युधिष्ठिरः-
येन सङ्कल्पितं चैव तन्मे ब्रूहि पितामह
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम्
भृग्वङ्गिरसिके काले मुनिना कतरेण वा
कानि श्राद्धेषु वर्ज्यानि कानि मूलफलानि च
धान्यजात्यश्च का वर्ज्यास्तन्मे ब्रूहि पितामह
भीष्मः-
स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः
निमेश्चाप्यभवत्पुत्रश्श्रीमान्नाम श्रिया वृतः
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः
कालधर्मपरीतात्मा निधनं समुपागतः
निमिस्तु कृत्वा श्राद्धानि विधिदृष्टेन कर्मणा
सन्तापमगमत्तीव्रं पुत्रशोकपरायणः
अथ कृत्वोपकार्याणि चतुर्दश्यां महामतिः
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत
तस्यासीत्प्रतिबुद्धस्य शोकेन पहितात्मनः
मनस्संहृत्य विषये बुद्धिर्विस्तारगामिनी
ततस्सञ्चिन्तयामास श्राद्धकल्पं समाहितः
यानि तस्यैव भोज्यानि मूलानि च फलानि च
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः
अमावास्यां महाप्राज्ञो विप्रानानाय्य पूजितान्
दक्षिणावर्तिकास्सर्वा बृसीस्स्वयमथाकरोत्
सप्त विप्रांस्तस्य भोज्यान्युगपत्समुपानयत्
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते
कृत्वा च दक्षिणाग्नान्वै दर्भान्सुप्रयतश्शुचिः
प्रददौ श्रीमते पिण्डान्नामगोत्रमुदाहरन्
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः
बुद्ध्वाऽत्रिं मनसा दध्यौ भगवन्तं समाहितः
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम्
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः
अत्रिः-
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधन
ततो मे पूर्वधर्मोऽत्र दृष्टोऽयं ब्रह्मणा स्वयम्
सोऽयं स्वयम्भुविहितो धर्मस्सङ्कल्पितस्त्वया
ऋते स्वयम्भुवं कोऽन्यश्श्राद्धे संविधिमाहरेत्
अाख्यास्यामि च ते भूयश्श्राद्दीयं विधिमुत्तमम्
स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे
कृत्वा शरवणं पूर्वं मन्त्रपूतं तपोधन
तत्रार्यम्णे च सोमाय वरुणाय च नित्यशः
विश्वे दवाश्च ये नित्यं पितृभिस्सह गोचराः
तेभ्यस्सङ्कल्पितो भागास्स्वयमेव स्वयम्भुवा
स्तोतव्या चैव पृथिवी लोकस्यैव च धारिणी
वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च
उदगायतने चैव स्तोतव्यो वरुणो विभुः
ततोऽग्निश्चैव सोमश्च आराध्याविह तेऽनघ
देवास्तु पितरो नाम निर्मिता वै स्वयम्भुवा
ऊष्मपा ये महाभागास्तेषां भागः प्रकल्पितः
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात्
सप्तकाः पितृवंशास्तु पूर्वदृष्टास्स्वयम्भुवा
विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्वमेव ते
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम्
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा
ग्राम्यः क्षेम्यस्सुहुश्चैव दिव्यधातुस्तथैव च
विवस्वान्वीर्यवाञ्श्रीमान्कीर्तिमान्कृत एव च
विपूर्वस्सोमपूर्वश्च सूर्यश्रीश्चेति नामतः
सोमपस्सूर्यश्च सावित्रो दत्तात्मा पुण्डरीयकः
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च
शतद्रुहा सुवेश्मश्च व्योमारिश्शङ्करो भवः
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत्
गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा
सप्तकृत्सोमवर्चाश्च विश्वकः कविरेव च
अनुगोप्ता सुगोप्ता च नीराजश्वर एव च
जितात्मा मुनिवीर्यश्च दीप्तरोमा प्रभाकरः
अग्निकर्मा प्रतीतश्च प्रदातांशुमतिस्तथा
शैलाभः परमः क्रोधी धारोष्णी भूपतिस्तथा
स्रजी मञ्जीवरी चैव विश्वे देवास्सनातनाः
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा
हिङ्गु द्रवेषु शाकेषु मूलानां लशुनं तथा
पलाण्डुस्सौभाञ्जनकस्तथा गृञ्जनकादयः
कूश्माण्डकान्यलाबूनि कृष्णं लवणमेव च
ग्राम्यवाराहमांसं च यच्चैवाप्रोक्षितं भवेत्
कृष्णाजं जीरकं चैव शीतपाकी तथैव च
कुङ्कुमाद्यास्तथा वर्ज्या इह शृङ्गाटकानि च
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ||
निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम्
पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते
काषायवासी कुष्ठी वा पतितो ब्रह्महाऽपि वा
सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितस्तथा
वर्जनीय बुधैरेते निवापे समुपस्थिते
भीष्मः-
इत्येवमुक्त्वा भगवान्स्ववंशजमृषिः पुरा
पितामहसभां दिव्यां जगामात्रिस्तपोधनः
तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत
तर्पणं चाप्यकुर्वन्त तीर्थाम्भासि यतव्रताः
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत
तर्पिताः पितरो देवा नेहान्नं जरयन्ति वै
अजीर्णेनापि हन्यन्त देवताः पितृभिस्सह
सोममेवान्वपद्यन्त तेनाज्यान्नाभिपूजिताः
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः
निवापान्नेन पीड्यामश्श्रेयो नोऽत्र विधीयताम्
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं परम्
स्वयम्भूसदनं यात स वश्श्रेयो विधास्यति
ते सोमवचनाद्देवाः पितृभिस्सह भारत
मेरुशृङ्गे समासीनं पितामहमुपागमन्
पितरः-
निवापान्नेन भगवन्भृशं पीड्यामहे वयम्
प्रसादं कुरु नो देव श्रेयो नस्संविधीयताम्
भीष्मः-
ब्रह्मा-
इति तेषां वचश्श्रुत्वा स्वयम्भूरिदमब्रवीत्
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति
अग्निः-
सहितास्तस्य भोक्ष्यामो निवापे समुपस्थिते
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः
भीष्मः-
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वरा भवन्
एतस्मात्कारणाच्चाग्नेः प्राग्भागो दीयते नृप
निवापे चाग्निपूर्वं वै निवृत्ते पुरुषर्षभ
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत
रक्षांसि नाभिवर्धन्ते स्थिते देवे विभावसौ
ततः पूर्वं पितुर्दद्यात्पश्चाद्दद्यात्पितामहे
प्रपितामहाय च ततस्तावच्छ्राद्धविधिस्स्मृतः
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः
सोमायेति च वक्तव्यं तथा पितृमतेति च
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या
निवापे नोपतिष्ठेते न ग्राह्या प्यस्य वंशजा
जलं प्रतरमाणश्च कीर्तयेत पितामहान्
नदीमासाद्य कुर्वीत पितणां पितृतर्पणम्
पूर्वं स्ववंशजानां तु कृत्वाऽद्भिस्तर्पणं पुनः
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम्
कल्माषगोयुगेनाथ युक्तेन तरतो जलम्
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहिताः
तदा नादीजलं तज्ज्ञाः प्रयच्छन्ति समाहिताः
मासार्धे कृष्णपक्षस्य कुर्यान्निर्वपणानि वै
पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा
अङ्गिराश्च क्रतुश्चैव काश्यपश्च महानृषिः
एते कुरुकुलश्रेष्ठ महायोगेश्वरास्स्मृताः
एते च पितरो राजन्नेष श्राद्धविधिः परः
प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा
इति ते पुरुषव्याघ्र श्राद्धोत्पत्तिर्यथाक्रमम्
ख्यापिता पूर्वनिर्दिष्टा किं ते वक्ष्याम्यतः परम्