युधिष्ठिरः-
कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि
भीष्मः-
ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित्
दैवे कर्मणि पित्र्ये तु न्यायमाहुः परीक्षणम्
देवताः पावयन्तीह दैवेनैवेह तेजसा
उपेत्य तस्मिन्देवभ्यस्सर्वेभ्यो दापयेन्नरः
श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्मिथः
कुलशीलवयोरूपैर्विद्ययाऽभिजनेन च
एषामन्ये पङ्क्तिदूष्यास्तथाऽन्ये पङ्क्तिपावनाः
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः
ग्रामप्रेष्यो वार्धुषिको गायनस्सर्वविक्रयी
अगारदाही गरदः कुण्डाशी सोमविक्रयी
सामुद्रो राजभृतकस्तैलिकः कूटकारिकः
पित्रा विभजमानश्च यस्य चोपपतिर्गृहे
अभिशस्तस्तथा स्तेनश्शिल्पं यश्चोपजीवति
कर्मकारश्च मूली च मित्रध्रुक्पारदारिकः
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च
श्वभिर्यश्च परिक्रामेद्यश्शुना दष्ट एव च
परिवित्तिश्च यश्च स्याद्यश्च स्याद्गुरुतल्पगः
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति
एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान्
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः
कुष्ठीं काणश्शतं वन्दी श्वित्री यावत्प्रपश्यति
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप
यद्वेष्टितशिरा भुङ्क्ते भुङ्क्ते यद्दक्षिणामुखः
सोपानत्कोऽन्नमश्नाति सर्वं विद्यात्तदासुरम्
असूयता च यदत्तं यच्च श्रद्धाविवर्जितम्
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत्
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन
तस्मात्परिसृते दद्यात्तिलांश्चान्ववकीरयेत्
तिलदानेऽप्यदायादा ये च क्रोधवशा गणाः
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः
यावद्ध्यपाङ्क्त्यः पाङ्क्त्या वै समासीनान्प्रपश्यति
तावत्फलाद्भ्रंशयति दातारं तस्य बालिशः
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः
हेतुतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान्
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनायुत
अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः
सत्यवादी दानशीलस्स्वकर्मनिरतश्च यः
ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः
ये च पुण्येषु तीर्थेषु ह्यभिषेककृतश्रमाः
मखेषु च सहस्रेषु भवन्त्यवभृथप्लुताः
अक्रोधना ह्यचपलाः क्षान्ताः दान्ता जितेन्द्रियाः
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रय
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः
इमे परे महाभागा विज्ञेयाः पङ्क्तिपावनाः
यतयो मोक्षधर्मज्ञा योगिनश्चरितव्रताः
पञ्चरात्रविदो मुख्यास्तथा भागवताः परे
वैखानसाः कुलश्रेष्ठा वैदिकाचारचारिणः
ये चेतिहासं प्रयताश्श्रावयन्ति द्विजोत्तमान्
ये च भाष्यविदः केचिद्ये च व्याकरणे रताः
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च
अधीत्य च यथान्यायं विधिवत्तस्य कारिणः
उपपन्नो गुरुकुले सत्यवादी सहस्रशः
अग्र्यास्सर्वेषु वेदेषु सर्वप्रवचनेषु च
यावदेते प्रपश्यन्ति पङ्क्तीस्तावत्पुनन्ति च
ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते
क्रोशादर्धतृतीयात्तु पावयेदेक एव च
अनृत्विगनुपाध्यायस्स चेदग्रासनं व्रजेत्
ऋत्विग्भिरभ्यनुज्ञातः पङ्क्त्या हरति दुष्कृतम्
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः
तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान्
स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रतान्
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च
न प्रीणन्ति पितॄन्देवान्स्वर्गं च न स पश्यति
यश्च श्राद्धेषु कुरुते सङ्गतानि न देवयानेन पथा स याति
स वै मुक्तः पिप्पलबन्धनाद्धि स्वर्गाल्लोकच्च्यवते श्राद्धमित्रः
तस्मान्मित्रं श्राद्धतो नाददीत दद्यान्मित्रेभ्यस्सङ्ग्रतार्थं धनानि
यं मन्यते नैव शत्रुं न मित्रं तं मध्यस्थं भोजयेद्धव्यकव्यैः
यथोषरे बीजमुप्तं न रोहेन्न चास्योप्ता प्राप्नुयाद्बीजभागम्
एवं श्राद्धं भुक्तमनर्हमाणैर्न चेह नामुत्र फलं ददाति
ब्राह्मणोऽप्यनधीयानस्तृणाग्निरिव शाम्यति
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते
सम्भोजनी नाम पिशाचदक्षिणा सा नैव देवान्न पितॄनुपैति
इहैव सा भ्राम्यति हीनपुण्या शालान्तरे गौरिव नष्टवत्सा
तथा दत्तं नर्तके गायके च यथाऽनृचे दक्षिणा दीयते वै
उभौ हिनस्ति न भुनक्ति चैषा येनानृते दक्षिणा दीयते वै
आघादिनी गर्हिमेषां पतन्ती तेषां प्रेतान्पातयेद्देवयानात्
ऋषीणां समये नित्यं ये रक्षन्ति युधिष्ठिर
निश्चितान्सर्वधर्मज्ञांस्तादृशान्ब्राह्मणान्विदुः
स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत
तत्र ये ब्राह्मणाः केचिन्न च निदन्ति ते पराः
ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत्
ब्राह्मणा निन्दिता राजन्हन्युस्त्रैपुरुषं कुलम्
वैखानसानां वचनमृषीणां श्रूयते नृप
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान्
प्रियान्वा यदि वा द्वेष्यस्तेषु तच्छ्राद्धमावपेत्
यस्सहस्रं सहस्राणां भोजयदेनृचो नरः
एकस्तान्मन्त्रवित्प्रीतस्सर्वानर्हति भारत