युधिष्ठिरः-
द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते
अन्नं ब्राह्मणकामाय कथमेतत्पितामह
भीष्मः-
अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारणैः
वेदोक्तेषु तु भुञ्जाना व्रतयुक्ता युधिष्ठिर
युधिष्ठिरः-
यदिदं तप इत्याहुरुपवासं पृथग्जनाः
तपस्स्यादेतादिह वै तपोऽन्यद्वाऽपि किं भवेत्
भीष्मः-
मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः
आत्मतन्त्रोपघाती स न तपस्वी न धर्मवित्
त्यागस्य चापि सम्पत्तिश्शिष्यते तप उत्तमम्
सदोपवासी च भवेद्ब्रह्मचारी तथैव च
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत्
कुटुम्बिको धर्मकामस्सदाऽस्वप्नश्च भारत
अमृताशी सदा च स्यात्पवित्री च सदा भवेत्
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत्
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः
अमांसाशी सदा च स्यात्पवित्री च सदा भवेत्
युधिष्ठिरः-
कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव
विघसाशी कथं च स्यात्तथा चैवातिथिप्रियः
भीष्मः-
अन्तरा सायमाशश्च प्रातराशस्तथैव च
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः
भार्या गच्छन्ब्रह्मचारी सदा चैव भवेन्नरः
ऋतवादी सदैव स्याद्दानशीलश्च मानवः
अभक्षयन्वृथा मांसं अमांसाशी भवत्युत
दानं ददत्पवित्री स्यादस्वप्नश्च दिवाऽस्वपन्
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरस्सदा
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः
अभोजनेन तेनास्य जितस्स्वर्गो भवत्युत
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिस्सह
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम्
तेषां लोका ह्यपर्यन्तास्सदने ब्रह्मणस्स्मृताः
उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप
देवतातिथिभिस्सार्धं पितृभिश्चोपभुञ्जते
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा