहिंसन्ब्राह्मणान्नित्यं न्यायेन परिपाल्य च
क्षत्रियस्तरसा प्राप्तमन्नं दद्याच्छुभार्जितम्
द्विजेभ्यो वेदवृद्धेभ्यः प्रयच्छस्तु समाहितः
तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम्
वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते
अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम्
अन्नं दद्याद्द्विजातिभ्यश्शूद्रः पापात्प्रमुच्यते
औरसेन बलेनान्नमर्जयित्वाऽविहिंसकः
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते
न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते
अन्नमोजस्करं लोके दत्त्वोजस्वी भवेन्नरः
शूद्रान्नं नैव भोक्तव्यं विप्रैर्धर्मपरायणैः
आपद्येव स्वदासानां भोक्तव्यं स्वयमुद्यतम्
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम्
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः
अन्नस्य हि प्रदानेन नरो दुर्गान्न सेवते
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम्
नित्यं ब्राह्मणपूर्वन्तु भोक्तव्यं शक्तितो द्विजैः
अवन्ध्यं दिवसं कुर्यादन्नपानीयदानतः
भोजयित्वा दशशतमिह वेदविदां नरः
न्यायधर्मार्थविदुपामितिहासविदामपि
न याति नरकं घोरं दरिद्रश्च जायते
सर्वकामसमायुक्तः प्रेत्य च प्राप्नुते फलम्
एवं सुखसमायुक्तो रमते विगतज्वरः
रूपवान्कीर्तिमांश्चैव प्रजावान्ज्ञानवान्भवेत्
एतत्ते सर्वमाख्यातमन्नदानफलं महत्
मूलमेताद्धि धर्माणां प्रदानं चैव भारत