युधिष्ठिरः-
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च
दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह
भीष्मः-
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः
गुणवत्यल्पदोषस्स्यान्निर्गुणे तु निमज्जति
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वृषादर्भेश्च संवादं सप्तर्षीणां च सुव्रत
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः
विश्वामित्रो जमदग्निस्साध्वी चैवाप्यरुन्धती
सर्वेषामथ तेषां तु चण्डाभूत्परिचारिका
शूद्रः पशुसखश्चैव तस्या भर्ता बभूव ह
ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम्
समाधिना प्रतीक्षन्तो ब्रह्मलोकं सनातनम्
तदाऽभवदनावृष्टिर्महती कुरुनन्दन
कृच्छ्रप्राणोऽभवत्तत्र लोकोऽयं वै क्षुधाऽन्वितः
कस्मिंश्चिद्यः पुरा यज्ञे याज्येन शिबिसूनुना
दक्षिणार्थे च ऋत्विग्भ्यो दत्तः पुत्रोऽनलः किल
तस्मिन्काले तु सोऽल्पायुर्दिष्टान्तमगमत्प्रभो
ते तं क्षुधाऽभिसन्तप्ताः परिवार्योपतस्थिरे
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः
अपचन्त तदा स्थाल्यां क्षुधाऽऽर्ताः किल भारत ||
नाजीव्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः
राजा शैब्यो वृषादर्विः क्लिश्यमानान्ददर्श ह
वृषादर्विः-
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम्
मयि यद्विद्यते वित्तं तद्वृणुध्वं तपोधनाः
प्रतिग्रहो ब्राह्मणानां सृष्टा वृत्तिरनिन्दिता
तस्माद्ददामि वो वित्तं तद्गृह्णीध्वं तपोधनाः
प्रियो हि मे ब्राह्मणो याचमाना ददाम्यहं वोऽश्वतरीसहस्रम्
धेनूर्ददाम्ययुतं वै समग्रमेकैकशस्सवृषास्सम्प्रसूताः
अश्वांस्तथा शीघ्रगाञ्श्वेतरूपान्मनोजवान्प्रददाम्यर्बुदानि
कुलम्भराननडुहश्शतं शतान्धुर्याञ्शुभान्सर्वशोऽहं ददामि
हृष्टो वाहान्पीवराणां च तावदग्र्या गृष्टीर्धेनवस्सुव्रताश्च
वरान्ग्रामान्व्रीहियवान्सांश्च रत्नं चान्यद्दुर्लभं किं ददामि
मा स्माभोज्ये भावमेवं कुरुध्वं पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः
ऋषयः-
राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम्
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः
दशसूनासहस्राणि यो वाहयति सौनिकः
तेन तुल्यो भवेद्राजा घोरस्तस्य प्रतिग्रहः
क्षेत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम्
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः
अह्नायेह तपो जातु ब्राह्मणस्योपजायते
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः
कुशलं सह दानेन राजन्नस्तु सदा तव
अर्थिभ्यो दीशतां सर्वमित्युक्त्वा तेऽन्यतो ययुः
भीष्मः-
अपक्वमेव तन्मांसमभूत्तेषां च धीमताम्
अथ हित्वा ययुस्सर्वे वनमाहारकाङ्क्षिणः
ततः प्रचोदिता राज्ञा वनं गत्वाऽस्य मन्त्रिणः
प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः
दृष्ट्वा फलानि मुनयस्ते ग्रहीतुमुपाद्रवन्
गुरूणीति विदित्वाऽथ न ग्राह्याण्यत्रिरब्रवीत्
नास्महे मूढविज्ञाना नास्म मानुषबुद्धयः
अत्रिः-
हैमानीमानि जानीमः प्रतिबुद्धास्स्म जागृम
इह ह्येतदुपावृत्तं प्रेत्य स्यात्कटुकोदयम्
अप्रतिग्राह्यमेतद्वै प्रेत्येह च सुखेप्सुना
वसिष्ठः-
शतेन निष्कगुणितं सहस्रेण च सम्मितम्
तथा बहु प्रतीच्छन्वै पापिष्ठां लभते गतिम्
कश्यपः-
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवस्स्त्रियः
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत्
भरद्वाजः-
उत्पन्नस्य रुरोश्शृङ्गं वर्धमानस्य वर्धते
प्रार्थना पुरुषस्येह तस्य मात्रा न विद्यते
गौतमः-
न तल्लोके द्रव्यमस्ति यल्लोभं प्रतिपूरयेत्
समुद्रकल्पः पुरुषो न कदाचन पूर्यते
विश्वामित्रः-
कामं कामयमानस्य यदा कामस्समृध्यते
अथैनमपरः काम त्विष्टो विध्यति बाणवत्
अत्रिः-
न जातु कामः कामानामुपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते
जमदग्निः-
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम्
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत्
अरुन्धती-
धर्मार्थं सञ्चयो यो वै द्रव्याणां क्षयसञ्ज्ञकः
तपस्सञ्चय एवेह विशिष्टो द्रव्यसञ्चयात्
चण्डा-
उग्रादितो भयात्तस्माद्बिभ्यतीमे ममेश्वराः
बलीयसो दुर्बलवद्बिभेम्यहमतः परम्
पशुसखः-
यद्वै धर्मात्परं नास्ति ब्राह्मणास्तादृशं विदुः
विनयात्साधु विद्वांसं उपासेयं यथातथम्
ऋषयः-
कुशलं धर्मदानाय तस्मै यस्य प्रजा इमाः
फलान्युपधियुक्तानि यत्र वः प्रतियच्छति
भीष्मः-
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः
अथ ते मन्त्रिणस्सर्वे राजानमिदमब्रुवन्
मन्त्रिणः-
उपधिं शङ्कमानास्तु हित्वेमानि फलानि वै
ततोऽन्यनैव गच्छन्ति विदितं तेऽस्तु पार्थिव
भीष्मः-
इत्युक्तस्स तु भृत्यैस्तु वृषादर्विश्चुकोप ह
तेषां सम्प्रतिकर्तुं च सर्वेषामगमद्गृहम्
स गत्वाऽऽहवनीयाग्नौ तीव्रं नियममास्थितः
जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः
तस्मादग्नेस्समुत्तस्थौ कृत्या लोकभयङ्करी
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत्
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता
वृषादर्विं नरपतिं किं करोमीति चाब्रवीत्
वृषादर्विः-
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च
दासीभर्तुश्च दास्याश्च मनसा नाम धारय
ज्ञात्वा नामानि वै तेषां सर्वानेतान्विनाशय
विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव
भीष्मः-
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः
अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च
अथापश्यन्सुपीनांसपाणिपादशिरोमुखम्
पथि व्रजन्तं स्थूलाङ्गं परिव्राजं शुनस्सखम्
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभम्
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन्
वसिष्ठः-
नैतस्येह यथाऽस्माकमग्निहोत्रमनिर्हुतम्
सायं प्रातस्तु होतव्यं तेन पीवाञ्शुनस्सखः
अत्रिः-
नैतस्येह यथाऽस्माकं क्षुधया वीर्यमाहतम्
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्छुनस्सखः
विश्वामित्रः-
नैतस्येह यथाऽस्माकं शश्वच्छास्त्रकृतो ज्वरः
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनस्सखः
जमदग्निः-
नैतस्येह यथाऽस्माकं भक्तमिन्धनमेव च
सञ्चिन्त्यं वार्षिकं किश्चित्तेन पीवाञ्शुनस्सखः
गौतमः-
नैतस्येह यथाऽस्माकं त्रिकौशेयं ह राङ्कवम्
एकैकं वै त्रिवार्षीकं तेन पीवाञ्शुनस्सखः
भीष्मः-
अथ दृष्ट्वा परिव्राट् स तान्महर्षीञ्शुनस्सखः
अभिवाद्य यथान्यायं पाणिस्पर्शमथाचरत्
परिचर्यां वने तांस्तु क्षुत्प्रतीकारकाङ्क्षिणः
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते
आददानास्समुद्धृत्य मूलानि च फलानि च
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम्
शुचिपूर्णप्रसन्नोदां ददृशुः पद्मिनीं शुभाम्
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम्
वैडूर्यवर्णरुचिरैः पद्मपत्रैरथावृताम्
नानाविधैश्च विहगैर्जलप्रवरसेविभिः
एकद्वारामनादेयां सूपतीर्थामकर्दमाम्
वृषादर्विप्रयुक्ता तु कृत्या विकृतदर्शना
यातुधानीति विख्याता पद्मिनीं तामरक्षत
