युधिष्ठिरः-
किंस्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वरः
किंस्विद्बहुफलं प्रोक्तं किमानन्त्याय कल्पते
भीष्मः-
ब्रवीमि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः
तानि मे शृणु वक्ष्यामि फलं चैषां युधिष्ठिर
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलैः फलैस्तथा
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप
वर्धमानफलं चैवमक्षयं मनुरब्रवीत्
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतस्स्मृताः
द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह
त्रीन्मासानाविकेनाहुश्चतुर्मासं शशेन तु
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी
आन्त्याय भवेद्दतं खड्गमांसं पितृक्षये
कालशाकं च रोहं चाप्यानन्त्यं छाग उच्यते
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर
सनत्कुमारो भगवान्पुरा अभ्यभाषत
अपि नस्स्वकुले जायाद्यो नो दद्यात्त्रयोदशीम्
मघासु सर्पिषा युक्तं पायसं दक्षिणायने
आजेन वाऽपि रोहेन मघास्वेव यतव्रतः
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम्
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः
आपो मूलं घृतं मांसमन्नं वाऽपि पितृक्षये
यत्किञ्चिन्मधुना मिश्रं तदानन्त्याय कल्पते
यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक्
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः
अग्नीनाधाय सापत्यो यजेत विगतज्वरः
अपत्यकामो रोहिण्यामाजस्कामो मृगोत्तमे
क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत्
कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ
पुष्टिकामस्तु पुष्ये वै श्राद्धमीहेत मानवः
आश्लेषायां ददच्छ्राद्धं वीरान्पुत्रान्प्रजायते
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावहन्
फल्गुनीषु ददच्छ्राद्धं सुभगश्श्राद्धदो भवेत्
अपत्यवानुत्तरासु हस्तेषु फलभाग्भवेत्
चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतस्सुतान्
स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति
बहुपुत्रो विशाखासु पुतॄनिह यजन्नरः
अनुराधासु कुर्वाणो राज्यचक्रं प्रवर्तयेत्
आधिपत्यं लभेन्मर्त्यो ज्येष्ठायामपवर्तयन्
नरः कुरुकुलश्रेष्ठ ऋद्धो दमपुरस्सरः
मूले त्वारोग्यमृच्छेत यशोऽषाढास्वनुत्तमम्
उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम्
श्राद्धं त्वभिजितौ कुर्वन्विद्यां श्रेष्ठामवाप्नुयात्
श्रवणे श्रुतिसम्पत्तिं धनिष्ठासु धनं लभेत्
तथा शतभिषग्योगे व्याधिमोक्षं बलं तथा
पूर्वप्रोष्ठपदां कुर्वन्बहु विन्देदजाविकाम्
उत्तरास्वथ कुर्वाणो विन्दते रेवतीं श्रितः
बहु रूप्यकृतं वित्तं विन्दते रेवतीं श्रितः
अश्वांश्चाश्वयुजे चेति भरणीष्वायुरुत्तमम्
इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाऽकरोत्
अक्लेशेनाजयच्चापि महीं सोऽनुशशास च