युधिष्ठिरः-
ब्राह्मणस्वं हि ये मन्दा हरन्ति भरतर्षभ
नृशंसकारिणो योनिं कां ते गच्छन्ति मानवाः
भीष्मः-
पातकानां परं ह्येतद्ब्रह्मस्वहरणं बलात्
सान्वयास्ते विनश्यन्ति चण्डालाः प्रेत्य चेह च
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत
राजा-
वृद्धरूपोऽसि चण्डाल बालवत्त्वं विचेष्टसे
श्वखराणां रजस्सेवी कस्मादुद्विजसे गवाम्
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते
कस्माद्गोरजसा ध्वस्तमङ्गं तोयेन सिञ्चसि
चण्डालः-
ब्राह्मणस्य गवां राजन्प्रयान्तीनां रजः पुरा
सोममुद्ध्वंसयामास तं सोममपिबन्द्विजाः
भृत्यानामपि राज्ञं तु रजसा ध्वंसितं मखे
तत्पानाच्च द्विजास्सर्वे क्षिप्रं नरकमाविशन्
दीक्षितश्च स राजाऽपि क्षिप्रं नरकमाविशत्
सह तैर्याजकैस्सर्वैर्ब्रह्मस्वमुपजीव्य तत्
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः
ब्राह्मणास्सहराजन्यास्सर्वे नरकमाविशन्
जघ्नुस्तत्पयसा पुत्रांस्तथा पौत्रान्विधूय तान्
पशूनवेक्षमाणानां साधुवृत्तेन दम्पती
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः
तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप
चण्डालो हि ततो राजन्भुक्त्वा तदभवं नृप
ब्रह्मस्वहारी न नृपस्सोऽप्रतिष्ठां गतिं ययौ
तस्माद्धरेन्न विप्रस्य कदाचिदपि किञ्चन
न पश्येन्नानुमोदेच्च न हर्तुं किञ्चिदाहरेत्
ब्रह्मणो रजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम्
ततस्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता
एतद्धि धनमुत्कृष्टं द्विजानामविशेषतः
विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः
ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः
इतो वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः
सोमं तु रजसा ध्वस्तं विक्रीणन्बुद्धिपूर्वकम्
श्रोत्रियो वार्धुषिभूत्वा चिररात्राय विनश्यति
नरकं त्रिंशतं प्राप्य स्वविष्ठामुपजीवति
ब्रह्मस्वहारी नरकान्यातनाश्चानुभूय तु
मलेषु च कृमिर्भूत्वा श्वविष्ठामुपजीवती
श्वचर्यामतिमानं च सखिदारेषु विप्लवम्
तुलयाऽधारयद्धर्मो ह्यतिमानोऽतिरिच्यते
म्लानं मां विकलं पश्य विवर्णं हरिणं कृशम्
अतिमानेन मां पश्य पापां गतिमुपागतम्
अहं वै विपुले तात कुले धनसमन्विते
पौराणे जन्मनि विभो ज्ञानविज्ञानपारगः
अभवं जानमानो हि दोषानेतानहं सदा
संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम्
सोऽहं वो विदितस्सर्वैर्दूरगो मलिनो वने
साधूनां परिभावेप्सुर्विप्राणां गर्वितो धनैः
इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम्
आदीपितमिवालातं भ्रमरैरिव चार्दितम्
धावमानं सुसंरब्ध पश्य मां रजसाऽन्वितम्
स्वाध्यायैस्तु महात्मानस्तरन्ति गृहमेधिनः
दानैः पृथग्विधैश्चापि विप्रजात्यां मनीषिणः
तथा पापकृतं विप्रमाश्रमस्थं महीपते
सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्ति तम्
अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ
निश्चयं नाधिगच्छामि कथं मुच्येयमापदः
जातिस्मरत्वं हि मम केन पूर्वेण कर्मणा
शुभने येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप
त्वं ममेह प्रपन्नस्य संशयं ब्रूहि पृच्छतः
चण्डालत्वात्कथमहं मुच्येयमिति सत्तम
राजा-
चण्डालवृत्तात्तप्तस्त्वं येन मोक्षमवाप्स्यसि
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुके
हित्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि
भीष्मः-
इत्युक्तस्स तदा राजन्ब्रह्मस्वार्थे परन्तप
हित्वा रणमुखे प्राणान्गतिमिष्टामवाप्तवान्
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ
यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम्