युधिष्ठिरः-
कथं ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ
कनिष्ठाश्च यथा ज्येष्ठे वर्तन्ते तद्ब्रवीहि मे
भीष्मः-
ज्येष्ठवत्तात वर्तस्व ज्येष्ठोऽसि हि तथा भवान्
गुरोर्गरीयसी वृत्तिर्या च चेच्छिष्यस्य भारत
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम्
गुरौ हि सदृशी वृत्तिर्यथा शिष्यस्य भारत
अन्धस्स्यादन्धवेलायां जडस्स्यादपि वा बुधः
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः
प्रत्यक्षं भिन्नहृदया भेदयेयुर्यथाऽहिताः
श्रियाऽभितप्तास्तद्भेदान्नभिन्नास्स्युस्समाहिताः
श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथाऽरयः
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः
हन्ति सर्वमपि ज्येष्ठः प्रायो दुर्विनयादिह
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसि
अज्येष्ठस्स्यादभागश्च नियम्यो राजभिश्च सः
निकृतीभिर्नरो लोकान्पापान्गच्छत्यसंशयम्
विफलं तस्य पुत्रत्वं मोघं जनयितुस्स्मृतम्
पित्रोरनर्थाय कुले जायते पापपूरुषः
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः
ज्येष्ठोऽपि दुर्विनीतस्तु कनिष्ठस्तु विशेषतः
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत वेतनम्
अनुजस्य पितुर्दायो जङ्घाश्रमफलोऽध्वगः
स्वयमीहेत लब्धं तु नाकामो दातुमर्हति
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह
न पुत्रभागं विषमं विभजेद्वा कथञ्चन
तज्ज्येष्ठो नावमन्तव्यो दुष्कृतस्सुकृतोऽपि वा
गुरूणामपराधो हि शक्यः क्षन्तव्य एव च
यदि स्त्री यद्यवरज श्रेयः पश्येत्तदाचरेत्
धर्मार्थौ श्रेय इत्याहुस्त्रयोर्ज्ञाता विधायकाः
समे तु ज्येष्ठतन्त्रास्स्युः किञ्चिदूनेऽपि नित्यशः
उपाध्यायाद्दशाचार्यं आचार्यात्तु पिता दश
दश चैव पितुर्माता सर्वां वा पृथिवीमपि
गौरवेणाभिभवति नास्ति मातृसमो गुरुः
माता गरीयसी यच्च तेनैतां मन्यते गुरुम्
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत
स चैषां वृत्तिदाता स्यात्स चैतान्परिपालयेत्
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः
तमेव चोपजीवेरन्यथैव पितरं तथा
शरीरमेतौ सृजतः पिता मता च भारत
आचार्यशिष्टा या जातिस्सा दिव्या साऽजराऽमरा
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ
भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत्