युधिष्ठिरः-
यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह
यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि
भीष्मः-
सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम्
यत्र तीर्थं च शौचं च तन्मे शृणु समाहितः
अगाधे विमले शुद्धे सत्यतीर्थे धृतिह्रदे
स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम्
तीर्थं शौचं तपो ज्ञानं मार्दवं सत्यमार्जवम्
अहिंसा सर्वभागश्च आनृशंस्यं दमश्शमः
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः
योगिनस्तीर्थभूतास्ते तीर्थं परममुच्यते
नारायणेऽथ रुद्रे वा भक्तिस्तीर्थं परं मतम्
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षताम्
रजस्तमस्सत्त्वमथो येषां निर्धूतमात्मना
तीर्थमाचारशुद्धिश्च स्वमार्गपरिमार्गणम्
सर्वत्यागेष्वभिरतास्सर्वज्ञास्समदर्शिनः
शौचष्वेतेष्वभिरतास्ते तीर्थशुचयोऽपि च
नोदकक्लिन्नगात्रोऽथ स्नात इत्यभिधीयते
स स्नातो यो दमस्नातस्स बाह्याभ्यन्तरश्शुचिः
अदृष्टेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः
तथा निष्किञ्चनत्वं च मनसश्च प्रयत्नतः
वृत्तं शौचं महाशौचाद्वृत्तशौचं परं हितम्
ज्ञानतत्त्वं च ते शौचं तच्छौचं परमं मतम्
मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शनाः
समारोपितशौचस्तु नित्यं भावसमन्वितः
केवलं गुणसम्पन्नश्शुचिरेव नरस्सदा
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि
यथा शरीरस्योद्देशाश्शरीरात्परिनिर्मिताः
तथा पृथिव्या भागास्तु पुण्यानि सलिलानि च
प्रार्थनाच्चापि तीर्थस्य स्नानाच्च पितृतर्पणात्
शोध्यं हि पातकं तीर्थे पूता यान्ति दिवं सुखम्
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा
अतीव पुण्यस्ते भागास्सलिलस्य च तेजसा
मनसश्च पृथिव्याश्च पुण्यास्तीर्था महाबलाः
उभयोरेव यस्स्नायात्स सिद्धिं शीघ्रमाप्नुयात्
यथा फलं क्रियाहीनं क्रिया फलविवर्जिता
नेह साधयते कार्यं समायुक्तास्तु सिध्यति
नित्यं शरीरशौचेन नित्यं शौचान्वितश्शुचिः
ततस्सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम्