युधिष्ठिरः-
पितामहेन कथिता दानधर्माश्रिताः कथाः
मया श्रुता ऋषीणां तु सन्निधौ केशवस्य च
पुनः कौतूहलमभूत्तामेवाध्यात्मिकीं प्रति
कथां कथय राजेन्द्र त्वदन्यः क उदाहरेत्
एष यादवदायादस्तथाऽनुज्ञातुमर्हति
ज्ञाते तु यस्मिञ्ज्ञातव्यं ज्ञातं भवति भारत
पश्चाच्छ्रोष्यामहे राज्ञां श्राव्यान्धर्मान्पितामह
कौतूहलमृषीणां तु च्छेतुमर्हसि साम्प्रतम्
भीष्म उवाच
अत ऊर्ध्वं महाराज साङ्ख्ययोगोभयशास्त्राधिगतयाथात्म्यदर्शनसम्पन्नयोराचार्ययोः संवादमनुव्याख्यास्यामः
तद्यथा भगवन्तं सनत्कुमारमासीनमङ्गुष्ठपर्वमात्रं महति विमानवरे योजनसहस्रमण्डले तरुणभास्करप्रतीकाशे शयनीये महति बद्धासनमनुध्यायन्तममृतमनावर्तकरममूर्तमक्षयजमथोपदिष्टमुपससर्प भगवन्तमाचार्यं भगवानाचार्यो रुद्रः
तं प्रोवाच स्वागतं महेश्वर ब्रह्मसुत एतदासनमासतां भगवान्
इत्युक्ते चासीनो भगवाननन्तरूपो रुद्रस्तं प्रोवाच भगवानपि ध्यानमावर्तयति
इत्युक्ते चाह भगवान्सनत्कुमारस्तथेति
तथेत्युक्तश्च प्रोवाच भगवाञ्शङ्करस्तदा
परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम्
शङ्करः-
किं वा ध्यानेन द्रष्टव्यं यद्भवाननुपश्यति
यच्च ध्यात्वा न शोचन्ति यतयस्तत्त्वदर्शिनः
कथय त्वमिमं देवं देहिनां यतिसत्तम
यच्च तत्पुरुषं शुद्धमित्युक्तं योगसाङ्ख्ययोः
किमध्यात्माधिभूतं च तथा वाऽप्यधिदैवतम्
कालसङ्ख्या च का देव द्रष्टव्या तस्य ब्रह्मणः
सङ्ख्यासङ्ख्यादनस्यैव या प्रोक्ता परमर्षिभिः
शास्त्रदृष्टेन मार्गेण यथावद्यतिसत्तम
यच्च तत्पुरुषं शुद्धं प्रबुद्धमजरं ध्रुवम्
बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च
विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदां वर
परिसाङ्ख्यं च साङ्ख्यानां ध्यानं योगेषु चार्थवत्
एकत्वदर्शनं चैव तथा नानात्वदर्शनम्
अरिष्टानि च तत्वेन तथैवोत्क्रमणानि च
दैवतानि च सर्वाणि निखिलेनानुपूर्वशः
यान्याश्रितानि देहेषु देहिनां यतिसत्तम
सर्वमेतद्यथातत्वमाख्याहि मुनिसत्तम
श्रेष्ठो भवान्हि सर्वेषां ब्रह्मज्ञानामनिन्दितः
चतुर्थस्त्वं त्रयाणां तु ये गताः परमां गतिम्
ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात्
वयं तु वैकृतं मार्गमाश्रिता वै क्षरं सदा
परमुत्सृज्य पन्थानममृताक्षरमेव तु
न्यूने पथि निमग्नास्तु ऐश्वर्येऽष्टगुणे तथा
महिमानं प्रगृह्येमं विचरामो यथासुखम्
न चैतत्सुखमत्यन्तं न्यूनमेतदनन्तरम्
मूर्तिमत्परमेतत्स्यादिदमेवं सुसत्तम
पुनः पुनश्च पतनं मूर्तिमत्युपदिश्यते
न पुनर्मृत्युमित्यन्यन्निर्मुक्तानां तु मूर्तितः
मृत्युदोषास्त्वनन्ता वै ह्युत्पद्यन्ते कृतात्मनाम्
मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने
तत्र मज्जन्ति पुरुषास्सुखदुःखेन वेष्टिताः
सुखदुःखव्यपेतं च यदाहुरमृतं पदम्
तदहं श्रोतुमिच्छामि यथावच्छ्रुतिदर्शनात्
सनत्कुमारः-
यदुक्तं भवता वाक्यं तत्वसञ्ज्ञेति देहिनाम्
चतुर्विंशतिमेवात्र केचिदाहुर्मनीषिणः
केचिदाहुस्त्रयोविंशं यथाश्रुतिनिदर्शनात्
वयं तु पञ्चविंशं वै तदधिष्ठानसञ्ज्ञितम्
तत्त्वं समधिमन्यामस्सर्वतन्त्रप्रलापनात्
अव्ययश्चैव वै व्यक्तावुभावपि पिनाकधृक्
सह चैव विना चैव तावन्योन्यं प्रतिष्ठितौ
हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतां वर
चकार पुरुषस्तात विकारपुरुषावुभौ
अव्यक्तादेक एवैष महानात्मा प्रसूयते
अहङ्कारेण लोकांश्च व्याप्य चाहङ्कृतेन वै
विना सर्वं तदव्यक्तादभिमन्यस्व शूलधृक्
भूतसर्गमहङ्कारात्तृतीयं विद्धि वै क्रमात्
अहङ्काराच्च भूतेषु चतुर्थं विद्धि वैकृतम्
अहङ्काराच्च जातानि युगपद्विबुधेश्वर
सविशेषाणि भूतानि पञ्च प्राहुर्मनीषिणः
चतुर्विंशात्तु वै प्रोक्तात्पञ्चविंशोऽधितिष्ठति
एते सर्गा मया प्रोक्ताश्चत्वारः प्राकृतास्त्विह
अहङ्काराच्च जातानि युगपद्विबुधेश्वर
अहङ्काराच्च भूतेषु विविधार्थो व्यजायत
इन्द्रियैर्युगपत्सर्वैस्सोऽनित्यश्च समीक्ष्यते
मरुत्त्वं सत्त्वसर्गश्च तुष्टिस्सिद्धिस्तथैव च
वैकृतानि प्रवक्ष्यामि शृणु तानि महामते
एषा तत्त्वचतुर्विंशन्मया शास्त्रानुमानतः
वर्णिता तव देवेश पञ्चविंशत्समन्विता
पञ्चमोऽनुग्रहश्चैव नवैते प्राकृतैस्सह
ऐन्द्रेऽप्यहमथाप्यन्यन्ममात्मनि च भास्वरम्
यच्च देहमयं किञ्चित्त्रिषु लोकेषु विद्यते
सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन
अन्यथा ये तु पश्यन्ति ते न पश्यन्ति ब्रह्मज
एतदव्यक्तविषयं पञ्चविंशसमन्वितम्
अनेन कारणेनैव तत्त्वमाहुर्मनीषिणः
विकारमात्रमेतं तु तत्त्वमाचक्षते परे
निस्तत्त्वश्चैष देवेश बोद्धव्यं तु न बुद्ध्यते
यदि बुद्ध्येत्परं बुद्धं बुद्ध्यमानस्सुरर्षभः
प्रबुद्धो ह्यभिमन्येत योऽयं नाहमिति प्रभो
तत्त्वसङ्ख्या श्रुता चैषा येषां ब्रह्मविदां वर
सर्गसङ्ख्या मया प्रोक्ता नवानामानुपूर्व्यशः
प्रवक्ष्यामि तु तेऽध्यात्ममधिभूताधिदैवतम्
नैतद्युक्तैर्वेदविद्भिर्गृहस्थैर्मान्यैरेभिस्तपसा वाऽभिपन्नैः
यत्नेन दृष्टं परमात्मतत्त्वं तत्त्वेन प्राप्यं तु यथोक्तमेतत्
परं परेभ्यस्त्वमृतार्थतत्त्वं स्वभावसत्त्वस्थमनीशमीशम्
कैवल्यतां प्राप्य महासुरोत्तम तवैतदाख्यामि मुनीन्द्रवृत्त्या
रहस्यमेवान्यदवाप्य दिव्यं पवित्रपूतस्तव मृत्युजालम्
पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्वपरीक्षिताय
नाश्रद्दधानाय न चान्यबुद्धेर्नाज्ञानयुक्ताय न विस्मिताय
स्वाध्याययुक्ताय गुणान्विताय प्रदेयमेतन्नियतेन्द्रियाय
सङ्क्षेपं चाप्यथैतेषां तत्त्वानां वृषभध्वज
अनुलोमानुजातानां प्रतिलोमं प्रमीयतम्
प्रवक्ष्यामि तमध्यात्मं साधिभूताधिदैवतम्
यथांशुजालमर्कस्य तथैतत्प्रवदन्ति वै
सङ्क्षीणे ब्रह्मदिवसे जगज्जलधिमाविशेत्
प्रलीयते जले भूमिर्जलमग्नौ प्रलीयते
लीयतेऽग्निस्तथा वायौ वायुराकाश एव तु
मनसि प्रलीयते खं तु मनोऽहङ्कार एव च
अहङ्कारस्तथा तस्मिन्महति प्रविलीयते
महानव्यक्त इत्याहुस्तदेकत्वं प्रचक्षते
अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्मणि
एवमस्यासकृत्क्रीडामाहुस्तत्त्वविदो जनाः
अध्यात्ममधिभूतं च तथैवाप्यधिदैवतम्
यथावदुदितं शास्त्रं योगे तु सुमहात्मभिः
तथैव चेह साङ्ख्ये तु परिसङ्ख्यात्मचिन्तकैः
प्रपञ्चितार्थमेतावन्महादेव महात्मभिः
ब्रह्मेति विद्यादध्यात्मं पुरुषं चाधिदैवतम्
प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च
अध्यात्मं प्राणमित्याहुः क्रतुमप्यधिदैवतम्
रथं च यज्ञवाहोऽत्र कर्माहङ्कार एव च
अध्यात्मं तु मनो विद्याच्चन्द्रमाश्चाधिदैवतम्
दैवं च प्रभवश्चैव कर्म व्याहृतयस्तथा
विद्यात्तु श्रोत्रमध्यात्ममाकाशमधिदैवतम्
सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतम्
त्वगध्यात्ममथो विद्याद्वायुरत्राधिदैवतम्
सन्निपातय विज्ञानं सर्वकर्म च तत्र ह
अध्यात्मं चक्षुरित्याहुर्भास्करोऽत्राधिदैवतम्
ज्ञापनं सर्ववर्णानां रूपं कर्म सदा स्मृतम्
जिह्वेति विद्यादध्यात्ममापश्चात्राधिदैवतम्
पायुरध्यात्ममित्याहुर्यथावद्यतिसत्तमाः
विसर्गमधिभूतं च मित्रं चाप्यधिदैवतम्
उपस्थोऽध्यात्ममित्याहुर्देवदेव पिनाकधृक्
अनुभावोऽधिभूतं तु दैवतं च प्रजापतिः
पादावध्यात्ममित्याहुस्त्रिशूलाङ्क मनीषिणः
गन्तव्यमधिभूतं तु विष्णुस्तत्राधिदैवतम्
वागध्यात्मं तथैवाहुः पिनाकिंस्तत्त्वदर्शिनः
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्
एतदध्यात्ममतुलं साधिभूताधिदैवतम्
मया तु वर्णितं सम्यग्देहिनाममरर्षभ
एतत्कीटपतङ्गे च श्वपाके शुनि हस्तिनि
पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे
सर्वमेव हि द्रष्टव्यमन्यथा मा विचिन्तय
अतोऽन्यथा ये पश्यन्ति न सम्यक्तेषु दर्शनम्
देवदानवगन्धर्वयक्षराक्षसकिन्नराः
यन्न जानन्ति को ह्येष कुतो वा भगवानिति
ओमित्येकाक्षरं ब्रह्म यत्तत्सदसतः परम्
अनादिमध्यपर्यन्तं कूटस्थमचलं ध्रुवम्
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्
अनादिनिधनं देवं देवदेवं सनातनम्
अपमेयमविज्ञेयं हरिं नारायणं प्रभुम्
कृताञ्जलिश्शुचिर्भूत्वा प्रणम्य प्रयतोऽर्चय
अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः
एकोऽयं वेद भगवांस्त्राता नारायणो हरिः
नारायणादृषिगणास्ततस्सिद्धा महोरगाः
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम्
यमाहुर्विजितक्लेशं यस्मिंश्च विहिताः प्रजाः
यस्मिल्ँलोकास्स्फुरन्तीमे जाले शकुनयो यथा
सप्तर्षयो मनस्सप्त साङ्ख्यास्तु मुनिदर्शनात्
सप्तर्षयश्चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च
श्रोत्रयोश्च दिशः प्राहुर्मनसि त्वथ चन्द्रमाः
मनष्षष्ठं बुद्धिस्सप्तमी ह्यात्मनि स्थापितानि शरीरेषु नात्मनि तस्य हि कारणानि भवन्ति सर्वाण्यपि सर्वकर्मसु वा विषयेषु वा युञ्जन्ति यथात्मनि स्वानि कर्माणि प्रवृत्तानि सप्तस्वपि व्यापकानि
विषयाणां व्यापकानि तान्येव स्वपतो भूतग्रामस्याजमात्मानं देवलोकस्थानसम्मितं देहान्तरगामिनं मुमुक्षवोऽनुप्रविशन्ति सूक्ष्माणि प्रलीयन्ते वा
मोक्षकाले तमेकं न कश्चिद्वेत्ति स्वपरम्
एवं प्रविष्टेषु भूतेषु को जागर्तीत्युच्यते
निद्राप्रसुप्तेषु वाऽत्र जाग्रत्स्वप्नशीलोत्रसदनौ च देवद्योतनो भगवांश्चात्र क्षेत्रज्ञो बुद्धिर्वा
स हि सुप्तस्यापि स्वप्नदर्शनानि पश्यति
अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते
स एष प्राज्ञः
अथ तैजसः कायाग्निस्स हि सुप्तस्यात्मा वा
अविदुषो वाऽप्रतिबुध्यमानस्यान्नं पचतीत्यन्तेऽवितिष्ठते
एतदात्मानमधिकृत्यानुज्ञातमिति
प्रभवश्चाप्ययस्तात वर्णितस्तेऽनुपूर्वशः
तथाऽध्यात्माधिभूतं च तथैवात्राधिदैवतम्
निखिलेन तु वक्ष्यामि दैवतानि ह देहिनाम्
यान्याश्रितेषु देहेषु यानि पृच्छसि शङ्कर
वाच्यग्निस्त्वथ जिह्वायां सोमः प्राणे तु मारुतः
रूपे चाप्यथ नक्षत्रं जिह्वायां चाप एव तु
नाभ्यां समुद्रश्च विभुर्नखरोम तथैव च
वनस्पतिवनौषध्यस्त्वङ्गेषु मरुतस्तथा
संवत्सराः पर्वसु च आकाशे दैवमानुषे
उदाने विद्युदभवद्व्याने पर्जन्य एव च
स्तनयोरेव चाकाशं बले चेन्द्रस्तथा भवेत्
समानेऽप्यथ चेशानस्त्वपाने रुद्र एव च
गन्धर्वाप्सरसो व्याने सत्ये मित्रश्च शङ्कर
प्रज्ञायां वरुणश्चैव चक्षुष्यादित्य एव च
शरीरे पृथिवी चैव पादयोर्विष्णुरेव च
पायौ मित्रस्तथोपस्थे प्रजापतिररिन्दम
मूर्ध्नि चैव दिशः प्राहुर्बुद्धौ ब्रह्मा प्रतिष्ठितः
बुध्यमानोऽऽत्मनिष्ठस्स्यादधिष्ठाता तु शङ्करः
अबुद्धश्चाभवत्तस्माद्बुध्यमानान्न संशयः
आभ्यामन्यः परो बुद्धो वेदवादेषु शङ्कर
यदाश्रितानि देहेषु दैवतानि पृथक्पृथक्
योऽग्नये यजते नित्यमात्मयाजी समाहितः
य एवमनुपश्येत दैवतानि समाहितः
सोऽत्र योगी भवत्येव य एवमनुपश्यति
स सर्वज्ञयाजिभ्यो ह्यात्मयाजी विशिष्यते
मुखे जुहोति यो नित्यं कृत्स्नं विश्वमिदं जगत्
सो त्मवित्प्रोच्यते तज्ज्ञैर्महादेव महात्मभिः
सर्वेभ्यः परमेभ्यो वै दैवतेभ्यो त्मयाजिना
गन्तव्यं परमाकाङ्क्षन्परमेव विचिन्तयन्
यथा सङ्क्रमते देहाद्देही त्रिपुरसूदन
तथाऽस्य स्थानमाख्यास्ये पृथक्त्वेनेह शङ्कर
पादाभ्यां वैष्णवं स्थानमाप्नोति विनियोजनात्
पायुना मित्रमाप्नोति उपस्थेन प्रजापतिम्
नाभ्या च वारुणं स्थानं स्तनाभ्यां तु भवो लभेत्
बाहुभ्यां वासवस्थानं श्रोत्राभ्यामाप्नुयाद्दिशः
आदित्यं चक्षुषा स्थानं मूर्ध्ना ब्रह्मण एव च
अथ मूर्धसु यः प्राणान्धारयेत समाहितः
बुद्ध्या मानमवाप्नोति द्रव्यावस्थं न संशयः
अव्यक्तात्परमं शुद्धमप्रमेयमनामयम्
तमाहुः परमं नित्यं यद्यदाप्नोति बुद्धिमान्
बुध्यमानाप्रबुद्धाभ्यां स बुद्ध इति पठ्यते
बुध्यमानमबुद्धश्च नित्यमेवानुपश्यति
विकारपुरुषस्त्वेष बुध्यमान इति स्मृतः
पञ्चविंशतितत्त्वं तत्प्रोच्यते नात्र संशयः
स एष प्रकृतिस्थत्वात्तस्थुरित्युपदिश्यते
महानात्मा महादेव महानत्राधितिष्ठति
अधिष्ठानादधिष्ठाता प्रोच्यते शास्त्रदर्शनात्
एष चेतयते देव मोहजालमबुद्धिमान्
अव्यक्तस्यैव साधर्म्यमेतदाहुर्मनीषिणः
सोहं सोऽहमतो नित्यादज्ञानादिति मन्यते
यदि बुध्यति चैवायमन्योऽयमिति भास्वरः
न प्रबुद्धोऽनुवर्तेत पानीयं मत्स्यको यथा
देवता निखिलेनैताः प्रोक्तास्त्रिभुवनेश्वर
योगकृत्यं तु तावन्मे त्वं निबोधानुपूर्वशः
शून्यागारेष्वरण्येषु सागरे वा गुहासु वा
विष्टम्भयित्वा त्रीन्दण्डानवाप्तोऽप्यथ योगवित्
प्राङ्मुखोदङ्मुखो वाऽपि तथा पश्चान्मुखोऽपि वा
दक्षिणावदनो वाऽपि बद्ध्वा विधिवदासनम्
स्वस्तिकेनोपसंविष्टः कायमुन्नाम्य भास्वरम्
यथोपदिष्टं गुरुणा तथा तद्ब्रह्म धारयेत्
लघ्वाहारो यतो दान्तस्त्रिकालपरिवर्जकः
मूत्रोत्सर्गपुरीषाभ्यामाहारे च समाहितः
शेषकालं तु युञ्जीत मनसा सुसमाहितः
इन्द्रियाणीन्द्रियार्थेभ्यो मनसा विनिवर्तयेत्
मनस्तथैव सङ्गृह्य बुद्ध्या बुद्धिमतां वर
विधावमानं धैर्येण विष्फुरन्तमितस्ततः
निरुध्य सर्वसङ्कल्पांस्ततो वै स्थिरतां व्रजेत्
एकाग्रस्तद्विजानीयात्सर्वगुह्यतमं परम्
निवातस्थ इवालोलो यथा दीपोऽतिदीप्यते
ऊर्ध्वमेव न तिर्यक्च तथैवाभ्रान्ति ते मनः
हृदिस्थस्तिष्ठते योऽसौ तस्यैवाभिमुखो यदा
मनो भवति देवेश पाषाणमिव निश्चलम्
स निर्जने विनिर्घोषे सघोषे चावसञ्जने
युक्तो यो न विकम्पेत योगी योगविधिश्श्रुतः
ततः पश्यति तद्ब्रह्म ज्वलदात्मनि संस्थितम्
विद्युदम्बुधरे यद्वत्तद्वदेकमनाश्रयम्
तमस्यगाधे तिष्ठन्तं निस्तमस्कमचेतनम्
चेतयानमचेतं च दीप्यमानं स्वतेजसा
अङ्गष्ठपर्वमात्रं तन्नैश्रेयसमनिन्दितम्
महद्भूतमनन्तं च स्वतन्त्रं विगतज्वरम्
ज्योतिषां ज्योतिषं देवं विष्णुमत्यन्तनिर्मलम्
नारायणमणीयांसमीश्वराणामधीश्वरम्
विश्वतः परमं नित्यं विश्वं नारायणं प्रभुम्
अविज्ञाय निमज्जन्ति लोकास्संसारसागरे
यं दृष्ट्वा यतयस्तात न शोचन्ति गतज्वराः
जन्ममृत्युभयान्मुक्तास्तीर्णास्संसारसागरम्
अणिमा लघिमा भूमा प्राप्तिः प्राकम्यमेव च
ईशित्वं च वशित्वं च यत्र कामावसायिता
एतदष्टुगुणं योगं योगानाममितं स्मृतम्
दृष्ट्वाऽऽत्मानं निरात्मानमप्रमेयं सनातनम्
ते विशन्ति शरीराणि योगेनानेन भास्वरम्
दैत्यदेवमनुष्याणां बलेन बलवत्तमाः
एतत्तत्वमनाद्यन्तं यद्भवाननुपृच्छति
नित्यं वयमुपास्यामो योगधर्मं सनातनम्
योगधर्मान्न धर्मोऽस्ति गरीयान्सुरसत्तम
एतद्धर्मं हि धर्माणामपुनर्भवसंस्कृतम्
तत्त्वतः परमस्तीति केचिदाहुर्मनीषिणः
केचिदाहुः परं नास्ति ये साङ्ख्यज्ञानमाश्रिताः
ज्ञानस्थः पुरुषस्त्वेष विकृतस्स्वेन वर्णितः
ये ध्यानेनानुपश्यन्ति नित्यं योगपरायणाः
तमेव पुरुषं देवं केचिदेव महेश्वर
नित्यमन्यतमाः प्राहुर्ज्ञानं परमकं स्मृतम्
ज्ञानमेव विनिर्मुक्तास्साङ्ख्या गच्छन्ति केवलम्
चिन्ताध्यात्मनि चान्यत्र योगाः परमबुद्धयः
उक्तमेतावदेतत्ते योगदर्शनमुत्तमम्
साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्याविदर्शनम्
इन्द्रियेभ्यो मनः पूर्वमहङ्कारस्ततः परम्
अहङ्कारात्परा बुद्धिर्बुद्धेः परतरं महत्
महतः परमव्यक्तमव्यक्तात्पुरुषः परः
एतावदेतत्साङ्ख्यानां दर्शनं देवसत्तम
अव्यक्तं बुद्ध्यहङ्कारौ महाभूतानि पञ्च च
मनस्तथा विशेषं च दश चैवेन्द्रियाणि च
एषा तत्त्वचतुर्विंशन्महापुरुषसम्मिता
बुद्ध्यमानेन देवेश चेतनेन महात्मना
संयोगमेतयोर्नित्यमाहुरव्यक्तपुंसयोः
एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः
तमस्सञ्ज्ञितमेतद्धि प्रवदन्ति त्रिशूलधृक्
समुत्पाट्य यथाव्यक्ताज्जीवा यान्ति पुनः पुनः
आदिरेष महानात्मा गुणानामिति नः प्रभो
गुणस्थत्वाद्गुणं चैनमाहुरव्यक्तलक्षणम्
एतेनाध्युषितो व्यक्तस्त्रिगुणं चेतयत्यथ॥
अचेतनः प्रकृत्येषु न चान्यमनुबुध्यते
बुध्यमानो ह्यहङ्कारो नित्यं मानाप्रबोधनात्
विमलस्य विशुद्धस्य नीरुजस्य महात्मनः
विमलोदरशीलस्स्याद्बुध्यमानाप्रबुद्धयोः
द्रष्टा भवत्यभोक्ता च सत्त्वमूर्तिश्च निर्गुणः
बुध्यमानाप्रबुद्धाभ्यामन्य एव तु निर्गुणः
उपेक्षकश्शुचिस्ताभ्यामुभाभ्यामयुतस्तथा
बुध्यमानो न बुध्येत बुद्धमेवं सनातनम्
स एव बुद्धेरव्यक्तस्वभावत्वादचेतनः
सोऽहमेव न मेऽन्योस्ति य एवमभिमन्यते
न मन्यते ममान्योऽस्ति येन चेतोऽस्म्यचेतनः
एवमेवाभिमन्येत बुध्यमानोऽप्यनात्मवान्
अहमेव न मेऽन्योऽस्ति न प्रबुद्धवशानुगः
अव्यक्तस्थो गुणानेष नित्यमेवाभिमन्यते
तेनाधिष्ठिततत्वज्ञैर्महद्भिरभिधीयते
अहङ्कारेण संयुक्तस्ततस्ददभिमन्यते
क्षेत्रं प्रविश्य दुर्बुद्धिर्बुद्ध्यमानो ह्यनात्मवान्
अहमेव सृजत्यन्यद्द्वितीयं लोकसारथिम्
सर्वाभावैरहङ्कारैस्तृतीयं सर्गसञ्ज्ञकम्
ततो भूतान्यहङ्कारमहङ्कारो मनोऽसृजत्
तस्य स्रोतस्यभिमुखं सम्प्रावर्तत बुद्धिमान्
तथैव यज्ञे भूतेषु विषयार्थी पुनः पुनः
इन्द्रियैस्सह शूलाङ्क पञ्च पञ्चभिरेव च
मनो वेद न चात्मानमहङ्कारं प्रजापतिः
न वेद वाऽप्यहङ्कारो बुद्धिं बुद्धिमतां वर
एवमेते महाभाग नेतरे नयवादिनः
अहङ्कारेण संयुक्तस्स्रोतस्यभिमुखस्तदा
एवमेष विकारात्मा महापुरुषसञ्ज्ञकः
प्रतनोति जगत्कृत्स्नं पुनराददते स तत्
ससञ्ज्ञत्वाज्जगत्कृत्स्नमव्यक्तस्य हृदि स्थितम्
संविशद्रजनीं कृत्स्नां निशान्ते दिवसागमे
पुनरात्मा विजयते बहवो निर्गुणास्तथा
अज्ञानेन समायुक्तस्सोऽव्यक्तेन तमोत्मना
यदि ह्येषोऽनुमन्येत ममास्ति परतो वरः
स पुनः पुनरात्मानं न कुर्यादाक्षिपेत च
एतमव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान्
पञ्चविंशं महादेव महापुरुषवैकृतम्
प्रबुद्धौ बुद्धवानेतत्सृजमानमबुद्धवान्
गुणान्पुनश्च तानेव सो त्मनाऽऽत्मनि निक्षिपेत्
अव्यक्तस्य वशीभूतस्सऽज्ञानस्य तमोत्मनः
बुध्यमानो ह्यबुद्धस्य बुद्धस्तदनुभुज्यते
उपेक्षकश्शुचिर्व्यग्रस्सोलिङ्गस्सोऽव्रणोऽमलः
षड्विंशो भगवानास्ते बुद्धश्शुद्धो निरामयः
अव्यक्तादिविशेषान्तमेतद्वैद्या वदन्त्युत
एतैरेव विहीनं तु केचिदाहुर्मनीषिणः
निस्तत्वं बुध्यमानास्तु केचिदाहुर्महामते
केचिदाहुर्महात्मानस्तत्वसञ्ज्ञितमेव तु
तत्त्वस्य श्रवणादेनं तत्त्वमेवं वदन्ति वै
तत्त्वसंश्रयणाच्चैव सत्त्ववन्तं महेश्वर
एवमेव विकारात्मा बुध्यमानो महाभुज
अव्यक्तो भवते व्यक्तौ सत्त्वं सत्त्वं तथा गुणौ
विद्या च भवते विद्या भवेत्तु ग्रहसञ्ज्ञितम्
य एवमनुबुद्ध्यन्ते योगसाङ्ख्याश्च तत्त्वतः
तेऽव्यक्तं शङ्करागाढं मुञ्चन्ते शास्त्रबुद्धयः
तेषामेवं तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम्
बुद्धिर्विस्तीर्यते सर्वं तैलबिन्दुरिवाम्भसि
विद्या तु सर्वविद्यानामवबोध इति स्मृतः
येन विद्यामविद्यां च विन्दन्ति यतिसत्तमाः
सैषा त्रयी परा विद्या चतुर्थ्यान्वीक्षिकी स्मृता
यां बुद्ध्यमानो बुद्ध्येत बुद्ध्याऽऽत्मनि समं गतः
अप्रबुद्धमथाव्यक्तमविद्यासञ्ज्ञिकं स्मृतम्
विमोहितं तु शोकेन केवलेन समन्वितम्
एतद्बुद्ध्या भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम्
ये त्वेतन्नावबुद्ध्यन्ते ते बुद्धवशगानुगाः
ते पुनःपुनरव्यक्ताज्जनिष्यन्त्यबुधात्मनः
तमेव तुलयिष्यन्ति ह्यबुद्धिवशवर्तिनः
ये चाप्यन्ये तन्मनसस्तेऽप्येतत्फलभागिनः
विदित्वैनं न शोचन्ति योगोपेतार्थदर्शिनः
स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम्
अज्ञानबन्धनान्मुक्तास्तीर्णास्संसारबन्धनात्
अज्ञानसागरं घोरमगाधं तमसञ्ज्ञकम्
यत्र मज्जन्ति भूतानि पुनः पुनररिन्दम
एषा विद्या तथाऽविद्या कथिता ते मयाऽर्थतः
यस्मिन्देयं च नो ग्राह्यास्साङ्ख्यास्साङ्ख्यं तथैव च
तथा चैकत्वनानात्वमक्षरं क्षरमेव च
निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते
बुद्ध्यमानाप्रबुद्धाभ्यामबुद्धस्य प्रपञ्चनम्
भूय एव निबोध त्वं देवानां देवसत्तम
यच्च किञ्चिच्छ्रुतं न स्याद्दृष्टं चैव न किञ्चन
तच्च ते सम्प्रवक्ष्यामि एकाग्रश्शृणु तद्भवान्
अरिष्टानि प्रवक्ष्यामि तत्त्वेन शृणु तद्भवान्
मध्य उत्तरतस्तात दक्षिणामुखनिष्ठितम्
विद्युत्संस्थानपुरुषं यदि पश्येत मानवः
वर्षत्रयेण जानीयाद्देहन्यासमुपस्थितम्
एतत्फलमरिष्टस्य शङ्कराहुर्मनीषिणः
शुद्धमण्डमादित्यमरश्मिमथ पश्यतः
वर्षार्धकेन जानीयाद्देहन्यासमुपस्थितम्
छिद्रां चन्द्रमसश्छायां पादावप्यनपश्यतः
संवत्सरेण जानीयाद्देहन्यासमुपस्थितम्
कनीनिकायामशिरः पुरुषं यदि पश्यति
जानीयात्षट्सु मासेषु देहन्यासमुपस्थितम्
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद्यदि
विजानीयात्तु मासेन देहन्यासमुपस्थितम्
शवगन्धमुपाघ्राति सुरभिं प्राप्य भास्वरम्
देवतायतनस्थोऽपि सप्तरात्रेण मृत्युभाक्
सर्वाङ्गधारणावस्थां धारयेत समाहितः
यथा स मृत्युं जयति नान्यथेह महेश्वर
यदि जीवितुमिच्छेत चिरकालं महामुने
अथ नेच्छेच्चिरं कालं त्यजेदात्मानमात्मना
केवलं चिन्तयानस्तु निष्कलं स निरामयम्
अथ तं निर्विकारं तु प्रकृते परमं शुचिम्
पुरुषं तेन साधर्म्यं देहन्यासमुपाश्नुयात्
जाग्रतो हि मयोक्तानि तवारिष्टानि तत्त्वतः
धारणाच्चैव सर्वाङ्गे मृत्युं जीयात्सुरर्षभ
एकत्वदर्शनं भूयो नानात्वं च निबोध मे
अक्षरं च क्षरं चैव चतुष्टयविधानतः
अव्यक्तादीनि तत्वानि सर्वाण्येव महाद्युते
आहुश्चतुर्विंशतितमं विकारं पुरुषान्वितम्
एकत्वदर्शनं त्वेनं नानात्वेनावरं स्मृतम्
पञ्चविंशतिवर्गस्स्यादपवर्गोऽजरामरः
स निर्विकारपुरुषस्तत्त्वेनैवोपदिश्यते
स एव पञ्चविंशस्तु विकारः पुरुषस्स्मृतः
यद्येष निर्विकारस्स्यात्तत्त्वं न तु भवेद्भव
विकारो विद्यमानस्तु तत्त्वसञ्ज्ञक उच्यते
यद्येषोऽव्यक्ततां नैति व्यतिरेकान्न संशयः
तथा भवति निस्तत्त्वस्तथासत्त्वस्तथागुणः
विकारगुणसन्त्यागात्प्रकृत्यन्यत्वतश्शुचिः
तदा नानात्वतामेति सर्गहीनोऽपवर्गभाक्
बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान्
अक्षरश्च भवत्येष यथा वा च्युतवान्क्षणात्
अव्यक्ताव्यक्तिरुक्ता स्यान्निर्गुणस्य गुणाकरात्
एतदेकत्वनानात्वमक्षरः क्षर एव च
व्याख्यातं तव शूलाङ्क तथाऽरिष्टानि चैव हि
विमोक्षलक्षणं शेषं तदपीह ब्रवीमि ते
यं ज्ञात्वा यतयः प्राप्ताः केवलत्वमनामयम्
साङ्ख्याश्चाप्यथ योगाश्च दग्धपङ्का गतज्वराः
अमूर्तित्वमनुप्राप्ता निर्गुणा निर्भया भव
विपाप्मानो महादेव मुक्तास्संसारसागरात्
सरणे प्रजनादाने गुणानां प्रकृतिस्सदा
परा प्रमत्ता सततमेतावत्कार्यकारणम्
असच्चैव तु सच्चैव कुरुते स पुनः पुनः
चैतन्येन पुराणेन चेतनाचेतनात्परः
यस्तु चेतयते चेतो मनसा चैकबुद्धिकम्
स नैव सन्न चैवासन्सदसन्न च संस्मृतः
व्यतिरिक्तश्च शुद्धश्च सोऽन्यश्चाप्रकृतिस्तथा
उपेक्षकश्च प्रकृतेर्विकारपुरुषस्स्मृतः
विकारपुरुषेणैषा संयुक्ता सृजते जगत्
पुनराददते चैव गुणानामन्यथाऽऽत्मनि
मत्स्योदकात्स सञ्ज्ञातः प्रकृतेरेव कर्मणः
तद्वत्क्षेत्रसहस्राणि स एव प्रकरिष्यति
क्षेत्रप्रलयतज्ज्ञस्तु क्षेत्रज्ञ इति चोच्यते
स योगो नित्य इत्याहुर्ये जनास्तत्त्वदर्शिनः
एवमेष ह्यसत्सच्च विकारपुरुषस्स्मृतः
विकारापद्यमानं तु विकृतिं प्रवदन्ति नः
यदा त्वेष विकारांस्तु प्रकृतानिति मन्यते
तदा विकारतामेति विकारान्यत्वतां व्रजेत्
प्रकृत्या च विकारैश्च व्यतिरिक्तो यदा भवेत्
शुचि यत्परमं शुद्धं प्रतिबुद्धं सनातनम्
अयुक्तं निष्कलं शुद्धमव्ययाजरमव्रणम्
समेत्य तेन शुद्धेन बुध्यमानस्स भास्वरः
विमोक्षं भजते व्यक्तादप्रबुद्धादचेतनात्
उदुम्बराद्वा मशकः प्रलयान्निर्गतो यथा
तथाऽव्यक्तस्य सन्त्यागान्निर्ममः पञ्चविंशकः
यथा पुष्करपर्णस्थो जलबिन्दुर्न संश्लिषेत्
तथैवाव्यक्तविषये न लिप्येत्पञ्चविंशकः
आकाश इव निस्सङ्गस्तथाऽसङ्गस्त्था वरः
पञ्चविंशतिमो बुद्धो बुद्धेन समतां गतः
एतद्धि प्रकृतं ज्ञानं तत्त्वतश्च समुत्थितम्
पूर्वजेभ्यस्तथोत्पन्नं ब्रह्मजेभ्यस्ततोऽनघ
आदिसर्गो महाबाहो तामसेनावृतं परम्
प्रतिष्टावयवं देवमभेद्यमजरामरम्
सनकस्सनन्दनश्चैव तृतीयश्च सनातनः
ते विदुः परमं धर्ममव्ययं व्ययधर्षणम्
अव्यक्तात्परमात्सूक्ष्मादव्रणान्मूर्तिसञ्ज्ञकात्
क्षेत्रज्ञो भगवानास्ते नारायणपरायणः
अस्माकं सहजातानामुत्पन्नं ज्ञानमुत्तमम्
एते हि मूर्तिमन्तो वै लोकान्प्रविचरामहे
पुनः पुनः प्रजाता वै तत्र तत्र पिनाकधृक्
द्वन्द्वैर्विरज्यमानस्य ज्ञानमुत्पन्नमुत्तमम्
कपिलान्मूलाचार्यात्तत्त्वबुद्धिविनिश्चयम्
योगसाङ्ख्यमवाप्तं मे कार्त्स्न्येन मुनिसत्तमात्
तेन सम्बोधिताश्शिष्या बहवस्तत्त्वदर्शिनः
तद्बुध्या बहवश्शिष्या मयाऽप्येतन्निदर्शिताः
जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम्
यज्ज्ञात्वा नानुशोचन्ति तत्त्वज्ञाना निरिन्द्रियाः
शुद्धबीजामलाश्चैव विपङ्का वै निरक्षराः
स्वतन्त्रास्ते स्वतन्त्रेण सम्मता निष्कलास्स्मृताः
शाश्वताश्चाव्ययाश्चैव तमोग्राह्याश्च भास्वर
विपाप्मानस्तथा सर्वे सत्त्वस्थाश्चापि निर्व्रणाः
विमुक्ताः केवलाश्चैव वीतमोहभयास्तथा
अमूर्तास्ते महाभाग सर्वे च विगतज्वराः
हिरण्यनाभस्त्रिशिरास्तथा प्रह्लादभास्करौ
वसुर्विश्वावसुश्चैव सार्धं पञ्चशिखस्तथा
गार्ग्योऽथासुरिरावन्त्यो गौतमो वृत एव च
कात्यायनोऽथ नमुचिर्हरिश्च दमनश्च ह
एते चान्ये च बहवस्तत्त्वमेवोपदर्शिताः
केचिन्मुक्तास्स्थिताः केचिच्छन्दतश्चापरे मृताः
दर्शितास्त्रिविधं बन्धं विमोक्षं त्रिविधं तथा
अज्ञानं चैव रागश्च संयोगं प्राकृतं ततः
एतेभ्यो बन्धनं प्रोक्तं विमोक्षमपि मे शृणु
परितस्तावता सम्यक्सम्बन्धो यावता कृतः
कृत्स्नक्षयपरित्यागाद्विमोक्ष इति नश्श्रुतिः
निवृत्तस्सर्वसङ्गेभ्यः केवलः पुरुषोऽमलः
भीष्मः-
इत्येवमुक्त्वा भगवानीश्वराय महात्मने
सनत्कुमारः प्रययावाकाशं समुपाश्रितः