युधिष्ठिरः-
दानं बहुविधाकारं शान्तिस्सत्यमहिंसितम्
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चापि यत्
पितामहस्य विदितं किमन्यत्र तपोबलात्
तपसो यत्परं त्वद्य तन्मे व्याख्यातुमर्हसि
भीष्मः-
तपसः प्रक्षयो यावत्तावल्लोको युधिष्ठिर
मतं ममा तु कौन्तेय तपो नानशनात्परम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः
अतीत्यासुरलोकं च गवां लोकं च भारत
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतम्
तं दृष्ट्वा तु वचः प्राह ब्रह्मा राजन्भगीरथम्
ब्रह्माः-
कथं भगीरथाऽऽगास्त्वमिमं देशं दुरासदम्
न हि देवा न गन्धर्वा न मनुष्या भगीरथ
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः
भगीरथः-
निश्शङ्कमन्नमददां ब्राह्मणोभ्यश्शतं सहस्राणि सदैवतानाम्
ब्राह्मन्व्रतं नित्यमास्थाय विद्धि न त्वेवाहं तस्य फलादिहागतः
दशैकरात्रान्दशपञ्चरात्रानेकादशैकादशकांस्तथैव
ज्योतिष्टोमानां च शतं यदिष्टवान्फलेन तेनापि च चागतोऽहम्
यच्चावसं जाह्नवीतीरनित्यश्शतं समास्तप्यमानस्तपोऽहम्
अदां च तत्राश्वतरीसहस्रं गाः कन्यका न च तेनागतोऽहम्
दशायुतानि चाश्वानामयुतानि च विंशतिम्
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः
सुवर्णचन्द्रोडुपधारिणीनां कन्योत्तमानामददां स्त्रग्विणीनाम्
षष्टिं सहस्राणि च भूषितानां जाम्बूनदैराभरणैर्न तेन
दशार्बुदान्यददं गोसवेज्यास्त्वेकैकशो गा दश लोकनाथ
समानवत्साः पयसा समन्वितास्सुवर्णकांस्योपदुहा न तेन
आप्तोर्यामेषु सततमेकैकस्मिन्दशाददम्
गृष्टीनां क्षीरदोग्ध्रीणां रोहिणीनां शतानि च
सुदोग्ध्रीणां गवां चैव प्रयुतानि दशैव तु
प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः
वाजिनां बाह्लिजातानामयुतानामदां दश
पीतानां हेममालानां न च तेनाहमागतः
कोटीश्च गाश्चतस्रोऽष्टौ प्रादां ब्रह्मन्दशात्वहम्
एकैकस्मिन्क्रतौ तेन फलेनापि न चागतः
वाजिनां श्यामवर्णानां हरितानां पितामह
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च
ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान्
पद्मिनो वै सहस्राणि प्रायच्छं दश सप्त च
अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश
सप्त चान्यानि युक्तानि वाजिभिस्समलङ्कृतैः
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः
वाजपेयेषु दशसु प्रादां तेन न चाप्यहम्
शक्रतुल्यप्रभावाणामिज्यया विक्रमेण च
सहस्रं निष्ककण्ठानामददं दक्षिणामहम्
विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते
वरं ग्रामशतं चाहमेकैकस्यां तिथावदाम्
तपस्वी नियताहारश्शममास्थाय वाग्यतः
दीर्घकालं हिमवति गङ्गार्थमचरं तपः
मूर्ध्ना हरं महादेवं प्रणम्याभ्यर्चयन्नृपः
न तेनाप्यहमागच्छं फलेनेह पितामह
शम्याक्षेपैरयजं यच्च देवाञ्शतैः क्रतूनामयुतैश्चापि यच्च
त्रयोदशद्वादशाहैश्च देव सपौण्डरीकैर्न च तेषां फलेन
अष्टौ सहस्राणि ककुद्मिनामहं शुक्लर्षभाणामददं ब्राह्मणेभ्यः
एकैकं वा काञ्चनं शृङ्गमेभ्यः पत्नीश्चैषामददं निष्ककण्ठीः
हिरण्यरत्नरचितानददं रत्नपर्वतान्
धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः
शतं शतानां षष्टीनामददं चाप्यतन्द्रितः
इष्ट्वाऽनेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च
एकादशाहैरयजं सदक्षिणैर्द्वाशाहैरश्वमेधैश्च देवान्
गवां धनैष्षोडशभिश्च ब्रह्मंस्तेषां फलेनेह न चागतोऽस्मि
निष्कैककण्ठीमददं गां जनाय तथा विस्तीर्णं काञ्चनपादपानाम्
वनं चूतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन
तुरायणं हि व्रतमप्यधृष्यमक्रोधनोऽकरवं त्रिंशदब्दान्
शतं गवामष्टशतानि चैव दिने दिने ह्यददं ब्राह्मणेभ्यः
पयस्विनीनामथ रोहिणीनां तथैव चाप्यनहुहां लोकनाथ
प्रादां नित्यं ब्राह्मणेभ्यः पुराऽथ नेहागतस्तेन फलेन चाहम्
शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं यजन्
त्रिंशदग्नीनहं ब्रह्मन्नयजं यच्च नित्यदा
अष्टाभिस्सर्वमेधैश्च नृमेधैर्द्विगुणैस्तथा
दशभिश्चाश्वमेधैश्च स्तोभैरष्टादशोत्तरैः
न चैव तेषां देवेश फलेनाहमिहागतः
सरय्वां बाहुदायां च गङ्गायामथ नैमिशे
गवां शतानामयुतमददं न च तेन वै
इन्द्रेण गुह्यं निहितं गुहायां यद्भवता तपसा न ह्यविन्दत
जाज्वल्यमानमुशनस्तेजसैव तत्साधयामास महद्वरेण्यम्
ब्राह्मणार्थाय कर्माणि रणं चैव करोमि यत्
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते
पूजितैर्ब्राह्मणैर्नित्यं न च तेनाहमागतः
सहस्रमृषयश्चासन्सत्रे तत्र समागताः
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो
प्रीतेनोक्तस्सहस्रेण ब्राह्मणानामहं प्रभो
इमं लोकमनुप्राप्तो मा भूत्तत्र विचारणा
कामं यथावद्विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत्
तपो हि नान्यच्चानशनान्मतं मे नमोस्तु ते देववर प्रसीद
भीष्मः-
इत्युक्तवन्तं ब्रह्मा तु राजानं स भगीरथम्
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा
तस्मादनशनैर्युक्तो विप्रान्पूजय नित्यदा
विप्राणां वचनात्सर्वं परत्रेह च सिध्यति
वासोभिरन्नैर्गोभिश्च शुभैर्नैवेशिकैरपि
शुभैस्सुरक्षणैश्चापि स्तोष्या एव द्विजास्त्वथा
एतदेव परं गुह्यमलोभेन समाचर