युधिष्ठिरः-
शूद्राणामिह शुश्रूषा नित्यमेवानुवर्णिता
कैः कारणैः कतिविधा शुश्रूषा समुदाहृता
के च शुश्रूषया लोका विहिता भरतर्षभ
शुद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शूद्राणामनुकम्पार्थं यदुक्तं ब्रह्मवादिना
वृद्धः पराशरः प्राह धर्मं शुभ्रमनामयम्
अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम्
धर्मोपदेशमखिलं यथावदनुपूर्वशः
शिष्यानध्यापयामास शास्त्रमर्थवदर्थवित्
पराशरः-
क्षान्तेन्द्रियेण दान्तेन शुचिनाऽचापलेन वै
अबलेन च धीरेण नोत्तेरोत्तरवादिना
अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना
चारित्रतत्परेणैव सर्वभूतहितात्मना
अरयष्षड्विजेतव्या नित्यं स्वं देहमाश्रिताः
कामक्रोधौ च लोभश्च मानमोहौ मदस्तथा
विधिना धृतिमास्थाय शुश्रूषुरनहङ्कृतः
वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम्
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम्
आस्थाय नियमं धीमाञ्शान्तो दान्तो जितेन्द्रियः
रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः
वर्णत्रयान्मधु यथा भ्रमरो धर्ममाचरन्
यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मणा
इह चास्य परिक्लेशः प्रेत्य चास्याशुभा गतिः
अधर्म्यमयशस्यं च तपश्शूद्रे प्रतिष्ठितम्
अमार्गेण तपस्तप्त्वा म्लेच्छेषु फलमश्नुते
अन्यथा वर्तमानो हि न शूद्रो धर्ममर्हति
अमार्गेणि प्रयातानां प्रत्यक्षादुपलभ्यते
चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः
तथा ते हि शकाश्चीनाः काम्भोजाः पारदास्तथा
शबराः पप्लवाश्चैव तुषारयवनास्तथा
दार्वाश्च दरदाश्चैव उज्जिहानास्तथेतराः
वेणाश्च कङ्कणाश्चैव सिंहला मद्रकास्तथा
किष्किन्धकाः पुलिन्दाश्च कह्वाश्चान्ध्रास्सनीरगाः
गन्धिका द्रमिडाश्चैव बर्बराश्चूचुकास्तथा
किराताः पार्वतेयाश्च कोलाश्चोषास्सखाषकाः
आरूकाश्चैव दोहाश्च याश्चान्या म्लेच्छजातयः
विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः
अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः
अमार्गोपार्जितस्यैतत्तपसो विदितं फलम्
न नश्यति कृतं कर्म शुभं वा यदि वाऽशुभम्
अत्राप्येते वसु प्राप्य विकर्म तपसाऽर्जितम्
पाषण्डानर्चयिष्यन्ति धर्मकामा वृथाश्रमाः
एवं चतुर्णां वर्णानामाश्रमाणां च पार्थिव
विपरीतं वर्तमाना म्लेच्छा जायन्त्यबुद्धयः
स्वाध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम्
वणिक्कृषिश्च वैश्यानां शूद्राणां परिचारिका
व्युच्छेदात्तस्य धर्मस्य निरयायोपपद्यते
ततो म्लेच्छा भवन्त्येते निर्घृणा धर्मवर्जिताः
पुनश्च निरयं तेषां तिर्यग्योनिश्च शाश्वती
ये तु सत्यथमास्थाय वर्णाश्रमकृतं पुरा
सर्वान्विमार्गानुत्सृज्य स्वधर्मविथमाश्रिताः
सर्वभूतदयावन्तो दैवतद्विजपूजकाः
शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः
तेषां विधिं प्रवक्ष्यामि यथावदनुपूर्वशः
उपादानविधिं कृत्स्नं शुश्रूषाधिगमं तथा
शिष्टोपनयनं चैव मन्त्राणि विविधानि च
तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात्
प्रवक्ष्यामि यथातत्त्वं यथावदनुपूर्वशः
शौचकृत्यस्य शौचार्थान्सर्वानेव विशेषतः
महाशौचप्रभृतयो दृष्टास्तत्त्वार्थदर्शिभिः
तत्रापि शूद्रो भिक्षूणां मृदं देशं च कल्पयेत्
भिक्षुभिस्सुकृतप्रज्ञैः केवलं धर्ममाश्रितैः
सम्यद्गर्शनसम्पन्नैर्गताध्वनि हितार्थिभिः
अवकाशमिमं मेध्यं निर्मितं कामवीरुधम्
निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः
सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम्
परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः
अन्तर्हितायां भूमौ तु अन्तर्हितशिरास्तथा
असमाप्ते तथा शौचे न वाचं किञ्चिदीरयेत्
कृतकृत्यस्तथाऽऽचम्य गच्छन्नोदीरयेद्वचः
शौचार्थमुपविष्टस्तु मृद्भाजनपुरस्कृतः
स्थाप्यं कमण्डलुं गृह्य पार्श्वोरुभ्यामथान्तरे
शौचं कुर्याच्छनैर्वीरो बुद्धिपूर्वमसङ्करम्
पाणिना शुद्धमुदकं सङ्गृह्य विधिपूर्वकम्
विप्रुषश्च यता न स्युर्यथा चोरू न संस्पृशेत्
अपाने मृत्तिकास्तिस्रः प्रदेयास्त्वनुपूर्वशः
हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत्
अपाने नव देयास्स्युरिति वृद्धानुशासनम्
मृत्तिका दीयमाना हि शोधयेद्देशमञ्जसा
तस्मात्पाणितले देया मृत्तिकास्तु पुनः पुनः
बृद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत्स्फिजौ
यथा घातो हि न भवेत्क्लेदजः परिधानके
तथा गुदं प्रमार्जेत शौचार्थं तु पुनःपुनः
प्रतिपादं ततस्त्यक्त्वा शौचमुत्थाय कारयेत्
सव्ये द्वादश देयास्स्युस्तिस्रस्तिस्रः पुनः पुनः
देया कूर्परके हस्ते पृष्ठबन्धे पुनः पनः
तथैवादर्शके दद्याच्चतस्रस्तूभयोरपि
उभयोर्हस्तयोरेवं सप्त सप्त प्रदापयेत्
ततोऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस्तयोः
हस्तयोरेवमेतद्धि महाशौचं विधीयते
ततोऽन्यथा न कुर्वीत विधिरेष सनातनः
उपस्थे मूत्रशौचं स्यादत ऊर्ध्वं विधीयते
अतोऽन्यथा तु यः कुर्यात्प्रायश्चित्तीयते तु सः
मलोपहतचेलस्य द्विगुणं तु विधीयते
सहपादमथोरुभ्यां हस्तशौचमसंशयम्
अवधीरयमाणस्य सन्देह उपजायते
यथा यथा विशुद्ध्येत तत्तथा तदुपक्रमेत्
सकर्दमं तु वर्षासु गृहमाविश्य सङ्कटम्
हस्तयोर्मृत्तिकास्तिस्रः पादयोष्षट्प्रदापयेत्
कामं दत्त्वा गुदे दद्यात्तिस्रः पद्भ्यां तथैव च
हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस्तथा
मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः
नैष्ठिके स्थानशौचे तु महाशौचं विधीयते
क्षारौषराभ्यां वस्त्रस्य कुर्याच्छौचं मृदा सह
लेपगन्धापनयनममेध्यस्य विधीयते
स्नानशाट्यां मृदस्तिस्रो हस्ताभ्यां चानुपूर्वशः
शौचं प्रयत्नतः कृत्वा कम्पमानस्समुद्धरेत्
देयाश्चतस्रस्तिस्रो वा द्वे वाऽप्येकां तथाऽऽपदि
कालमासाद्य देशं च शौचस्य गुरुलाघवम्
विधिनाऽनेन शौचं तु नित्यं कुर्यादतन्द्रितः
अविप्रेक्षन्नसम्भ्रान्तः पादौ प्रक्षाल्य तत्परः
सुप्रक्षालितपादस्तु पाणिमामणिबन्धनात्
अधस्तादुपरिष्टाच्च ततः पाणिमुपस्पृशेत्
मनोगतास्तु निश्शब्दा निश्शब्दं त्रिरपः पिबेत्
द्विर्मुखं परिमृज्याच्च खानि चोपस्पृशेद्बुधः
ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेदपः
द्वितीयं च यजुर्वेदं तृतीयं साम एव च
मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात्
द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः
यच्चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत्
प्रीणाति वायुं घ्राणं च दिशश्चाप्यथ श्रोत्रयोः
ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समालभेत्
समुत्क्षिपति चापोर्ध्वमाकाशं तेन प्रीणयेत्
प्रीणाति विष्णुः पद्भ्यां तु सलिलं वै समादधत्
प्राङ्मुखोदङ्मुखो वाऽपि अन्तर्जानुरुपस्पृशेत्
सर्वत्र विधिरित्येष भोजनादिषु नित्यशः
दन्तेषु दन्तलग्नेषु उच्छिष्टः पुनराचमेत्
विधिरेष समुद्दिष्टश्शौचे चाभ्युक्षणं स्मृतम्
शूद्रस्यैष विधिर्दृष्टो गृहान्निष्क्रमतस्स्ततः
नित्यं चालुप्तशौचेन वर्तितव्यं कृतात्मना
यशस्कामेन भिक्षुभ्यश्शूद्रेणात्महितार्थिना
क्षत्रा आरम्भयज्ञास्तु हविर्यज्ञा विशस्स्मृताः
शूद्राः परिचरायज्ञा जपयज्ञास्तु ब्राह्मणाः
शुश्रूषाजीविनश्शूद्रा वैश्या विपणिजीविनः
अनिष्टनिग्रहः क्षत्रा विप्रास्स्वाध्यायजीविनः
तपसा शोभते विप्रो राजन्यः पालनादिभिः
आतिथ्येन तथा वैश्यश्शूद्रो दास्येन शोभते
यतात्मना तु शूद्रेण शुश्रूषा नित्यमेव तु
कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु
अशक्तेन त्रिवर्गस्य सेव्या ह्याश्रमवासिनः
यथाशक्ति यथाप्रज्ञं यथाधर्मं यथाश्रुतम्
विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे
आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम्
प्रधानमिति मन्यन्ते शिष्टाश्शास्त्रविनिश्चये
यच्चोपदिश्यते शिष्टैश्श्रुतिस्मृतिविधानतः
तथाऽऽस्थेयमशक्तेन स धर्म इति निश्चितः
अतोऽन्यथा तु कुर्वाणश्श्रेयो नाप्नोति मानवः
तस्माद्भिक्षुषु शूद्रेण कार्यमात्महितं सदा
इह यत्कुरुते श्रेयस्तत्प्रेत्य समुपाश्नुते
तच्चानसूयता कार्यं कर्तव्यं यद्धि मन्यते
असूयता कृतस्येह फलं दुःखादवाप्यते
प्रियवादी जितक्रोधो वीततन्द्रीरमत्सरः
क्षमावाञ्शीलसम्पन्नस्सत्यधर्मपरायणः
आपद्भावेन कुर्याद्धि शुश्रूषां भिक्षुकाश्रमे
अयं मे परमो धर्मस्त्वनेनेदं सुदुस्तरम्
संसारसागरं घोरं तरिष्यामि न संशयः
निर्भयो देहमुत्सृज्य यास्यामि परमां गतिम्
नातः परं ममाप्यन्य एष धर्मस्सनातनः
एवं सञ्चिन्त्य मनसा शूद्रो बुद्धिसमाधिना
कुर्यादविमना नित्यं शुश्रूषाधर्ममुत्तमम्
शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा
शमान्वितेन दान्तेन कार्याकार्यविदा सदा
सर्वकार्येषु कृत्यानि कृतान्येव च दुर्शयेत्
यथा प्रियो भवेद्भिक्षुस्तथा कार्यं प्रसाधयेत्
यदकल्प्यं भवेद्भिक्षोर्न तत्कार्यं समाचरेत्
यदाश्रमस्याविरुद्धं धर्ममात्राभिसंहितम्
तत्कार्यमविचारेण नित्यमेव शुभार्थिना
मनसा कर्मणा वाचा नित्यमेव प्रसादयेत्
स्थातव्यं तिष्ठमानेषु गच्छमानाननुव्रजेत्
आसीनेष्वासितव्यं च नित्यमेवानुवर्तिना
धर्मलब्धेन स्नेहेन पादौ सम्प्रदिहेत्सदा
उद्वर्तनादींश्च तथा कुर्यादप्रतिचोदितः
नैशकार्याणि कृत्वा तु नित्यं चैवानुचोदितः
यथाविधिरुपस्पृश्य सन्न्यस्य जलभाजनम्
भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम्
ब्रह्मपूर्वान्गुरूंस्तत्र प्रणम्य नियतेन्द्रियः
तथाऽऽचार्यपुरोगाणामनुकुर्यान्नमस्क्रियाम्
स्वधर्मचारिणां चापि सुखं पृष्ट्वाऽभिवाद्य च
यो भवेत्पूर्वसंसिद्धस्तुल्यकर्मा भवेत्सदा
तस्मै प्रणामः कर्तव्यो नेतरेषां कदाचन
अनुक्त्वा तेषु चोत्थाय नित्यमेव यतव्रतः
सम्मार्जनमथो कृत्वा कृत्वा चाप्युपलेपनम्
ततः पुष्पबलिं दद्यात्पुष्पाण्यादाय धर्मतः
निष्क्रम्यावसथात्तूर्णमन्यत्कर्म समाचरेत्
यथोपघातो न भवेत्स्वाध्यायेऽऽश्रमिणां तथा
उपघातं तु कुर्वाण एनसा सम्प्रयुज्यते
तथाऽऽत्मा प्रणिधातव्यो यथा ते प्रीतिमाप्नुयुः
परिचारकोऽहं वर्णानां त्रयाणां धर्मतस्स्मृतः
किमुताश्रमवृद्धानां यथालब्धोपजीविनाम्
भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनाम्
विशेषेण मया कार्या शुश्रूषा नियतात्मना
तेषां प्रसादात्तपसा प्राप्स्यामीष्टां शुभां गतिम्
एवमेतद्विनिश्चित्य यदि सेवेत भिक्षुकान्
विधिना यथोपदिष्टेन प्राप्नोति परमां गतिम्
न तथा सम्प्रदानेन नोपवासादिभिस्तथा
इष्टां गतिमवाप्नोति यथा शुश्रूषकर्मणा
यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः
तादृग्भवति तद्धौतमुदकस्य स्वभावतः
शूद्रोऽप्येतेन मार्गेण यादृशं सेवते जनम्
तादृग्भवति संसर्गादचिरेण न संशयः
तस्मात्प्रयत्नतस्सेव्या भिक्षवो नियतात्मना
उदकग्रहणाद्येन स्नपनोद्वर्तनैस्तथा
अध्वना कर्शितानां च व्याधितानां तथैव च
शुश्रूषां नियतः कुर्यात्तेषामापदि यत्नतः
दर्भाजिनान्यवेक्षेत भैक्षभाजनमेव च
यथाकामं च कार्याणि सर्वाण्येवोपसाधयेत्
प्रायश्चित्तं यथा न स्यात्तथा सर्वं समाचरेत्
व्याधितानां तु प्रयतः चेलप्रक्षालनादिभिः
प्रतिकर्मक्रिया कार्या भेषजानयनैस्तथा
पिंषणालेपनं चूर्णं कषायमथ साधनम्
तान्यस्य प्रतिचारेषु सुखार्थमुपपादयेत्
भिक्षाटनोऽभिगच्छेत भिषजश्च विपश्चितः
ततो विनिष्क्रियार्थानि द्रव्याणि समुपार्जयेत्
यश्च प्रीतमना दद्यादादद्याद्भेषजं नरः
अश्रद्धया हि दत्तानि तान्यभोक्ष्याणि भिक्षुभिः
श्रद्धया यदुपादत्तं श्रद्धया चोपपादितम्
तस्योपभोगाद्धर्मस्स्याद्व्याधिभिश्च निवर्त्यते
आदेहपतनादेवं शुश्रूषेद्विधिपूर्वकम्
न त्वेवं धर्ममुत्सृज्य कुर्यात्तेषां प्रतिक्रियाम्
स्वभावतो हि द्वन्द्वानि विप्रयान्त्युपयान्ति च
स्वभावतस्सर्वभावा भवन्ति न भवन्ति च
सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः
विद्यादेवं हि यो धीमांस्तत्ववित्तत्वदर्शनः
न स लिप्येत पापेन पद्मपत्रमिवाम्भसा
एवं प्रयतितव्यं हि शुश्रूषार्थमतन्द्रितैः
सर्वाभिरुपसेवाभिस्तुष्यन्ति यतयो यथा
नापराध्येत भिक्षोस्तु न चैवमवधीरयेत्
उत्तरं च न सन्दद्यात्क्रुद्धं चैव प्रसादयेत्
श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत्
तूष्णीम्भावेन वै तत्र न क्रुद्धमभिसंवदेत्
नाददीत परस्वानि न गृह्णीयादयाचितम्
लब्धालब्धेन जीवेत तथैव परितोषयेत्
कोपिनं तु न याचेत ज्ञानविद्वेषकारितः
स्थावरेषु दयां कुर्याज्जङ्गमेषु च प्राणिषु
यथाऽऽत्मनि तथाऽन्येषु समां दृष्टिं निपातयेत्
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
सम्पश्यमानो विचरन्ब्रह्मभूयाय कल्पते
हिंसां वा यदि वाऽहिंसां न कुर्यादात्मकारणात्
यत्रेतरो भवेन्नित्यं दोषं तत्र न कारयेत्
एवं स मुच्यते दोषात्परानाश्रित्य वर्तयन्
आत्माश्रयेण दोषेण लिप्यते ह्यल्पबुद्धिमान्
जरायुजाण्डजाश्चैव उद्भिज्जास्स्वेदजाश्व ये
अवध्यास्सर्व एतैते बुधैस्समनुवर्णिताः
निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते
हिंसा यथाऽन्या विहिता तथा दोषं प्रयोजयेत्
तथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम्
न हि लोभः प्रभवति हिंसा वाऽपि तदात्मिका
शास्त्रदर्शनमेतद्धि विहितं विश्वयोनिना
यद्येतदेवं मन्येत शूद्रो ह्यपि च बुद्धिमान्
कृतं कृतवतां गच्छेत्किं पुनर्यो निषेवते
न शूद्रः पतते कश्चिन्न च संस्कारमर्हति
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम्
अनुग्रहार्थं मनुना सर्ववर्णेषु वर्णितम्
यदाऽपवादस्तु भवेत्स्त्रीकृतः परिचारके
अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम्
तेन तस्य भवेच्छान्तिस्ततो भूयोऽप्युपाव्रजेत्
सवर्णाया भवेदेतद्धीनायास्त्वर्धमर्हति
वर्षत्रयं तु वैश्यायाः क्षत्रियायास्तु षट् समाः
ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः
कटाग्निना वा दग्धव्यस्तस्मिन्नेव क्षणे भवेत्
शिश्नावपातनाद्वाऽपि विशुद्धिं समवाप्नुयात्
अनस्थिबन्धमेकं तु यदि प्राणैर्वियोजयेत्
उपोष्यैकाहमादद्यात्प्राणायामांस्तु द्वादश
त्रिस्स्नानमुदके कृत्वा तस्मात्पापात्प्रमुच्यते
अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते
अनेन विधिना वाऽपि स्थावरेषु न संशयः
कायेन पद्भ्यां हस्ताभ्यामपराधात्तु मुच्यते
अदुष्टं क्षपयेद्यस्तु सर्ववर्णेषु वाचयेत्
तस्याप्यष्टगुणं विद्यात्प्रायश्चित्तं तदेव तु
चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते
कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम्
तस्मादेतानि सर्वाणि विदित्वा न समाचरेत्
सर्वभूतहितार्थं हि कुशलानि समाचरेत्
एवं समाहितमनास्सेवते यदि सत्तमः
तद्गतिस्तत्समाचारस्तन्मनास्तत्परायणः
नाभिनन्देत मरणं नाभिनन्देत जीवितम्
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा
एवं प्रवर्तमानस्तु विनीतः प्रयतात्मवान्
निर्णयं पुण्यपापाभ्यामचिरेणोपगच्छति
शुश्रूषानिरतो नित्यमरिष्टान्युपलक्षयेत्
त्रैवार्षिकं द्विवार्षिकं वा वार्षिकं वा समुत्थितम्
षाण्मासिकं मासिकं वा साप्तरात्रिक्रमेव वा
सर्वांस्तदर्थान्वा विद्यात्तेषां चिह्नानि लक्षयेत्
पुरुषं हिरण्मयं यस्तु तिष्ठन्तं दक्षिणामुखम्
लक्षयेदुत्तरेणैव मृत्युस्त्रैवार्षिको भवेत्
शुद्धमण्डलमादित्यमरश्मिं सम्प्रपश्यतः
संवत्सरद्वयेनैव तस्य मृत्युं समादिशेत्
ज्योत्स्नायामात्मनश्छायां छिद्रां यो हि प्रपश्यति
मृत्युं संवत्सरेणैव जानीयात्स विचक्षणः
विशिरस्कां यदा छायां पश्येत्पुरुष आत्मनः
जानीयादात्मनो मृत्युं षाण्मासेनेह बुद्धिमान्
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुते यदि
जानीयादात्मनो मृत्युं मासेनैव विचक्षणः
शवगन्धमुपाघ्राति अन्यद्वा सुरभिं नरः
देवतायतनस्थो वै सप्तरात्रेण मृत्युभाक्
कर्णनासापनयनं दन्यदृष्टिविरागता
लुप्तसञ्ज्ञं हि करणं सद्यो मृत्युं समादिशेत्
एवमेषामरिष्टानां पश्येदन्यतमं यदि
न तं कालं परीक्षेत यथाऽरिष्टं प्रकल्पितम्
अभ्यासेन तु कालस्य गच्छेत पुलिनं शुचि
तत्र प्राणान्प्रमुञ्चेत तमीशानमनुस्मरन्
ततोऽन्यं देहमासाद्य गान्धर्वं स्थानमाप्नुयात्
तत्रस्थो वसते विंशत्पद्मानि महाद्युतिः
गन्धर्वैश्चित्रसेनाद्यैस्सहितस्सत्कृतस्तथा
नीलवैडूर्यवर्णेन विमानेनावभासयन्
नभस्थलमदीनात्मा सार्धमप्सरसां गणैः
छन्दकामानुसारी च तत्र तत्र महीयते
मोदतेऽमरतुल्यात्मा सदाऽमरगणैस्सह
पतितश्च क्षये काले क्षणेन विमलद्युतिः
वैश्यस्य बहुवित्तस्य कुलेऽग्र्ये बहुगोधने
अवाप्य तत्र वै जन्म स पूतो देवकर्मणा
छन्दसा जागतेनैव प्राप्तोपनयनं ततः
क्षौमवस्त्रोपकरणं द्विजत्वं समवाप्य तु
अधीयमानो वेदार्थान्गुरुशुश्रूषणे रतः
ब्रह्मचारी जितक्रोधस्तपस्वी जायते ततः
अधीत्य दक्षिणां दत्त्वा गुरवे विधिपूर्वकम्
कृतदारस्समुपैति गृहस्थव्रतमुत्तमम्
ददाति यजते चैव चज्ञैर्विपुलदक्षिणैः
अग्निहोत्रमुपासन्वै जुह्वच्चैव यथाविधिः
धर्मं सञ्चिनुते नित्यं मृदुगामी जितेन्द्रियः
स कालपरिणामात्तु मृत्युना सम्प्रयुज्यते
संस्कृतश्चाग्निहोत्रेण कृतपात्रोपधानवान्
संस्कृतो देहमुत्सृज्य मरुद्भिरुपपद्यते
मरुद्भिस्सहितश्चापि तुल्यतेजा महाद्युतिः
बालार्कसमवर्णेन विमानेन विराजता
सुखं चरति तत्रस्थो गन्थर्वाप्सरसां गणैः
विरजोम्बरसंवीतस्तप्तकाञ्चनभूषणः
छन्दकामानुसारी च द्विगुणं कालमावसेत्
स निवर्तेत कालेन स्थानादस्मात्परिच्युतः
अवितृप्तविहारार्थो दिव्यान्भोगान्विहाय तु
सञ्जायते नृपकुले गजाश्वरथसङ्कुले
पार्थिवीं श्रियमापन्नश्श्रीमान्धर्मपतिर्यथा
जन्मप्रभृति संस्कारं चौलोपनयनानि च
प्राप्य राजकुले तत्र यथावद्विधिपूर्वकम्
छ्दसा त्रैष्टुभेनेह द्विजत्वमुपनीयते
अधीत्य वेदमखिलं धनुर्वेदं च मुख्यशः
समावृत्तस्ततः पित्रा यौवराज्येऽभिषिच्यते
कृतदारक्रियश्श्रीमान्राज्यं सम्प्राप्य धर्मतः
प्रजाः पालयते सम्यक्षड्भागकृतसंविधिः
यज्ञैर्बहुभिरीजानस्सम्यगाप्तार्थदक्षिणैः
प्रशासति महीं श्रीमान्राज्यमिन्द्रसमद्युतिः
स्वधर्मनिरतो नित्यं पुत्रपौत्रसहायवान्
कालस्य वशमापन्नः प्राणांस्त्यजति संयुगे
देवराजस्य भवनमिन्द्रलोकमवाप्नुते
सम्पूज्यमानस्त्रिदिवैर्विचचार यथासुखम्
राजर्षिभिः पुण्यकृद्भिर्यथा देवपतिस्तथा
तैस्स्तूयते वन्दिभिस्तु नानावाद्यैः प्रबोध्यते
दिव्यजाम्बूनदमयं भ्राजमानं समन्ततः
वराप्सरोभिस्सम्पूर्णं देवगन्धर्वसेवितम्
यानमारुह्य विचरेद्यथा शक्रश्शचीपतिः
स तत्र वसते षष्टिं पद्मानीह मुदाऽन्वितः
सर्वाँल्लोकाननुचरन्महर्द्धिरवभासयन्
अथ पुण्यक्षयात्तस्मात्स्थाप्यते भुवि भारत
जायते च द्विजकुले वेदवेदाङ्गपारगे
ततश्श्रुतिसमापन्नस्संस्कृतश्च यथाविधि
चौलोपनयनं तस्य यथावत्क्रियते द्विजैः
ततोऽष्टमे स वर्षे तु व्रतोपनयनादिभिः
क्रियाभिर्विधिदृष्टाभिर्ब्रह्मत्वमुपनीयते
गायत्रेण छन्दसा तु संस्कृतश्चरितव्रतः
अधीयमानो मेधावी शुद्धात्मा नियतव्रतः
अचिरेणैव कालेन साङ्गान्वेदानवाप्नुते
समावृत्तस्स धर्मात्मा समावृत्तक्रियस्तथा
याजनाध्यापनरतः कुशले कर्मणि स्थितः
अग्निहोत्रपरो नित्यं देवतातिथिपूजकः
यजते विविधैर्यज्ञैर्जपयज्ञैस्तथैव च
न्यायागतधनान्वेषी न्यायवृत्तस्तपोधनः
सर्वभूतहितश्चैव सर्वशास्त्रविशारदः
स्वदारपरितुष्टात्मा क्रतुगामी जितेन्द्रियः
परापवादविरतस्सत्यव्रतपरस्सदा
