युधिष्ठिरः-
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम्
केन वृत्तेन राजेन्द्र वर्तमाना नरा भुवि
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः
प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति
भीष्मः-
दूरादायाति भगवान्बृहस्पतिरुदारधीः
पृच्छेस्तं सुमहाभागमेतद्गुह्यं सनातनम्
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै
वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित्
वैशम्पायनः-
तयोस्संवदतोरेवं पार्थगाङ्गेययोस्तदा
आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः
पूजामनुपमां चक्रे सर्वे ते च सभासदः
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम्
उपगम्य यथान्यायं प्रश्नं पप्रच्छ धर्मवित्
युधिष्ठिरः-
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद
मर्त्यस्य कस्सहायो वै पिता माता सुतो गुरुः
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः
गच्छन्त्यमुं च लोकं हि क एताननुगच्छति
बृहस्पतिः-
एकः प्रसूते राजन्द्र जन्तुरेको विनश्यति
एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम्
न सहायः पिता माता तथा भ्राता सुतो गुरुः
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः
मुहूर्तमुपयुञ्ज्याथ ततो यान्ति पराङ्मुखाः
तैस्तच्छरीरमुत्सृष्टं धर्मि एकोऽनुगच्छति
तस्माद्धर्मस्सहायार्थे सेवितव्यस्सदा नृपः
प्राणी धर्मसमायुक्तो गच्छेते स्वर्गतिं पराम्
तथैवाधर्मसंयुक्तो नरकायोपपद्यते
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः
धर्म एको मनुष्याणां सहायः पारलौकिकः
लोभान्मोहादनुक्रोशाद्भयाद्वाऽप्यबहुश्रुतः
नरः करोत्यकार्याणि परार्थे लोभमोहितः
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम्
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम्
युधिष्ठिरः
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम्
शरीरनिश्चयं ज्ञातुं बुद्धिश्च मम जायते
मृतं शरीरहितं सूक्ष्ममव्यक्ततां गतम्
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति
बृहस्पतिः-
पृथिवी वायुराकाशमापो ज्योतिरनन्तरम्
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा
प्राणिनामिह सर्वेषां साक्षिभूता दिवानिशम्
एतैश्च सह धर्मोऽपि तं जीवमनुगच्छति
त्वगस्थि मांसं शुक्लं च शोणितं च महामते
शरीरं वर्जितं त्वेतैर्जीवितेन विवर्जितम्
अतो धर्मसमायुक्तस्स जीवस्सुखमेधते
इह लोके परे चैव किं भूयः कथयामि ते
युधिष्ठिरः-
प्रदर्शितं च भवता यथा धर्मोऽनुगच्छति
एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते
बृहस्पतिः-
अन्नमश्नन्ति ते देवाश्शरीरस्था नरेश्वर
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा
ततस्तृप्तेषु राजेन्द्र तेषु पञ्चस्तु वै नृप
मनष्षष्ठेषु राजेन्द्र रेतस्सम्पद्यते महत्
ततो गर्भस्सम्भवति स्त्रीपुंसोः पार्थो सङ्गमे
एतत्ते सर्वमाख्यातं किं भूयः कथयामि ते
युधिष्ठिरः-
आख्यातमेतद्भवता गर्भस्सञ्जायते यथा
यथा जातस्तु पुरुषः प्रतिपद्येत्तदुच्यताम्
बृहस्पतिः-
आसन्नमात्रस्सततं तैर्भूतैरभिभूयते
विप्रयुक्तस्तु तैर्भूतैः पुनर्याति यपरां गतिम्
स च भूतसमायुक्तः प्राप्नुते जीव एव ह
एतस्य कर्म पश्यन्ति शुभं वा यदि वाऽशुभम्
देवताः पञ्च भूतस्ताः किं भूयश्श्रोतुमिच्छसि
युधिष्ठिरः-
त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः
जीवस्सह वसन्कृत्स्नं सुखदुःखसहः प्रभो
बृहस्पतिः-
भोगवश्यं कर्मवश्यं यातनावश्यमित्यपि
एतत्त्रयाणामासाद्य कर्मतस्सोऽश्नुते फलम्
पुण्यपापसमायुक्तश्शीघ्रं रेतस्त्वमागतः
स्त्रीणां पुष्पं समासाद्य सूतिकाले लभेत तत्
यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम्
दुःखं संसारचक्रं तु नरः पापो लभेद्बहु
इह लोके परे चैव जन्मप्रभृति भारत
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते
ततस्स पुरुषो भूत्वा सेवते नियतं सुखम्
अथान्तरा तु धर्मस्याप्यधर्ममुपसेवते
सुखस्यानन्तरं दुःखं स जीवो ह्यधिगच्छति
अधर्मेण समायुक्तो यमस्य विषयं गतः
महद्दुःखसमवाप्नोति तिर्यग्योनौ प्रजायते
कर्मणा येन येनेह यस्यां योनौ प्रजायते
जीवो मोहसमायुक्तस्तन्मे निगदतश्शृणु
यदेतदुच्यते नित्यमकृत्वा पुरुषस्सदा
क्रिमियोनिमवाप्नोति बहुशः पतितस्तथा
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः
पतितान्परिगृह्याथ खरयोनौ प्रजायते
खरो जीवति वर्षाणि दश पञ्च च भारत
खरो मृतो बलीवर्दस्सप्त वर्षाणि जीवति
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः
ब्रह्मरक्षस्तु मासांस्त्रींस्ततो जायेत ब्राह्मणः
पतितं याजयित्वा तु कृमियोनौ प्रजायते
तत्र जीवति वर्षाणि दश पञ्च च भारत
कृमिभावात्प्रमुक्तस्तु ततो जायेत गर्दभः
गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः
श्वा वर्षमेकं भवति ततो जायेत मानवः
उपाध्यायस्त्रियां पापं शिष्यः कुर्यादबुद्धिमान्
स जीव इति संसारांस्त्रीनाप्नोति न संशयः
वृको भवति राजेन्द्र ततः क्रव्यात्ततः खरः
ततः प्रेतः परिक्लिष्टः पश्चाज्जायेत ब्राह्मणः
मनसाऽपि गुरोर्भार्यां यश्शिष्यो याति पापकृत्
सोऽधमान्याति संसारानधर्मेणेह चेतसा
क्रिमियोनिमनुप्राप्तो बर्षमेकं स जीवति
स श्वयोनौ च स सम्भूतस्त्रीणि वर्षाणि जीवति
ततस्तु निधनं प्राप्तः कृमियोनौ च जायते
यदि पुत्रसमं शिष्यं गुरुस्सन्ताडयेद्बहु
अकारणात्कामकरस्सोपि हिंस्रः प्रजायते
पितरं मातरं वाऽपि यस्तु पुत्रोऽवमन्यते
सोऽपि राजन्मृतो जन्तुः पूर्वं जायेत गर्दभः
खरो जीवति मासांस्तु दश श्वा च चतुर्दश
बिडालस्सप्त मासांस्तु ततो जायेत मानवः
मातापितरावाक्रुश्य शारिका सम्प्रजायते
ताडयित्वा तु तावेव जायते कच्छपो नृप
कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः
व्यालो भूत्वा च षण्मासांस्ततो जायति मानुषः
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते
सोऽपि पापसमाविष्टो मृतो भवति वानरः
वानरो दश वर्षाणि पञ्च वर्षाणि सूकरः
श्वा सोऽपि भूत्वा तु षण्मासांस्ततो जायति मानवः
असूयकः कुत्सितश्च चण्डालो दुःखमश्नुते
विश्वासहन्ता तु नरो मीनो जायति दुर्मतिः
भूत्वा मीनोऽष्टमासांस्तु मृगो जायति भारत
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः
गौस्स सञ्जायते जन्तुस्ततो जायति मानुषः
धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान्
कलायानथ मुद्गांश्च गोधूमानतसीस्तथा
यस्तु धान्यापहर्ता च मोहाज्जन्तुरचेतनः
स जायते महाराज मूषिको निरपत्रपः
ततः प्रेत्य महाराज पुनर्जायति सूकरः
सूकरो जातमात्रस्तु रोगेण म्रियते पुनः
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव
श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानवः
परदाराभिमर्शं तु कृत्वा जायति वै वृकः
श्वा शृगालस्ततो गृध्रो वलकङ्कादिकस्तथा
भ्रातुर्जायां तु दुर्बुद्धिर्यो धर्षयति मोहितः
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च
प्रधर्षयित्वा कामाद्यस्ततो जायति सूकरः
सूकरः पञ्च वर्षाणि दश वर्षाणि श्वाऽपि च
बिडालः पञ्च वर्षाणि दश वर्षाणि कुक्कुटः
पिपीलिका तु मासांस्त्रीन्वानरो मासमेव तु
एतानासाद्य संसारान्कृमियोनौ प्रजायते
तत्र जीवति मासांस्तु क्रिमियोनौ त्रयोदश
तत्र धर्मक्षयं कृत्वा ततो जायति मानुषः
उपस्थिते विवाहे तु दाने यज्ञेऽपि वा विभो
मोहाच्चरति यो विघ्नं स मृतो जायते कृमिः
क्रिमिर्जीवति वर्षाणि त्रयोदश युधिष्ठिर
अधर्मिस्य क्षयं कृत्वा ततो जायति मानवः
पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति
सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर
अधर्मक्षयसंयुक्तस्ततो जायति मानवः
देवलयधिपत्यं हि कुर्यात्तद्द्रव्यभक्षकः
श्वा भूत्वा सप्त जन्मानि ततो जायति मानवः
द्जग्रामाधिपत्यं हि कृत्वा ब्रह्मस्वभक्षकः
द्विजग्रामधिपत्यं हि कृत्वा ब्रह्मस्वभक्षकः
श्वानयोनिशतं प्राप्य चण्डालः पुल्कसस्ततः
श्वानयोनिशितं प्राप्य चण्डालः पुल्कसस्ततः
