युधिष्ठिरः-
शतायुरुक्तः पुरुषश्शतवीर्यश्च वैदिके
कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह
आयुष्मान्केन भवति स्वल्पायुर्वाऽपि मानवः
केन वा लभते कीर्तिं केन वा लभते श्रियम्
तपसा ब्रह्मचर्येण जपैर्होमैस्तथा परैः
जन्मना यदि वाऽचारात्तन्मे ब्रूहि पितामह
भीष्मः-
अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि
अल्पायुर्येन भवति दीर्घायुर्येन मानवः
येथैव लभते कीर्तिं यथैव लभते श्रियम्
यथा च वर्तयन्पुरुषश्श्रेयसा सम्प्रयुज्यते
आचाराल्लभते चायुराचाराल्लभते श्रियम्
आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च
दुराचारो हि पुरुषो नेहायुर्विन्दते महत्
त्रसन्ति चास्य भूतानि तथा परिभवन्ति च
तस्मात्कुर्यादिहाचारं यदीच्छेद्भूतिमात्मनः
अपि पापशरीरस्य ह्याचारो हन्त्यलक्षणम्
आचारलक्षणो धर्मस्सन्तश्चारलक्षणाः
साधूनां च यथावृत्तमेतदाचारलक्षणम्
अप्यदृष्टं श्रुतं वाऽपि पुरुषं धर्मचारिणम्
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम्
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः
अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः
दुश्शीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः
अल्पायुषो भवन्तीह नरा निरयगामिनः
सर्वलक्षणहीनोऽपि समुदाचारवान्नरः
श्रद्दधानोऽनसूयुश्च शतं वर्षाणि जीवति
अक्रोधनस्सत्यवादी भूतानामप्यहिंसकः
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः
नित्योच्छिष्टस्सूचकश्च नेहायुर्विन्दते महत्
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत्
उत्थाय चोपतिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः
एवमेव परां सन्ध्यां समुपासीत वाग्यतः
नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन
ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन्
सदर्भपाणिस्तत्कुर्वन्वाग्यतस्तन्मनाश्शुचिः
तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः
ये न पूर्वामुपासन्ते द्विजाः सन्ध्यां न पश्चिमाम्
सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत्
परदारा न गन्तव्यास्सर्ववर्णेषु कर्हिचित्
नहीदृशमनायुष्यं लोके किञ्चन विद्यते
यादृशं पुरुषस्येह परदारोपसेवनम्
तादृशं पुरुष्यस्येह धननायुष्यहरं नृणाम्
मैत्रं प्रसाधनं स्नानमञ्जनं दन्तधावनम्
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम्
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कथञ्चन
उदक्यया च सम्भाषां न कुर्वीत कदाचन
नोत्सृजेत पुरीषं च क्षेत्रे मार्गस्य चान्तिके
उभे मूत्रपुरीषे तु नाप्सु कुर्याद्विचक्षणः
देवालयेऽथ गोबृन्दे चैत्ये सस्येषु विश्रमे
भक्षयन्भुक्त्वा क्षुतेऽध्वानं गत्वा मूत्रपरीषयोः
द्विराचामेद्यथान्यायं हृद्गतं तु पिबन्नपः
प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन्
प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत्
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः
धन्यं पश्चान्मुखो भुङ्क्ते मदं भुङ्क्त उदङ्मुखः
अग्रासनो जितक्रोधो बालपूर्वस्त्वलङ्कृतः
घृताहुति विशुद्धान्नं हुताग्निश्च क्षिपन्ग्रसेत्
नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालकान्
अन्यस्य चाप्यवस्नातं दूरतः परिवर्जयेत्
शान्तिहोमं तु कुर्वीत पवित्राणि च कारयेत्
निषण्णश्चापि खादेत न तु गच्छन्कथञ्चन
मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे
आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम्
त्रीणि तेजांसि नोच्छिष्ट आलभेत कथञ्चन
अग्निं गां ब्राह्मणं चैव तथा स्वायुर्नरिष्यति
त्रीणि ज्योतींषि नोच्छिष्ट उदीक्षेत कदाचन
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः
ऊर्ध्वं प्राणा व्युत्क्रमन्ति यूनस्स्थविर आगते
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते
अभिवादयेच्च वृद्धानातासनं चैव दापयेत्
कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात्
न चासीतासने भिन्ने भिन्नकांस्यं च वर्जयेत्
नैकवस्त्रेण भोक्तव्यं न नग्नस्स्नातुमर्हति
स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत्
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः
केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत्
न पाणिभ्यामुभाभ्यां च कण्डूयेदज्जातु वै शिरः
न चाभीक्ष्णं शिरस्स्नायादायुस्तस्य न रिष्यते
शिरोभ्यक्तेन तैलेन नाङ्गं किञ्चिदुपस्पृशेत्
तिलपिष्टं न चाश्नीयाद्गतसर्वरसं तथा
नाध्यापयेतचोच्छिष्टो नाधीयीत कथञ्चन
वाते च पूतिगन्धे च मनसा च न चिन्तयेत्
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः
यमः-
आयुरस्य निकृन्तामि प्रज्ञामस्याददेऽथ वा
य उच्छिष्टः प्रवदति स्वाध्यायं वाऽधिगच्छति
यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः
भीष्मः-
तस्माद्युक्तो ह्यनध्याये नाधीयीत कदाचन
प्रत्यादित्यं प्रत्यनलं प्रतिगां प्रति च द्विजान्
मेहयन्ति च पन्थानं ते भवन्ति गतायुषः
उभे मूत्रपुरीषे वै दिवा कुर्यादुदङ्मुखः
दक्षिणाभिमुखो रात्रौ तदाऽस्यायुनरिष्यति
त्रीन्सदा नावजानीयाद्दीर्घमायुर्जिजीविषुः
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः
दहत्याशीविषः क्रुद्धो यावत्स्पृशति चक्षुषा
क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा
ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च
तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः
गुरुणा वैरनिर्बन्धो न कर्तव्यः कथञ्चन
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर
सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः
दूरादावसथान्मूत्रं दूरात्पादावसेचनम्
उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा
नातिसायं नातिकल्यं न च मध्यन्दिने स्थिते
नाज्ञातैस्सह गच्छेत नैको न वृषलैस्सह
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च
वृद्धाय भारश्रान्ताय गार्भिण्यै दुर्बलाय च
प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन्
चतुष्पथान्मङ्गलांश्च मान्यान्वृद्धान्द्विजानपि
मध्यन्दिने निशाकाले मध्यरात्रे च सर्वदा
चतुष्पथान्न सेवेत उभे सन्ध्ये तथैव च
उपानहौ च छत्रं च धृतमन्यैर्न धारयेत्
ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत्
अमायां पौर्णमास्यां च चतुर्दश्याण च जन्मनि
अष्टम्यामथ द्वादश्यां ब्रह्मचारी सदा भवेत्
वृथा मांसं न खादेत पृष्ठमांसं तथैव च
अक्रोशं परिवादं च पैशुन्यं च विवर्जयेत्
नारुन्तुदस्स्यान्न नृशं सववादी न हीनतो धनमभ्याददीत
ययाऽस्य वाचा पर उद्विजेत न तां वदेदद्रुशतीं पापलोक्याम्
अतिवादबाणा मुखतो निस्सरन्ति यैराहतश्शोचति रात्र्यहानि
परस्य वा मर्मसु ये पतन्ति तान्पण्डितो नावसृजेत्परेषु
संरोहत्याग्निना दग्धं वनं परशुना क्षतम्
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्
हीनाङ्गानतिक्ताङ्गान्विद्याहीनान्वयोधिकान्
रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत्
नास्तिक्यं वेदानिन्दां च परनिन्दां च कुत्सनम्
द्वेषस्तभ्भातिमानांश्च तैक्ष्ण्यं च परिवर्जयेत्
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैव निपातयेत्
अन्यत्र पुत्राच्छिष्याच्च शिक्षार्थं ताडनं स्मृतम्
न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत्
तिथीन्परस्य न ब्रूयात्तस्य चायुर्नरिष्यति
अमावास्यामृते नित्यं दन्तधावनमाचरेत्
इतिहासपुराणानि दानं वेदं च नित्यशः
गायत्रीमननं नित्यं कुर्यात्सन्ध्यां समाहितः
कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः
पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते
यावकं कृसरं मांसं शष्कुलीं पायसं तथा
आत्मार्थं न प्रकर्तव्यं देवतार्थं प्रकल्पयेत्
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च भिक्षितः
दन्तकाष्ठे च सन्ध्यायां मलोत्सर्गे च मौनगः
न सन्ध्यायां स्वपेन्नित्यं स्नायाच्छुद्धस्सदा भवेत्
प्रातःपितरमुत्थाय पूर्वमेवाभिवादयेत्
आचार्यमथ विप्रांश्च तथाऽऽयुर्विन्दते महत्
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः
भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत्
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः
अकृत्वा देवतापूजां नान्यं गच्छेत्कथञ्चन
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम्
अवलोक्यो न चादर्शो मलिनो बिद्धिमत्तरैः
न चाज्ञातां स्त्रियं गच्छेद्गर्णिणीं वा कदाचन
दारसङ्ग्रहणात्पूर्वं नाचरेन्मैथुनं बुधः
अन्यथा त्ववकीर्णस्स्यात्प्राश्चित्तं समाचरेत्
नदीक्षैत्परदारांश्च रहस्येकासनो भवेत्
इन्द्रियाणि सदा यच्छत्स्वप्ने शुद्धमना भवेत्
उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा नरः
प्राक्शिरास्तु स्वपेद्विद्वांस्तथा वै दक्षिणाशिराः
न भग्ने वा न शीर्णे वा शयने प्रस्वपीत ह
तिर्यङ्न च शयेन्नित्यं नान्तर्धानेन संयुतः
न निशायां पुनस्स्नायादापद्यग्निद्विजान्तिके
रक्तमाल्यं न धार्यं च शुक्लं धार्यं तु पण्डितैः
वर्जयित्वा तु कमलं तथा कुवलयं विभो
रक्तं शिरसि धार्यं तु तथा नाघ्रेयमित्यपि
काञ्चनी चाऽपि माला या न सा दुष्यति कर्हिचित्
स्नाने निर्माल्यकं वर्जेत् स्नात्वा नाङ्गानि मार्जयेत्
न चानुलिम्पेदस्नात्वा वासश्चापि न निर्धुनेत्
आर्द्र एव तु वासांसि नित्यं सेवेत मानवः
स्रजश्च नापकर्षेत न बहुर्धारयेत च
स्नातस्तु वर्णकं नित्यमार्द्रं दद्याद्विशां पते
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः
तथा नान्यधृतं ग्राह्यं न चातिविकृतं तथा
अन्यदेव भवेद्वासश्शयनीये नरोत्तम
अन्यद्रथ्यासु देवानामर्चायामन्यदेव तु
प्रियङ्गुचन्दनाभ्यां च बिल्वेन स्थगरेण च
पृथगेवानुलिम्पेत केसरेण च बुद्धिमान्
उपवासं च कुर्वीत स्नातश्शुचिरलङ्कृतः
नोपवासं वृथा कुर्याद्धनं नापहरेदिह
नावलीढमवज्ञातमाघ्रातं भक्षयेदपि
तथा नोद्धृतसाराणि प्रेक्षतामप्रदाय च
नासन्निविष्टो मेधावी नाशुचिर्न च सत्सु च
प्रतिषिद्धं न धर्मेषु भक्ष्यं भुञ्जीत पृष्ठतः
पिप्पलं च वटं चैव शणशाकं तथैव च
उदुम्बरं न खादेच्च भव्यार्थी पुरुषो नृप
आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत्
वर्जयेच्छुष्कमांसानि तथा पर्युषितं च यत्
न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु
दधिसक्तु न दोषायां पिबेन्मधु च नित्यशः
बालेन तु न भुञ्जीत द्विषदन्नं च सर्वशः
सायं प्रातस्तु भुञ्जीत न तु भूमौ कदाचन
वाग्यतो नैकवस्त्रश्च मासंविष्टः कदाचन
भूमौ सदैव नाश्नीयान्नाशौचं न च शब्दवत्
तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते
पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः
समानमेकपङ्क्त्यां तु भुज्यमानं नरेश्वर
विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने
पानीयं पायसं सर्पिः दधि सक्तुमधून्यपि
निरस्य शेषमन्येषां न प्रदेयं तु कस्यचित्
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत्
अधिगम्योदपानं तु न कर्तव्यं भवार्थिना
आचम्य चैकहस्तेन परिस्राव्य तथोदकम्
अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत्
पाणिं मूर्ध्नि समानाप्य स्पृष्ट्वा चाग्निं समाहितः
ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः
अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च
स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रदक्षते
कनिष्ठिकायाः पश्चात्तु दैवतीर्थमिहोच्यते
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत
तेन पित्र्याणि कुर्वीत स्पृष्ट्वाऽऽपो न्यायतस्स्तथा
परापवादं न ब्रूयान्नाप्रियं च कदाचन
न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना
पतितैश्च कथां नेच्छेद्दर्शनं चापि वर्जयेत्
संसर्गं च न गच्छेत तथाऽऽयुर्विन्दते महत्
न दिवा मैथुनं गच्छेन्न कन्यां न च वर्धकीम्
न चास्नातां स्त्रियं गच्छेत्तथाऽऽयुर्विन्दते महत्
स्वे स्वे तीर्थे तथाऽऽचम्य काले समुपकल्पिते
त्रिः पीत्वा द्विः प्रमृज्यापः कृतशौचो भवेन्नरः
इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः
कुर्वीत पितृदैवं च वेददृष्टेन कर्मणा
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव
प्रवृत्तं चाहितं चोक्त्वा बहुभोजनवत्तदा
सर्वशौचेन ब्राह्मेण तीर्थेन समुपस्पृशेत्
निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत्
निष्ठीवने मैथुने च क्षुते कक्ष्याविमोचने
उदक्यादर्शने तद्वन्नग्नस्याचमनं स्मृतम्
स्पृशेत्कर्णं सप्रणवं सूर्यमीक्षेत्सदा तदा
वृद्धो ज्ञातिस्तथा मित्रमनाथा च स्वसा गुरुः
कुलीनः पण्डित इति रक्ष्या निस्स्वास्स्वशक्तितः
गृहे वासयितव्यास्ते धन्यमायुष्यमेव च
गृहे पारावता धार्याश्शुकाश्च सहशारिकाः
देवता प्रतिमाऽऽदर्शश्चन्दनाः पुष्पवल्लिकाः
शुद्धं जलं सुवर्णं च रजतं गृहमङ्गलम्
गृहेषु च तथा पापा निविष्टास्तैलपायिकाः
उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा
निविशेयुर्यदा तत्र शान्तिहोमं समाचरेत्
अमङ्गल्यस्सतां शापस्तथाऽऽक्रोशो महात्मनाम्
महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित्
अगम्याश्च न गच्छेत राजपत्नीस्सखीस्तथा
वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर
बन्धूनां ब्राह्मणानां च तथा नागरिकस्य च
सम्बन्धिनां च राजेन्द्र तथाऽऽयुर्विन्दते महत्
ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम्
समावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर
सन्ध्यायां न स्वपेद्राजन्विद्यां च न समाचरेत्
न भुञ्जीत च मेधावी तथाऽऽयुर्विन्दते महत्
नक्तं न कुर्यात्पित्र्याणि नक्तं चैव प्रसाधनम्
पानीयस्य क्रिया नक्तं न कुर्याद्भूतिमिच्छता
वर्जनीयाश्च ते नित्यं सक्तवो निशि भारत
शेषाणि चावदातानि पानीयं चैव भोजने
सौहित्यं न च कर्तव्यं रात्रौ नैव समाचरेत्
न भुक्त्वा मैथुनं गच्छेन्न धावेन्नातिहासकम्
द्विजच्छेदं न कुर्तव्यं भुक्त्वा सह समाचरेत्
महाकुलप्रसूतां च समस्तैर्लक्षणैर्युताम्
वयसाऽवरां सुनक्षत्रां कन्यामुद्वोढुमर्हति
अपत्यमुत्पाद्य ततः प्रतिष्ठाप्यकुलस्तथा
पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत
कन्याश्चोत्पाद्य दातव्याः कुलपुत्राय धीमते
पुत्रा निवेश्यास्स्वकुले भृत्या लभ्याश्च भारत
शिरस्स्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च
तैलाभ्यञ्जनमष्टम्यां चतुर्दश्यां च पर्वसु
नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः
न प्रोष्ठपदयोः कार्यं तथाऽऽग्नेये च भारत
दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत्
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत्
प्राङ्मुखश्श्मश्रुकर्माणि कारयेत समाहितः
उदङ्मुखो वा राजेन्द्र तथाऽऽयुर्विन्दते महत्
सामुद्रेणाम्भसा स्नानं क्षौरं श्राद्धेषु भोजनम्
अन्तर्वत्नीपतिः कुर्वन्न पुत्रफलमश्नुते
सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः
परिवादं च न ब्रूयात्परेषामात्मनस्सदा
परिवादो न धर्माय प्रोच्यते भरतर्षभ
वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम
समार्षां व्यङ्गिकां चैव मातुस्स्वकुलजां तथा
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम्
तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत्
अयोनिं च वियोनिं च न गच्छेत विचक्षणः
पिङ्गलां कुष्ठिकां नारीं न त्वमुद्वोढुमर्हति
अपस्मारकुले जातां निहीनां चापि वर्जयेत्
श्वित्र्याणां च कुले जातां त्रयाणां मनुजेश्वर
लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः
मनोज्ञा दर्शनीया च स तां वोद्धोढुमर्हति
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर
अवरा पतिना चैव न ग्राह्या भूतिमिच्छता
अग्नीनुत्पाद्य यत्नेन क्रियास्सुविहिताश्च याः
वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाश्च सङ्ग्रहेत्
न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः
अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत्
अनायुष्यो दिवा स्वप्नस्तथाऽभ्युदितशायिता
प्रातर्निशायां च तथा ये चोच्छिष्टा भवन्ति च
पारदार्यमनायुष्यमपि चोच्छिष्टता तथा
यत्नतो नैव कर्तव्यमत्याशश्चैव भारत
सन्ध्यां न भुञ्ज्यान्न स्नायान्न पुरीषं समुत्सृजेत्
प्रयतस्तु भवेत्तासु न किञ्चित्समुदाचरेत्
ब्राह्मणान्पूजयेद्गच्छेत्तथा स्नात्वा नराधिप
देवांश्च प्रणमेत्स्नात्वा गुरूंश्चाप्यभिवादयेत्
अामन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः
अामन्त्रितस्यानायुष्यं गमनं तत्र भारत
न चैकेन पथि व्राज्यं न चैकेन पथा निशि
नानापदि परस्यान्नमनिमन्त्रितमाहरेत्
एकोद्दिष्टं न भुञ्जीत प्रथमं तु विशेषतः
सपिण्डीकरणं वर्ज्यं सविधानं च मासिकम्
अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत्
मातुः पितुश्च पुत्राणां कार्यमेवानुशासनम्
हितं चाप्यहितं चापि न विचार्यं नरश्वर
क्षत्रियस्तु विशेषेण धनुर्वेदं समभ्यसेत्
धनुर्वेदे च वेदे च यत्नः कार्यो नरेश्वर
हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह
यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते
अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च
प्रजापालनयुक्तश्च नारतिं लभते क्वचित्
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत
गान्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप
पुराणमितिहासाश्च तथाऽऽख्यानानि यानि च
महात्मनां च चरितं श्रोतव्यं नित्यमेव ते
मान्यानां माननं कुर्यान्निन्द्यानां निन्दनं तथा
गोब्राह्मणार्थे युध्येत प्राणानपि परित्यजेत्
न स्त्रीषु सज्जेद्द्रष्टव्यं शक्त्या दानरुचिर्भवेत्
न ब्राह्मणान्परिभवेत्कार्पण्यं ब्राह्मणैर्वृतम्
पतितान्नाभिभाषेत नाह्वयेत रजस्वलाम्
पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत्
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत्
आषोडशादृतुर्मुख्यः पुत्रजन्मनि शब्दितः
एतेन विधिना पत्नीमुपगच्छेत पण्डितः
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि नित्यशः
यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः
अत ऊर्ध्वमरण्यं च सेवितव्यं हि नित्यशः
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर
आचारो भूतिजनन आचारः कीर्तिवर्धनः
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम्
आगमानां हि सर्वेषामाचारश्श्रेष्ठ उच्यते
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते
एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
अनुकम्प्य सर्ववर्णे ब्राह्मणा समुदाहृतम्
य श्मं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्
स शुभान्प्राप्नुते लोकान्सदाचारवृरतान्नृप