युधिष्ठिरः-
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना
गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः
न तै शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह
बहूपकरणा यज्ञा नानासम्भारविस्तराः
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः
यो दरिद्रैरपि विधिश्शक्यः प्राप्तुं सदा भवेत्
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह
भीष्मः-
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम्
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत्
अहिंसानिरतो राजञ्जुह्वानो जातवेदसम्
षड्भिरेव स वर्षैस्तु सिध्यते नात्र संशयः
तप्तकाञ्चनवर्णं च विमानं लभते नरः
देवस्त्रीणामधीवासे नृत्तगीतनिनादिते
प्राजापत्ये वसेत्सद्मन्यग्निनवर्णनिभे
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम्
धर्मत्नीरतो नित्यमग्निष्टोमफलं लभेत्
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम्
राजन्द्वादशमासास्तु जुह्वानो जातवेदसम्
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः
मयूरहंसयुक्तं च विमानं लभते नरः
सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह
यज्ञं बहुसुवर्णं यो वासवप्रियमाचरेत्
सत्यवान्दानशीलश्च ब्रह्मण्यश्चानसूयकः
क्षान्तो दान्तो जितक्रोधस्स गच्छेत्परमां गतिम्
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे
द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत् सदा
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
अलुब्धस्संविभागी च ब्रह्मण्यश्चापि वाग्यतः
अनसूयुरवैक्लब्यो द्वादशाहफलं लभेत्
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम्
सूर्यभासा समाभासमारोहेत्पाण्डुरं गुहम्
आवर्तनानि चत्वारि तथा पद्मानि द्वादश
शराग्निपरिमाणं च तत्रासौ वसते सुखम्
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः
गवामयनयज्ञस्य फलं प्राप्नोत्यनुत्तमम्
अग्निज्वालासमाभासं हंसबर्हिणसेवितम्
शातकुम्भसुनिर्यूहं साधयेद्यानमुत्तमम्
तासामप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते
नूपुराणां निनादेन मेखलानां च निस्स्वनैः
तथा कोटीसहस्राणां दशकोटिशतानि च
पद्मान्यष्टादश तथा प्रयुते द्वे तथैव च
प्रयुतानां च पञ्चशल्लक्षं पञ्चशतस्य च
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन्
सुमनोवर्णकं चैव मधु मांसं च वर्जयन्
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति
तत्र तत्र हि सिद्धार्थो देवकन्याभिरुह्यते
फलं बहुसुवर्णस्य यज्ञस्य च समश्नुते
सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः
देवकार्यपरो नित्यं जुह्वानो जातवेदसम्
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्
पद्मवर्णनिभं चैव विमानमधिरोहति
मृष्टाः कनकगौर्यश्च नार्यश्श्यामास्तथा पराः
वरा रूपविलासिन्यो लभते नात्र संशयः
यस्तु संवत्सरं भुङ्क्ते अष्टाहे वै गतागते
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः
पुण्डरीकप्रकाशं तु विमानं लभते नरः
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च
नीयते रुद्रकन्याभिस्सोन्तरिक्षं सनातनम्
अष्टादशसहस्राणि वर्षाणां कल्पमेव च
कोटीशतसहस्रं च तेषु सर्वेषु मोदते
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः
रूपवत्यश्च ताः कन्या रमयन्ति सदा नरम्
नीलोत्पलनिर्भिन्नै रक्तोत्पलसुगन्धिभिः
विमानं मण्डलावर्तमावर्तनशतैर्वृतम्
सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम्
विचित्रमणिमालाभिर्नादितं शङ्खपुष्पकैः
स्फाटिकैर्वज्रसारैस्तु स्तम्भैश्च कृतवेदिकम्
आरोहति महद्यानं हंससारसवाहनम्
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
परस्त्रियो नाभिलषेद्वाचाऽथ मनसाऽपि वा
अनृतं च न भाषेत मातापित्रोः कृतेऽपि च
अभिगच्छेन्महादेवं विमानस्थं महाबलम्
स्वयम्प्रभं प्रपश्येत विमानं समुपस्थितम्
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम्
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम्
वर्षाण्यपरिमेयानि युगान्तमपि वा वसेत्
कोटीशतसहस्रं च शतकोटिशतानि च
रुद्रं नित्यं प्रणमते देवदानवनिर्मितम्
स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत्
दिवसे द्वादशे यस्तु प्राप्तो वै प्राशते हविः
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्
नियमेन समायुक्तस्सर्वमेधफलं लभेत्
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम्
हंसभासा परिक्षिप्तं नागवीथीसमाकुलम्
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम्
अट्टैर्महद्भिस्संयुक्तं ब्रह्मलोके प्रतिष्ठितम्
नित्यमावसथं राजन्नरनारीसमावृतम्
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मिवित्
त्रयोदशे तु दिवसे प्राप्ते यः प्राशते हविः
सदा द्वादश मासान्वै देवसत्रफलं लभेत्
रक्तपद्मोदयं नाम विमानं साधयेन्नरः
जातरूपसुरक्तं च रत्नसञ्चयभूषितम्
देवकन्याभिराकीर्णं दिव्याभूषणभूषितम्
पुण्यगन्धोदयं दिव्यं वादित्रैरुपशोभितम्
तत्र शङ्कुपताकं च युगान्ते कल्पमेव च
अयुतं च तथा पद्मं समुद्रं च तथा वसेत्
गीतगन्धर्वघोषैश्च भेरीपणवनिस्स्वनैः
सदा प्रह्लादितस्ताभिर्देवकन्याभिरीड्यते
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः
सदा द्वादश मासान्वै महामेधफलं भवेत्
अनिर्देश्यवयोरूपा देवकन्यास्स्वलङ्कृताः
मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम्
कञ्चीनां ध्वनिभिर्युक्तो नूपुराणां च निःस्वनैः
रशनानां समुत्कर्षैस्तत्र तत्र प्रबोध्यते
देवकन्यानिवासे च तस्मिन्वसति मानवः
जाह्नवीवालुकाकीर्णे ब्रह्मलोके महीयते
यस्तु पक्षे गते भुङ्क्ते एकभक्तो जितेन्द्रियः
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम्
यानमारोहते दिव्यं हंसबर्हिणलक्षणम्
मणिमङ्गलकैश्चित्रं जातरूपसमाचितम्
दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम्
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम्
वैजयन्तीसहस्रैश्च शोभितं गीतनिस्स्वनैः
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम्
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः
षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः
सदा द्वादशमासान्वै सोमयज्ञफलं लभेत्
सोमकन्यानिवासेषु सौम्यो वसति नित्यदा
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत्
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च
विचाल्यते विमानस्थः कामभोगैश्च सेव्यते
बलं सर्वाधिकं मुख्यं महाकल्पं दशाधिकम्
आवर्तनानि चत्वारि सागरै चात्यसौ नरः
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
स्थानं सवारुणञ्चैन्द्रं रौद्रं चैवाधिगच्छति
मारुतं शयनं चै व ब्रह्मलोकं स गच्छति
भूर्भुवस्स्वश्च देवर्षिर्विश्वरूपमवेक्षते
तत्र दैवतकन्याभिरासनेनोपचर्यते
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम्
मनोज्ञरुपधारिण्यो मधुरास्समलङ्कृताः
चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो
तावच्चरत्यसौ वीरस्सुधातुल्यरसाशनः
अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम्
सदा द्वादशमासान्वै सप्त लोकान्स गच्छति
रथैस्सैनिकघोषैश्च पृष्ठतस्सोऽनुगम्यते
देवकन्याधिरूढैस्तु भ्राजमानैस्स्वलङ्कृतैः
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम्
विमानमुत्तमं दिव्यं सुसुखं ह्यधिरोहति
तत्र कल्पसहस्रं स कन्याभिस्सह मोदते
सुधारसं च भुञ्जीत ह्यमृतोपममुत्तमम्
एकोनविंशदिवसे यो भुङ्क्ते ह्येकभोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
उत्तमं लभते स्थानमप्सरोगणसेवितम्
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम्
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः
दिव्याम्बरधरश्श्रीमानयुतानां शतं समाः
पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम्
सदा द्वादशमासांस्तु सत्यवादी धृतव्रतः
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः
स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः
विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते
एकविंशे च दिवसे यो भुङ्क्ते ह्येकभोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
लोकमौशनसं दीप्तं शक्रलोकं च गच्छति
अश्विनोर्मरुतां चैव सुखेऽभिरतते नरः
अनभिज्ञश्च दुःखानां विमानवरमास्थितः
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
अहिंसानिरतो धीमान्सत्यवागनसूयकः
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः
कामचारी सुधाहारो विमानवरमास्थितः
रमते देवकन्याभिर्दिव्याभरणभूषितः
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम्
सदा द्वादशमासान्वै मिताहारो जितेन्द्रियः
वायोरुशनसश्चापि रुद्रलोकं स गच्छति
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः
अनेकयुगपर्यन्तं विमानवरमास्थितः
रमते देवकन्याभिर्दिव्याभरणभूषितः
चतुर्विंशे तु दिवसे यः कुर्यादेकभोजनम्
सदा द्वादशमासन्वै जुह्वानो जातवेदसम्
आदित्यानामधीवासे मोदमानो वसेच्चिरम्
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
विमाने काञ्चने दिव्ये हंसयुक्ते मनोहरे
रमते देवकन्यानां सहस्रैरयुतैस्तथा
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम्
सदा द्वादशमासान्वै पुष्कलं यानमारुहेत्
सिंहव्याघ्रप्रयुक्तैस्तु मेघस्वनविनिदितैः
देवकन्यासमारूढै राजतैर्विमलैश्शुभैः
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम्
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते
सुधारसं चोपजीवन्नमृतोपममुत्तमम्
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम्
सदा द्वादशमासांस्तु नियतो नियताशनः
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम्
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः
सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते
विमाने स्फाटिके दिव्यै सर्वरत्नैरलङ्कृतैः
गन्धर्वैरप्सरोभिश्चि पूज्यमानः प्रमोदते
द्वेऽर्बुदानां सहस्रे तु दिव्ये दिव्येन तेजसा
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
फलं प्राप्नोति विमलं देवलोके प्रपूज्यते
अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते
देवर्षिचरिताल्ँलोकान्राजर्षिभिरनुष्ठितान्
अध्यावसति पुण्यात्मा विमानवरमास्थितः
स्त्रीभिर्मनोभिरामाभी रममाणो मनोरमः
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम्
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम्
सदा द्वादशमासांस्तु विजितात्मा जितेन्द्रियः
स्वर्गान्देवर्षिचरितान्विपुलान्समुपाश्नुते
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः
सुकुमार्यश्च नार्यस्तं रममाणास्सुवर्चसः
पीनस्तनोरुजघना दिव्याभरणभूषिताः
रमयन्ति मनःकान्ता विमाने सूर्यसन्निभे
सर्वकामगमे दिव्ये कल्पायुतशतं समाः
एकोनत्रिंशदिवसे यः क्षिपेदेकभोजनम्
सदा द्वादशमासांस्तु सत्यव्रतपरायणः
तस्य लोकाश्शुभा दिव्या देवराजर्षिपूजिताः
विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति
जातरूपं सुनिर्युक्तं सर्वरत्नविभूषितम्
अप्सरोगणसङ्कीर्णं गन्धर्वैरभिनादितम्
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः
भोगवांस्तेजसा भाति वैश्वानरसमप्रभः
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा
रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति
यस्तु मासे गते भुङ्क्ते एकभक्तं समाहितः
सदा द्वादश मासान्वै ब्रह्मलोकमगतिर्भवेत्
सुधामृतकृताहारश्श्रीमान्सर्वमनोहरः
सुखैरभिरतो योगी योगीष निरतो भृशम्
रुद्रदेवर्षिकन्याभिस्सुमनोभिरुपासितः
विमाने न गराकारे सूर्यवत्सूर्यसन्निभे
यावद्वर्षसहस्रं तु जम्बूद्वीपे भविष्यति
तावद्ब्रह्मादिका लोका वर्षधाराप्रमाणतः
यावत्संवत्सराः प्रोक्ता ब्रह्मलोकेऽस्य धीमतः
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्स्थलात्
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः
वर्षोपवासैर्वर्पैस्तु तावद्भिस्स्वर्गमश्नुते
महर्षित्वमिहासाद्य सशरीरगतिर्भवेत्
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरस्तथा
जुह्वन्नग्नींस्तु नियतस्सन्ध्योपासनसेविता
बहुभिर्नियमैरेव मासादश्नाति यो नरः
अत्युपवासशीलस्य तस्य वासो निरुच्यते
दिवं गत्वा शरीरेण स्वेन राजन्यथाऽमरः
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा
उपवासमिमं कृत्वा गच्छेच्च परमां गतिम्
देवद्विजातिपूजायां रक्तो भवति सन्ततम्
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु
दम्भदोषनिवृत्तेषु कृतबुद्धिष्वनाशिषु
अचलेष्वविकम्प्येषु मा ते भूदत्र संशयः