युधिष्ठिरः-
एको लोकस्सुकृतिनां स्वर्गे लोके पितामह
उत तत्रापि नानात्वं सर्वं ब्रूहि पितामह
भीष्मः-
कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गौतमस्य मुनेस्तात संवादं वै शतक्रतोः
गौतमो ब्राह्मणः कश्चिन्मृदुर्दान्तो जितेन्द्रियः
महावने हस्तिशिशुं परिद्यूनममातृकम्
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः
सोऽथ दीर्घेण कालेन बभूवातिबलो महान्
तं प्रभिन्नं महादीर्घं प्रसूतं सर्वतो मदम्
धृतराष्ट्रस्वरूपेण शक्रो जग्राह हस्तिनम्
ह्रियमाणं तु तं दृष्ट्वा गौतमस्संशितव्रतः
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः
गौतमः-
मा मा हार्षीर्हस्तिनं पुत्रमेनं दुःखात्पुष्टं धृतराष्ट्रः कृतज्ञः
मैत्रं सतां सप्तपदं वदन्ति मित्रद्रोहो नेह राजन्स्पृशेत्त्वाम्
इध्मोदकप्रदातारं शून्यपालकमाश्रमे
विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम
त्वं मे विक्रोशतो राजन्हर्तुं नार्हसि कुञ्जरम्
धृतराष्ट्रः-
गवां सहस्रं भवतो ददानि शतानि निष्कस्य ददानि पञ्च
अन्यच्च वित्तं विधिवन्महर्षे किं ब्राह्मणस्येह गजेन कृत्यम्
गौतमः-
त्वामेव गावो विविधा भजन्तु दास्यश्च निष्का विविधं च रत्नम्
अन्यच्च वित्तं विविधं नरेन्द्र किं ब्राह्मणस्येह धनेन कृत्यम्
धृतराष्ट्रः-
ब्राह्मणानां हस्तिनां नास्ति कृत्यं राजन्यानां हस्तिकुलानि विप्र
स्ववाहनं नयतो नास्त्यधर्मो नागश्रेष्ठाद्गौतमास्मान्निवर्त
गौतमः-
यत्र प्रेतो नन्दति पुण्यकर्मा यत्र प्रेतश्शोचते पापकर्मा
वैवस्वतस्य सदने महात्मनस्तत्र त्वाऽहं हस्तिनं यातयिष्ये
धृतराष्ट्रः-
ये नास्तिका निष्क्रियाश्श्रद्धधानाः पापात्माश्चेन्द्रियार्थे निसृष्टाः
यमस्य ते यातनां प्राप्नुवन्ति परं गन्ता धृतराष्ट्रो न तत्र
गौतमः-
वैवस्वती संयमनं च नाम यत्रानृतं प्रोच्यते यत्र सत्यम्
यत्राबलान्बलिनो घातयन्ति तत्र त्वाऽहं हस्तिनं यातयिष्ये
धृतराष्ट्रः-
ज्येष्ठां स्वसारं पितरं मातरं च गुरून्यथाऽमानयन्तश्चरन्ति
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र
गौतमः-
मन्दाकिनी वैश्रवणस्य राज्ञो महाभोगा भोगिनश्च प्रवेश्या
गन्धर्वयक्षैरप्सरोभिश्च जुष्टा तत्र त्वाऽहं हस्तिनं यातयिष्ये
धृतराष्ट्रः-
अतिथिव्रतास्सुव्रता ये जना वै प्रतिश्रयं ददति द्विजेभ्यः
शिष्टाशिनस्संविभज्याश्रितेभ्यो मन्दाकिनीं तेऽपि हि भूषयन्ति
गौतमः-
मेरौ नगे यद्वनं चातिरम्यं सुपुष्पितं किन्नरीगीतजुष्टम्
सुदर्शना यत्र जम्बूर्विशाला तत्र त्वाऽहं हस्तिनं यातयिष्ये
धृतराष्ट्रः-
ये ब्राह्मणा मृदवस्सत्यशीला बहुश्रुतास्सर्वभूताभिरामाः
येऽधीयते सेतिहासं पुराणं मध्वाहुत्या जुह्वति च द्विजेभ्यः
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र
यदन्यत्ते विविधं स्थानमस्ति तद्ब्रूहि त्वं त्वरितो ह्येष यामि
गौतमः-
सुपुष्पितं किन्नरराजजुष्टं प्रियं वनं नन्दनं नारदस्य
गन्धर्वाणामप्सरसां च सद्म तत्र त्वाऽहं हस्तिनं याचयिष्ये
धृतराष्ट्रः-
ये नृत्यगीते कुशला जनास्सदा देवात्मानः प्रियकामाश्चरन्ति
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र
गौतमः-
यत्रोत्तराः कुरवो भान्ति रम्या देवैस्सार्धं मोदमाना नरेन्द्र
यत्राग्नयो ये निवसन्ति विप्रा ह्ययोनयः पर्वतयोनयश्च
यतश्शक्रो वर्षति सर्वकामान्यत्र स्थिताः कामचाराश्चरन्ति
यत्र चेर्ष्या नास्ति नारीनराणां तत्र त्वाऽहं हस्तिनं यातयिष्ये
धृतराष्ट्रः-
ये सर्वभूतेषु निवृत्तकामा ह्यमांसादा न्यस्तदण्डाश्चरन्ति
न हिंसन्ति स्थावरजङ्गमानि भूतानां ये सर्वभूतात्मभूताः
निराशिषो निर्ममा वीतरागा लाभालाभे तुल्यनिन्दाप्रशंसाः
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र
गौतमः-
ततः परं भान्ति लोकास्सनातनाः सुपुण्यगन्धा निर्मला वीतशोकाः
सोमस्य राज्ञस्सदने महात्मनस्तत्र त्वाऽहं हस्तिनं याचयिष्ये
धृतराष्ट्रः-
ये दानशीला न प्रतिगृह्णन्ति नित्यं न चाप्यर्थानाहरन्ते परेषाम्
येषामदेयमर्हते नास्ति किञ्चित्सर्वातिथ्यास्सुप्रजता जनास्ते
ये क्षन्तारो नाभिजल्पन्ति चान्याञ्शक्ता भूत्वा सततं पुण्यशीलाः
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र
गौतमः-
ततः परं भान्ति लोकास्सनातना विराजस्का वितमस्का विशोकाः
आदित्यस्य सुराणामर्हयन्तो हि राजंस्तत्र त्वाऽहं हस्तिनं याचयिष्ये
धृतराष्ट्रः-
स्वाध्यायशीला गुरुशुश्रूषकाश्च तपस्विनस्सत्यसन्धा नरा ये
आचार्याणामप्रतिकूलभाषिणो नित्यं स्थितानां गुरुकर्मस्वचोद्याः
तथाविधानामेष लोको महर्षे विशुद्धानां भावितवाङ्मतीनाम्
सत्ये स्थितानां वेदविदां महात्मनां परं गन्ता धृतराष्ट्रो न तत्र
गौतमः-
ततः परं भान्ति लोकास्सनातनास्सुपुण्यगन्धा ह्यरजसो वीतशोकाः
वरुणस्य राज्ञस्सदने महात्मनस्तत्र त्वाऽहं हस्तिनं याचयिष्ये
धृतराष्ट्रः-
चातुर्मास्यैर्ये यजन्ते जनास्सदा तथेष्टीनां दशशतं प्राप्नुवन्ति
ये चाग्निहोत्रं जुह्वति श्रद्दधाना यथान्यायं त्रीणि वर्षाणि विप्राः
स्वदारगाणां धर्मकृतां महात्मनां यथोचिते वर्त्मनि सुस्थितानाम्
धर्मात्मनामुद्वहतां गतिं सदा परं गन्ता धृतराष्ट्रो न तत्र
गौतमः-
इन्द्रस्य लोका अमरा वीतशोका दुरत्ययाः काङ्क्षिता मानवानाम्
तत्राहं ते भवतो भूरितेजसा राजन्निमं हस्तिनं याचयिष्ये
धृतराष्ट्रः-
शतवर्षजीवी यश्च शूरो मनुष्यो वेदाध्यायी यश्च यज्वाऽप्रमत्तः
एते सर्वे शक्रलोकं भजन्ति परं गन्ता धृतराष्ट्रो न तत्र
गौतमः-
प्राजापत्यास्सन्ति लोका महान्तो नाकस्य पृष्ठे पुष्कला वीतशोकाः
मनीषिणां सर्वलोकाभयानां तत्र त्वाऽहं हस्तिनं याचयिष्ये
धृतराष्ट्रः-
ये राजानो राजसूयेऽभिषिक्ता धर्मात्मानो रक्षितारः प्रजानाम्
ये चाश्वमेधावभृथाप्लुताङ्गास्तेषां लोका धृतराष्ट्रो न तत्र
गौतमः-
ततः परं सन्ति लोकास्सनातनास्सुपुण्यगन्धा विरजाश्शोकमोहाः
तस्मिन्नहं दुर्लभे त्वप्रधृष्ये गवां लोके हस्तिनं यातयिष्ये
धृतराष्ट्रः-
यो गोसहस्री शतदो महात्मा यो गोशती दश दद्याच्च शक्त्या
तथा दशभ्यो यश्च दद्यादिहैकां पञ्चभ्यो वा दानशीलस्तथैकाम्
ये जीर्यन्ते ब्रह्मचर्येण विप्राः ब्राह्मीं वाचं परिरक्षन्ति चैव
मनस्विनस्तीर्थयात्रापरा ये ते तत्र मोदन्ति ततो विमानैः
प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः
पुण्यं च नैमिशं तीर्थं बाहुदां करतोयिनीम्
गयां हयशिरश्चैव विपाशां स्थूलवालुकाम्
कृष्णां गङ्गां वृद्धगङ्गां महाह्रदमथापि च
गोमतीं कौशिकीं पम्पां महात्मानो धृतव्रताः
सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च
तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराश्शिवाः
प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै
गौतमः-
यत्र शीतभयं नास्ति न चोष्णभयमण्वपि
क्षुत्पिपासे न च ग्लानिर्न दुःखं न सुखं तथा
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा
न जरामरणं तत्र न पुण्यं न च पातकम्
तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते
स्वयम्भुभवने पुण्ये हस्तिनं यातयिष्यति
धृतराष्ट्रः-
विमुक्तास्सर्वसङ्गैर्ये कृतात्मानो यतव्रताः
अध्यात्मयोगयुक्ता ये युक्तास्स्वर्गगतिं गताः
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्ति हि सात्त्विकाः
न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने
गौतमः-
रथन्तरं यत्र बृहच्च गीयते यत्र वेदिः पुण्यजनैर्वृता च
यत्रोपयाति हरिभिस्सोमपीथी तत्र त्वाऽहं हस्तिनं यातयिष्ये
बुध्यामि त्वां वृत्रहणमभिष्टुतं व्यतिक्रमन्तं भुवनानि विश्वा
कच्चिन्न वाचा वृजिनं कदाचिदकारिषं मनसोऽभिषङ्गात्
शक्रः-
यस्मादिमं लोकपथं प्रजानामन्वागमं पदवादे गजस्य
तस्माद्भवान्प्रणतं माऽनुशास्तु ब्रवीषि यत्करवाणीह सर्वम्
गौतमः-
श्वेतं करेणुं मम पुत्रं तु नागं प्रियं तु मे षष्टिवर्षं च बालम्
यो मे वने वसतोऽभूद्द्वितीयस्तमेव मे देहि सुरेन्द्र नागम्
शक्रः-
अयं सुतस्ते द्विजमुख्यनागश्चाघ्रायते त्वामभिवीक्षमाणः
पादौ च ते नासिकयोपजिघ्रते श्रेयो मम ध्याहि नमश्च तेऽस्तु
गौतमः-
शिवं सदैवेह सुरेन्द्र तुभ्यं ध्यायामि पूजां च सदा प्रयुञ्जे
ममापि त्वं शक्र शिवं ददस्व त्वया दत्तं प्रतिगृह्णामि नागम्
शक्रः-
येषां वेदा निहिता वै गुहायां मनीषिणां सत्त्ववतां महात्मनाम्
तेषां त्वयैकेन महात्मनाऽस्मि बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य
हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना
प्राप्नुहि त्वं शुभाल्ँलोकानह्नाय च चिराय च
भीष्मः-
स गौतमं पुरुस्कृत्य सह पुत्रेण हस्तिना
दिवमाचक्रमे वज्री सद्भिस्सह दुरासदम्