स कालपरिणामात्तु संयुक्तः कालधर्मणा
संस्कृतश्चाग्निहोत्रेण यथावद्विधिपूर्वकम्
सोमलोकमवाप्नोति देहन्यासान्न संशयः
तत्र सोमप्रभैर्देवैरग्निष्वात्तैश्च भास्वरैः
तथा बर्हिषदैश्चैव देवैराङ्गिरसैरपि
विश्वेभिश्चैव देवरभिस्तथा ब्रह्मर्षिभिः पुनः
देवर्षिभिश्चाप्रतिमैस्तथैवाप्सरसां गणैः
साध्यैस्सिद्धैश्च सततं सत्कृतस्तत्र मोदते
जातरूपमयं दिव्यमर्कतुल्यं मनोजवम्
देवगन्धर्वसङ्कीर्णं विमानमधिरोहति
सौम्यरूपा मनःकान्तास्तप्तकाञ्चनभूषणाः
सोमकन्या विमानस्थं रमयन्ति मुदाऽन्विताः
स तत्र रमते प्रीतस्सह देवैस्सहर्षिभिः
लोकान्सर्वाननुचरन्दीप्ततेजा मनोजवः
सभां कामजवीं चापि नित्यमेवाभिगच्छति
सर्वलोकेश्वरमृषिं नमस्कृत्य पितामहम्
परमेष्ठिरनन्तश्रीर्लोकानां प्रभवाप्ययः
यतस्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
स तत्र वर्तते श्रीमान्द्विशतं द्विजसत्तम
अथ कालक्षयात्तस्मात्स्थानादावर्तते पुनः
जातिधर्मांस्तथा सर्वान्सर्गादावर्तनानि च
अशाश्वतमिदं सर्वमिति चिन्त्योपलभ्य च
शाश्वतं धर्ममचलमदीनमपुनर्भवम्
आस्थास्यत्यभयं दिव्यं यत्रावृत्तिर्न विद्यते
यत्र गत्वा न म्रियते जन्म चापि न विद्यते
गर्भक्लेशामयाः प्राप्ता जायता च पुनः पुनः
कायक्लेशाश्च विविधा द्वन्द्वानि विविधानि च
शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च
तत्र तत्रोपभुक्तानि न क्वचिच्छाश्वती स्थितिः
एवं स निश्चयं कृत्वा निर्मुच्य गृहबन्धनात्
छित्त्वा भार्यामयं पाशं तथैवापत्यसम्भवम्
यतिधर्ममुपाश्रित्य गुरुशुश्रूषणे रतः
अचिरेणैव कालेन श्रेयस्समधिगच्छति
योगशास्त्रं च साङ्ख्यं च विदित्वा सोऽर्थतत्वतः
अनुज्ञातश्च गुरुणा यथाशास्त्रमवस्थितः
पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः
शून्यागारनिकेतश्च वनवृक्षगुहाशयः
अरण्यानुचरो नित्यं देवारण्यनिकेतनः
एकरात्रं द्विरात्रं वा न क्वचित्सज्जते द्विजः
शीर्णपर्णपुटे वाऽपि वन्ये चरति भिक्षुकः
न भोगार्थमनुप्रेत्य यात्रामात्रं समश्नुते
धर्मलब्धं समश्नाति न कामात्किञ्चिदश्नुते
युगमात्रदृगध्वानं क्रोशादूर्ध्वं न गच्छति
समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः
सर्वभूताभयकरस्तथैवाभयदक्षिणः
निर्द्वन्द्वो निर्नमस्कारो निरानन्दपरिग्रहः
निर्ममो निरहङ्कारस्सर्वभूतनिराश्रयः
परिसङ्ख्यानतत्वज्ञस्तदा सत्यरतिस्सदा
ऊर्ध्वं नाधो न तिर्यक्च न किञ्चिदभिकामयेत्
एवं सञ्चरममाणस्तु यतिधर्मं यथाविधि
कालस्य परिणामात्तु यथा पक्वफलं तथा
स विसृज्य स्वकं देहं प्रविशेद्ब्रह्म शाश्वतम्
निरामयमनाद्यन्तं गुणसौम्यमचेतनम्
निरक्षरमबीजं च निरिन्द्रियमजं तथा
अजय्यमक्षयं यत्तदभेद्यं सूक्ष्ममेव च
निर्गुणं च प्रकृतिमन्निर्विकारं च सर्वशः
भूतभव्यभविष्यस्य कालस्य परमेश्वरम्
अव्यक्तं पुरुषं क्षेत्रमानन्त्याय प्रपद्यते’
एवं स भिक्षुर्निर्वाणं प्राप्नुयाद्दग्धकिल्बिषः
इहस्थो देहमुत्सृज्य नीडं शकुनिवद्यथा
सत्पथालम्बनादेव शूद्रः प्राप्नोति सद्गतिम्
ब्रह्मणस्स्थानमचलं स्थानात्स्थानमवाप्नुयात्
यथा खनन्खनित्रेण जाङ्गले वारि विन्दति
अनिर्वेदात्ततस्स्थानमीप्सितं प्रतिपद्यते
सैषा गतिरनाद्यन्ता सर्वैरप्युपधारिता
तस्माच्छूद्रैरनिर्वेदाच्छ्रद्दधानैस्तु नित्यदा
वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः
यत्करोति तदश्नाति शुभं वा यदि वाऽशुभम्
नाकृतं भुज्यते कर्म न कृतं नश्यते फलम्
शुभकर्मसमाचारश्शुभमेवाप्नुते फलम्
तथाऽशुभसमाचारो ह्यशुभं समवाप्नुते
तथा शुभसमाचारो ह्यशुभानि विवर्जयेत्
शुभान्येव समादद्याद्य इच्छेद्भूतिमात्मनः
भूतिश्च नान्यतश्शक्त्या शूद्राणामिति निश्चयः
ऋते यतीनां शुश्रूषामिति सन्तो व्यवस्थिताः
तस्मादागमसम्पन्नो भवेत्सुनियतेन्द्रियः
शक्यते ह्यागमादेव गतिं प्राप्तुमनामयाम्
वरा चैषा गतिर्दृष्टा यामन्वेषन्ति साधवः
यत्रामृतत्वं लभते त्यक्त्वा दुःखमनन्तरम्
इमं हि धर्ममास्थाय येऽपि स्युः पापयोनयः
स्त्रियो वैश्याश्च शूद्राश्च प्राप्नुयुः परमां गतिम्
किं पुनर्ब्राह्मणो विद्वान्क्षत्रियो वा बहुश्रुतः
न चाप्यक्षीणपापस्य ज्ञानं भवति देहिनः
ज्ञानोपलब्धिर्भवति कृतकृत्यो यदा भवेत्
उपलभ्य तु विज्ञानं ज्ञानं वाऽप्यनसूयकः
तथैव वर्तेद्गुरुषु भूयांसं वा समाहितः
यथावमन्येत गुरुं तथा तेषु प्रवर्तते
व्यर्थमस्य श्रुतं भवति ज्ञानमज्ञानतां व्रजेत्
गतिं चाप्यशुभां गच्छेन्निरयाय न संशयः
प्रक्षीयते तस्य पुण्यं ज्ञानमस्य विरुध्यते
अदृष्टपूर्वकल्याणो यथा दृष्ट्वाविधिर्नरः
उत्सेकान्मोहमापद्य तत्वज्ञानं नचाप्नुयात्
एवमेवि हि नोत्सेकः कर्तव्यो ज्ञानसम्भवः
फलं ज्ञानस्य हि शमः प्रशामाय यतेत्सदा
उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा
शुश्रूषा प्रतिपत्तव्या नित्यमेवानसूयता
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा
इन्द्रियार्थांश्च मनसा मनो बुद्धौ समादधेत्
धृत्याऽऽसीत ततो गत्वा शुद्धदेशं सुसंवृतम्
लब्धाऽऽसनं यथा दृष्टं विधिपूर्वं समाचरेत्
ज्ञानयुक्तस्तथा देवं हृदिस्थमुपलक्षयेत्
आदीप्यमानं वपुषा विधूममनलं यथा
रश्मिमन्तमिवादित्यं वैद्युताग्निमिवाम्बरे
संस्थितं हृदये पश्येदीशं शाश्वतमव्ययम्
न चायुक्तेन शक्योऽयं द्रष्टुं देहे महेश्वरः
युक्तस्तु पश्यते बुद्ध्या सन्निवेश्य मनो हृदि
अथ त्वेवं न शक्नोति कर्तुं हृदयधारणम्
यथासाङ्ख्यमुपासीत यथावद्योगमास्थितः
पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाण्यपि
पञ्च भूतविशेषाश्च मनश्चैव तु षोडश
तन्मात्राण्यपि पञ्चैव मनोऽहङ्कार एव च
अष्टमं चाप्यथाव्यक्तमेताः प्रकृतिसञ्ज्ञिताः
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश
एवमेतदिहस्थेन विज्ञेयं तत्त्वबुद्धिना
एवं वर्ष्म समुत्तीर्य तीर्णो भवति नान्यथा
परिसङ्ख्यानमेवैतन्मन्तव्यं ज्ञानबुद्धिना
अहन्यहनि शान्तात्मा पावनाय हिताय च
एवमेव प्रसङ्ख्याय तत्त्वबुद्धिर्विमुच्यते
निष्कलं केवलं भवति शुद्धतत्त्वार्थतत्त्ववित्
भिक्षुकाश्रममास्थाय शुश्रूषानिरतो बुधः
शूद्रो निर्मुच्यते सत्त्वसंसर्गादेव नान्यथा
सत्सन्निक्रषे परिवर्तितव्यं विद्याधिकाश्चापि निषेवितव्याः
सवर्णतां गच्छति सन्निकर्षान्नीलः खगो मेरुमिवाश्रयन्वै
भीष्मः-
इत्येवमाख्याय महामुनिस्तदा चतुर्षु वर्णेषु विधानमर्थवित्
शुश्रूषया वृत्तगतिं समाधिना समाधियुक्तः प्रययौ स्वमाश्रमम्