देवकार्यं परावृत्य पितृकार्यं तथाऽपि च
अनिर्वृत्य समश्नीत ततो जयति वायसः
वायसो दश वर्षाणि ततो जायति कुक्कुटः
जायते वालुकस्तस्मान्मासादेकात्तु मानुषः
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ च जायते
क्रौञ्चो जीवति मासांस्तु दशद्वादश सप्त च
ततो निधनमापन्नो मानुषत्वमुपाश्नुते
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते
तत्रापत्यं समुत्पाद्य ततो जायति मूषिकः
कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः
यमस्य पुरुषैः क्रुद्धैर्वधं प्राप्नोति दारुणम्
कण्टकं मुद्गरं शूलमग्निकुम्भं च दारुणम्
असिपत्रवनं घोरं वालुकं कूटशाल्मलीम्
एताश्चान्याश्च बह्वीश्च यमस्य विषयं गतः
यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत
संसारचक्रमासाद्य कृमियोनौ प्रजायते
कृमिर्भवति वर्षाणि दश पञ्च च दुर्मतिः
ततो गर्भं समासाद्य तत्र वै म्रियते शिशुः
ततो गर्भशतैर्जन्तुर्बहुभिस्सम्प्रजायते
संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते
मृतो दुःखमनुप्राप्य बहुवर्षगणानिह
स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः
अर्थार्थी यदि वाऽमर्षात्स मृतो जायते खरः
खरो जीवति वर्षे द्वे ततश्शस्त्रेण वध्यते
स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते
मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः
हतो मृगस्ततो मीनस्ततो जालेन पीड्यते
मासे चतुर्थे सम्प्राप्ते श्वापदस्सम्प्रजायते
श्वापदो दश वर्षाणि द्वे च वर्षाणि पञ्च च
ततस्तु निधनं प्राप्य कालपर्यायचोदितः
अधर्मस्य क्षयं प्राप्तस्ततो जायति मानुषः
स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः
बहून्क्लेशान्समासाद्य नरकानेकविंशतिम्
ततः पश्चान्महाराज कृमियोनौ प्रजायते
चतुर्विंशतिवर्षाणि भूत्वा जायति मानुषः
भोजनं चोरयित्वा तु मक्षिका जायते नरः
मक्षिकासङ्घवशगो बहून्मासान्भवत्युत
ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते
भक्ष्यं हृत्वा तु पुरुषो जाले पाशः प्रजायते
तैलं चोरयते यस्तु तैलपायी स जायते
तथा पिण्याकसम्मिश्रमशनं चोरयेन्नरः
स जायते श्वानधनो दारुणो मूषिको नरः
चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते
फलानि वानरो हृत्वाऽपूपं हृत्वा पिपीलिका
पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते
हृत्वा पिष्टमपूपं तु कुम्भोलूकः प्रजायते
अयो हृत्वा तु दयबुद्धिर्वायसो जायते नरः
कांस्यं हृत्वा तु हारीतः कपोतो रजतं तथा
हृत्वा तु काञ्चनं भाणडं क्रिमियोनौ प्रजायते
सर्पः कार्पासकं हृत्वा क्षौमं हृत्वा शशो भवेत्
छागश्चाप्याविकं हृत्वा कूर्मश्चर्मापहारकः
वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः
हृत्वा रत्नानि वस्त्राणि जायते जीवजीवकः
वर्णकादीञ्शुभान्गन्धांश्चोरयित्वा तु मानवः
चञ्चरित्वामवाप्नोति राजँल्लोभपरायणः
विश्वासेन तु निक्षिप्तं यो निगृह्णति मानवः
स गतायुर्नरस्ताद्दङ्मत्स्ययोनौ प्रजायते
मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः
मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते
पापानि तु नराः कृत्वा तिर्यग्जायन्ति भारत
न चात्मनः प्रयाणान्ते धर्मं जानन्ति कञ्चन
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैस्सदा
नित्यं दुःखसमायुक्ता व्यधितास्ते भवन्त्युत
अपुमांसः प्रजायन्ते म्लेच्छाश्चापि न संशयः
नराः पापसमाचारा लोभमोहसमन्विताः
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत
स्त्रियोऽप्येतेन सङ्कल्पं कृत्वा पापमवाप्नुयुः
एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति च
प्रमत्तहरणे दोषास्सर्व एव प्रकीर्तिताः
एतद्धै लेशमात्रेण कथितं ते मयाऽनघ
अपरस्मिन्कथायोगे भूयश्श्रोष्यसि भारत
एतन्मया महाराज ब्रह्मणो वदतः पुरा
सुरर्षीणां श्रुतं मध्ये पृष्टेन च यथातथम्
मयाऽपि तव कार्त्स्न्येन यथावदनुवर्णितम्
एतच्छ्रुत्वा महाराज धर्मे कुरु मनस्सदा