शुनस्सखसहायास्तु बिसार्थं ते महर्षयः
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम्
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम्
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः
ऋषयः-
कथं तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम्
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि
यातुधानी-
याऽस्मि काऽस्म्यनुयोगो मे न कर्तव्यः कथञ्चन
आरक्षिणीं मा पद्मिन्या वित्त सर्वे तपोधनाः
ऋषयः-
सर्व एव क्षुधार्तास्स्म न चान्यत्किञ्चिदस्ति नः
भवत्यास्सम्मतास्सर्वे गृह्णीमहि बिसान्युत
यातुधानी-
समयेन बिसानीतो गृह्णीध्वं कामकारतः
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत मा चिरम्
भीष्मः-
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्
अत्रिः क्षुधा परीतात्मा ततो वचनमब्रवीत्
अत्रिः-
अरात्त्रिरत्रेस्सा रात्रिर्यां नाधीते त्रिरद्य वै
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने
यातुधानी-
यथोदाहृतमेतत्ते त्वया नाम महाद्युते
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्
वसिष्ठः-
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वमे वासं गृहेष्वपि
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्
यातुधानी-
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्
कश्यपः-
कुलं कुलं च कुशलं कुपयः कश्यपो द्विजः
काश्यपः काशनिकाश एतन्मे नाम धारय
यातुधानी-
यथोदाहृतमेतत्ते मयि नाम महाद्युते
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्
भरद्वाजः
भरेऽसुतान्भरे पोष्यान्भरे देवान्भरे द्विजान्
भरे भार्यामहं व्याजाद्भरद्वाजोऽस्मि शोभने
यातुधानी-
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
गौतमः-
गौतमो मम गोधूमो धूमो दुर्दर्शनश्च ते
विद्धि मां गोतमं कृत्ये यातुधानि निबोध मे
यातुधानी-
यथोदाहृतमेतत्ते मयि नाम महामुने
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्
विश्वामित्रः-
विश्वे देवाश्च मे मित्रं मित्रमस्मि गवां तथा
विश्वामित्र इति ख्यातं यातुधानि निबोध माम् ||
यातुधानी-
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
जमदग्निः-
जाजमद्यजजानेऽहं जिजाहीह जिजायिषि
जमदग्निरिति ख्यातं ततो मां विद्धि शोभने
यातुधानी-
यथोदाहृतमेतत्ते मयि नाम महामुने
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्
अरुन्धती-
सारं धरित्रीं वसुधां भर्तुरनन्तरम्
मनो रुन्धती मां भर्तुरिति मां विद्ध्यरुन्धतीम्
यातुधानी-
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
चण्डा-
चण्डं गतवती चण्डा चण्डा चण्डेति सञ्ज्ञिता
चण्डचणडेति चण्डेति विद्धि माऽनलसम्भवे
यातुधानी-
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्
पशुसखः-
सखे सखायस्सख्ये यः पशूनां च सदा सखा
गौण्यो पशुसखेत्येवं विद्धि मामग्निसम्भवे
यातुधानी-
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम्
शुनस्सखः-
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे
शुनां सदा सहायं मां यातुधान्युपधारय
यातुधानी-
नाम न व्यक्तमुक्तं वै वाक्यं सन्दिग्धया गिरा
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज
शुनस्सखः-
सकृदुक्तं मया नाम न गृहीतं यदि त्वया
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति मा चिरम्
भीष्मः-
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा
कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह
शुनस्सखश्च हत्वा तां यातुधानीं महाबलाम्
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत्
ततस्ते मुनयस्सर्वेः पुष्कराणि बिसानि च |
यथाकाममुपादाय समुत्तस्थुर्मुदाऽन्विताः
श्रमेण महता युक्तास्ते बिसानि कलापशः
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा
अथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन्
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः
ऋषयः-
केन क्षुधाभिभूतानामस्माकं पापकर्मणाम्
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम्
भीष्मः-
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः
त ऊचुश्शपथं सर्वे कुर्म इत्यरिकर्शन
त उक्त्वा बाढमित्येव सर्व एव शुनस्सखम्
क्षुधार्तास्सुपरिश्रान्ताश्शपथायोपचक्रमुः
अत्रिः-
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु
अध्यायेष्वधीयीत बिसस्तैन्यं करोति यः
वसिष्ठः-
अनध्यायपरो लोके शुनस्स परिकर्षतु
परिव्राट् कामवृत्तिस्तु बिसस्तैन्यं करोति यः
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु
अाशां काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः
काश्यप उवाच
सर्वत्र सर्वं पणतु न्यासलोपं करोतु च
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः
वृथा मांसानि चाश्नातु वृथा दानं करोतु च
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः
भरद्वाज उवाच
नृशंसस्त्यक्तधर्माऽस्तु स्त्रीषु ज्ञातिषु गोषु च |
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च |
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः
गौतमः-
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः
विश्वामित्रः-
विगुणान्बिभृयाद्भृत्यान्भरन्त्वस्य परे जनाः
दरिद्रो बहुपुत्रोऽस्तु बिसस्तैन्यं करोति यः
अशुचिर्ब्रह्मकूटोऽस्तु मिथ्या चैवाप्यहङ्कृतः
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः
जमदग्निः-
हर्षं करोतु भृतको राज्ञस्स्यात्स पुरोहितः
अयाज्यस्य भवेदृत्विक्बिसस्तैन्यं करोति यः
अरुन्धती-
नित्यं परिभवेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः
एका स्वादूनि चाश्नातु बिसस्तैन्यं करोति या
ज्ञातीनां गृहमध्यस्था सक्तूनां भुवि मक्षणे
अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या
चण्डा-
अनृतं भाषतु सदा साधुभिश्च विरुध्यतु
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या
सा चायित्वा स्वयं प्राशेद्दास्ये दिशयेत्तथैव सा
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या
पशुसखः-
दासभावं प्रजनयेत्सोऽप्रसूतिरकिञ्चनः
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः
शुनस्सखः-
अध्वर्यवे दुहितरं ददातु च्छन्दोगे वाऽऽचरितब्रह्मचर्ये
आथर्ववेदं समधीत्य विप्रस्स्नायीत यो वै हरते बिसानि
ऋषयः-
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः
त्वया कृतमिदं स्तैन्यं सर्वेषां नश्शुनस्सख
शुनस्सखः-
अन्नमेतदपश्यद्भिर्यदुक्तं कृतकर्मभिः
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया
मयाऽन्तर्हितानि सर्वाणि बिसानीमानि पश्यत
परीक्षार्थं भगवतां कृतमेवं मयाऽनघाः
रक्षणार्थं हि सर्वेषां भवतामहमागतः
यातुधानी ह्यपि क्रुद्धा कृत्यैषा वो वधैषिणी
वृषादर्विप्रयुक्तैषा निहता मे तपोधनाः
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा
तस्मादस्म्यागतं विप्रा वासवं मां निबोधत
अलोभादक्षया लोकाः प्राप्ता वस्सार्वकामिकाः
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः
भीष्मः-
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरन्दरम्
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम्
एवमेते महात्मानो योगैर्बहुविधैरपि
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः
नैव लोभं तदा चक्रुस्ततस्स्वर्गमवाप्नुवन्
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत्
एष धर्मः परो राजन्ब्राह्मणस्य प्रकीर्तितः
इदं नरस्सुचरितं समवायेषु कीर्तयेत्
सुखभागी च भवति न च दुर्गाण्यवाप्नुते
प्रीयन्ते पितरश्चास्य देवता ऋषयस्तथा
यशोधर्मार्थभागी च भवति प्रेत्य मानवः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम
राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः
पुरा प्रभासे ऋषयस्समागतास्समेता वै मन्त्रममन्त्रयन्त
चराम सर्वे पृथिवीं पुण्यतीर्थां तन्नः कार्यं हन्त गच्छाम सर्वे
शुक्रोऽङ्गिराश्चैव कविश्च विद्वांस्तथा ह्यगस्त्यो नारदः पर्वतश्च
भृगुर्वसिष्ठः काश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन्
ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती वालखिल्याः
शिबिर्दिलीपो नहुषोऽम्बरीषो राजा ययातिर्धुन्धुमारोऽथ पूरुः
जग्मुः पुरस्कृत्य महानुभावाश्शतक्रतुं वृत्रहणं नरेन्द्राः
तीर्थानि सर्वाणि परिक्रमन्तस्तां प्रत्यदीयुः कौशिकीं पुण्यतीर्थाम्
सर्वेषु तीर्थेषु विधूतपापा जग्मुस्ततो वै ब्रह्मसरस्सुपुण्यम्
देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः
केचिद्बिसान्यखनंस्तत्र राजन्नन्ये मृणालान्यखनंस्तत्र विप्राः
अथापश्यन्पुष्करं ते हृतं तं तदा ह्यगस्त्येन समुद्धृतं वै
तानाह सर्वानृषिमुख्यानगस्त्यः केनाहृतं वै पुष्करं मे सुजातम्
युष्माञ्शङ्के पुष्करं दीयतां मे न वै भवन्तो हर्तुमर्हन्ति पद्मम्
शृणोमि कालो हिंसते धर्मवीर्यं सेयं प्राप्ता वर्धते धर्मपीडा
पुराऽधर्मो वर्धते नेह तावद्यावद्गच्छामि परलोकं चिराय
पुरा वेदान्ब्राह्मणा ग्राममध्ये घुष्टस्वरान्वृषलान्श्रावयन्ति
पुरा राजा व्यवहारानधर्मान्पश्यत्यहं परलोकं व्रजामि
पुरा राजा प्रत्यवरान्गरीयसो मंस्यत्यथैनमनुयास्यन्ति सर्वे
धर्मोत्तरं यावदिदं न वर्तते तावद्व्रजामि परलोकं चिराय
पुरा प्रपश्यामि परेण मर्त्यान्बलीयसा दुर्बलान्भुज्यमानान्
तस्माद्यास्यामि परलोकं चिराय न ह्युत्सहे द्रष्टुमीदृङ्नृलोके
तमाहुरार्ता ऋषयो महर्षे न ते वयं पुष्करं चोरयामः
मिथ्याभिशंसा भवता न कार्या शपाम तीक्ष्णाञ्शपथान्महर्षे
ते निश्चितास्तत्र महर्षयस्तु सम्मानयन्तो धर्ममेवं नरेन्द्र
ततोऽकुर्वञ्शपथान्पर्ययेण सहैव तैः पार्थिव पुत्रपौत्रैः
भृगुः-
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत्
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम्
गौतमः-
अस्वाध्यायपरो लोके श्वानं च परिकर्षतु
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम्
काश्यपः-
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च
कूटसाक्षित्वमप्येतु यस्ते हरति पुष्करम्
वसिष्ठः-
जीवत्वहङ्कृतो बुद्ध्या कृपणत्वं समेतु सः
कर्षको मत्सरी वाऽस्तु यस्ते हरति पुष्करम्
अङ्गिराः-
अशुचिर्ब्रह्मकूटोस्तु श्वानं च परिकर्षतु
ब्रह्महा निकृतश्चास्तु यस्ते हरति पुष्करम्
धुन्धुमारः-
अकृतज्ञोऽस्तु मित्राणां शूद्रायां च प्रजायतु
एकस्सम्पन्नमश्नातु यस्ते हरति पुष्करम्
पुरूः-
चोरकार्थं प्रचरतु भार्यां वाचैव दुष्यतु
श्वशुरात्तस्य वृत्तिस्स्याद्यस्ते हरति पुष्करम्
दिलीपः-
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम्
शुक्रः-
पृष्ठमांसानि चाश्नातु यतिर्गच्छतु मैथुनम्
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम्
जमदग्निः-
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत्
श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम्
शिबिः-
अनाहिताग्निर्म्रियतां यज्ञविघ्नं करोतु च
तपस्विभिर्विरुध्येच्च यस्ते हरति पुष्करम्
नहुष उवाच
अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः
विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम्
ययातिः-
अनृतौ जटी व्रतिन्यां भार्यायां सम्प्रजायतु
निराकरोतु वेदांश्च यस्ते हरति पुष्करम्
अम्बरीषः-
नृशंसस्त्यक्तधर्माऽस्तु स्त्रीषु ज्ञातिषु गोषु च |
ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम्
नारदः-
गूढो ज्ञातिबहिश्शास्त्रं पठतां विस्वरं पदम्
गरीयसोऽवजानातु यस्ते हरति पुष्करम्
गाधिः-
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु
शुल्केन ददतु कन्यां यस्ते हरति पुष्करम्
कविः-
पदा च गां स्पृशतु ससूर्यं च प्रति मेहतु
शरणागतं च त्यजतु यस्ते हरति पुष्करम्
अष्टकः-
स राजाऽस्त्वकृतप्रज्ञः कामवृत्तोऽथ पापकृत्
अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम्
शुक्रः-
शूद्रयोनौ द्विजातिस्तु रेतो मुञ्चतु कामतः
सन्यासी मैथुनं गच्छेद्यस्ते हरति पुष्करम्
यमः-
औपासनविहीनस्तु देवब्राह्मणनिन्दकः
देवसत्राधिकार्यस्तु यस्ते हरति पुष्करम्
अरुन्धती-
श्वश्व्राऽपवादं वदतु भर्तुर्भवतु दुर्मनाः
एका स्वादु समश्नातु या ते हरति पुष्करम्
भारद्वाजः-
सदा वसतु सन्यासी ग्रामे वा नगरेऽपि वा
बन्धुभिस्सहवासोऽस्तु यस्ते हरति पुष्करम्
वालखिल्याः-
एकपादेन वृत्त्यर्थं ग्रामद्वारेषु तिष्ठतु
धर्मज्ञस्त्यक्तधर्माोऽस्तु यस्ते हरति पुष्करम्
पशुसखः-
अग्निहोत्रमनादृत्य स सुखं स्वपतु द्विजः
परिव्राट्कामवृत्तोस्तु यस्ते हरति पुष्करम्
भीष्मः-
ततस्तु तैश्शपथैश्शप्यमानैर्नानाविधैर्बहुभिः कौरवेन्द्र
सहस्राक्षो देवराट्सम्प्रहृष्यन्समीक्ष्य तं कोपनं विप्रमुख्यम्
अथाब्रवीन्मघवान्प्रत्ययं स्वं स्वयं समालभ्य तमृषिं जातरोषम्
ब्रह्मर्षिदेवर्षिराजर्षिमध्ये यं तं निबोधेह समेत्य राजन्
शतक्रतुः-
अध्वर्यवे दुहितरं ददातु छन्दोगे वाऽऽचरितब्रह्मचर्ये
अथर्वणं वेदमधीत्य विप्रस्स्नायीत यः पुष्करमाददाति
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः
ब्रह्मणस्सदनं यातु यस्ते हरति पुष्करम्
अगस्त्यः-
आशीर्वादस्त्वया प्रोक्तश्शपथो बलसूदन
दीयतां पुष्करं मह्यमेष धर्मस्सनातनः
इन्द्रः-
न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै
धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि
धर्मश्श्रुतस्समुत्कर्षो धर्मसेतुरनामयः
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः
तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम
अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित
भीष्मः-
इत्युक्तस्स महेन्द्रेण तपस्वी कोपनो भृशम्
जग्राह पुष्करं धीमान्प्रसन्नश्चाभवत्पुनः
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः
पुण्यतीर्थेषु च तदा गात्राण्याप्लावयन्ति ते
आख्यानं य इदं युक्तः पठेत्वर्वणि पर्वणि
न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः
न तमापत्स्पृशेत्काचिन्न ज्वरो नाप्यहङ्कृतिः
विरजाश्श्रेयसा युक्तः प्रेत्य सद्गतिमाप्नुयात्
यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम्
स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम