युधिष्ठिरः-
संस्कृतानां तटाकानां यत्फलं कुरुपुङ्गव
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ
भीष्मः-
सुप्रदर्शो धनपतिश्चित्रधातुविभूषितः
त्रिषु लोकेषु सर्वत्र पूजितो यस्तटाकवान्
इह चामुत्र सदनं पुत्रीयं वित्तवर्धनम्
कीर्तिसञ्जननं श्रेष्ठं तटाकानां निवेशनम्
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः
तटाकं सुकृतं देशे क्षेत्रे देशसमाश्रयम्
चतुर्विधानां भूतानां तटाकमुपलक्षये
तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमाम्
देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः
स्थावराणि च भूतानि संश्रयन्ति जलाशयम्
तस्मात्तांस्ते प्रवक्ष्यामि तटाके ये गुणास्स्मृताः
या च तत्र फलप्राप्ती ऋषिभिस्समुदाहृता
वर्षमात्रं तटाके तु सलिलं यत्र तिष्ठति
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः
निदाघकाले सलिलं तटाके यस्य तिष्ठति
वाजपेयफलं तस्य फलं वै ऋषयोऽब्रुवन्
सकुलं तारयेद्वंशं यस्य खाते जलाशये
गावः पिबन्ति पानीयं साधवश्च नरास्सदा
तटाके यस्य गावस्तु पिबन्ति तृषिता जलम्
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत्
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च
तटाककर्तुस्तत्सर्वं प्रेत्यानन्ताय फल्पते
दुर्लभं सलिलं तात विशेषेण परन्तप
पानीयस्य प्रदानेन सिद्धिर्भवति शाश्वती
तिलान्ददति पानीयं दीपमन्नं प्रतिश्रयम्
बान्धवैस्सह मोदध्वमेतत्प्रेतेषु दुर्लभम्
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि
एवमेतत्तटाकेषु कीर्तितं फलमुत्तमम्
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामोि रोपणे
स्थावराणां तु भूतानां जातयः षट्प्रकीर्तिताः
वृक्षगुल्मलतावल्ल्यस्त्वक्सारतृणवीरुधः
एता जात्यस्तु वृक्षाणामेषां रोपगुणास्त्विमे
पनसाम्रादयो वृक्षा गुल्मा मन्दारपूर्वकाः
नागिकामलियावल्ल्यो मालतीत्यादिकालताः
वेणुक्रमुकत्वक्सारास्सस्यानि तृणजातयः
कीर्तिश्च मानुेषे लोके प्रेत्य चैव शुभं फलम्
लभ्यते नाकपृष्ठे च पितृभिश्च महीयते
देवलोकगतस्यापि नाम तस्य न नश्यति
अतीतानागताश्चैव पितृवंशाश्चं भारत
तारयेद्वृक्षरोपी तु तस्माद्वृक्षान्प्ररोपयेत्
तस्य पुत्रा भवन्त्येव पादपान्नात्र संशयः
परलोकगतस्स्वर्गो लोकांश्चाप्नोति सोऽव्ययान्
पुष्पैस्सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन्
छायया चातिथींस्तात पूजयन्ति महीरुहाः
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः
तथा ऋषिगणाश्चैव संश्रयते महीरुहान्
पुर्पिताः फलवन्तश्च पर्पयन्तीह मानवान्
वृक्षदान्पुत्रवद्वृक्षाः तारयन्ति परत्र च
तस्मात्तटाके वृक्षा वै रोप्यश्श्रेयोर्थिना सदा
पुत्रवत्परिरक्ष्याश्च पुत्रास्ते धर्मतस्स्मृताः
तटाककृद्वृक्षरोपि इष्ठयज्ञश्च यो द्विजः
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः
तस्मात्तटाकं कुर्वीत आरामांश्चापि योजयेत्
यजेच्च विविधैर्यज्ञैस्सत्यं च विधिवद्वदेत्