युधिष्ठिरः-
चातुर्वर्ण्यस्य धर्मात्मन्धर्माः प्रोक्तास्त्वयाऽनघ
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव
वैशम्पायनः-
युधिष्ठिरेणैवमुक्तो भीष्मश्शान्तनवस्तदा
इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे
भीष्मः-
शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम्
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्
पिशाचकिन्नराणां च पूज्या वै पितरस्सदा
पितॄन्पूज्य ततः पश्चाद्देवान्सन्तर्पयीत वै
तस्मात्तान्सर्वयत्नेन पुरुषः पूजयेत्पितॄन्
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते
तच्चामिषेण विधिना विधिः प्रथमकल्पितः
सर्वेष्वहस्सु प्रीयन्ते कृतैश्श्राद्धैः पितामहाः
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान्
पिण्डानां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः
तदामिषेण कुर्वीत प्रयतः प्राञ्जलिश्शुचिः
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां दिने गुणान्
येष्वहस्सु कृतैश्श्राद्धैर्यत्फलं प्राप्यते महत्
तत्सर्वं कीर्तयिष्यामि फलवत्तन्निबोध मे
पितॄनर्चन्प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप
कुर्वाणास्तु नराष्षष्ठ्यां भवन्ति द्यूतभागिनः
कृषिभागी भवेच्छ्राद्धं कुर्वाणस्सप्तमीं नृप
कुर्वाणस्त्वष्टमीं पुष्टिं वाणिज्ये लाभमाप्नुयात्
नवम्यां कुर्वतश्श्राद्धं भवत्येकशफं बहु
विवर्धन्ते तु दशमीं गावश्श्राद्धानि कुर्वतः
रूप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप
ब्रह्मवर्चस्विनः पुत्रा जायन्ते चात्मवेश्मनि
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते
रजतं बहुवित्तं च सुवर्णं च मनोरमम्
ज्ञातीनां तु भवेच्छ्रेष्ठश्श्राद्धं कुर्वंस्त्रयोदशीम्
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे
युद्धभागी भवेन्मर्त्यश्श्राद्धं कुर्वंश्चतुर्दशीम्
अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात्
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्
श्राद्धकर्मणि तिथ्यस्युः प्रशस्ता न तथेतराः
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते