युधिष्ठिरः-
उक्तं पितामहेनेदं गवां दानमनुत्तमम्
विशेषेण नरेन्द्राणामिह धर्ममवेक्षताम्
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः
परिचारेषु वै दुःखं दुर्धरं चाकृतात्मभिः
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः
पूयन्ते ते तु नियतं प्रयच्छन्तो वसुन्धराम्
पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन
एवमेव गवामुक्तं प्रदानं ते नृगेण ह
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम्
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणाः
सर्वक्रतुषु चोद्दिष्टा भूमिर्गावोऽथ काञ्चनम्
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम्
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम्
किन्दानं किम्फलं चैव कस्माच्च परमुच्यते
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्
परमं दक्षिणार्थे च तन्मे ब्रूहि पितामह
भीष्मः-
शृणु राजन्नवहितो बहुकारणविस्तरम्
जातरूपसमुत्पत्तिमनुभूतं च यन्मया
पिता मम महातेजाश्श्तनुर्निधनं गतः
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागतः
तत्राहमागत्य पितुश्श्राद्धकर्म समारभम्
माता मे जाह्नवी चैव साहाय्यमकरोत्तदा
तत्रागतांस्तपस्सिद्धानुपवेश्य बहूनृषीन्
तोयप्रदानात्प्रभृति कार्याण्यथ समारभम्
तत्समाप्य यथोद्दिष्टं सर्वं कर्म समाहितः
दातुं निर्वपणं सम्यग्यथावदहमारभम्
ततस्स दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशाम्पते
मुहूर्तमपि तं दृष्ट्वा परं विस्मयमागमम्
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ
ततो मे पुनरेवासीत्सञ्ज्ञा सञ्चिन्त्य शास्त्रतः
नायं वेदेषु विहितो विधिर्हस्त इति प्रभो
पिण्डो देयो नरेणेह ततो मतिरभून्मम
साक्षाद्देहं मनुष्यस्य पितरोऽन्तर्हिताः क्वचित्
गृह्णन्ति विहितं देयं पिण्डो देयः कुशेष्विति
ततोऽहं तदपाक्रम्य पितुर्हस्तनिदर्शनम्
शास्त्रप्रामाणसूक्ष्मार्थमिमं पार्थिव संस्मरे
ततो दर्भेषु तत्सर्वमददं भरतर्षभ
शास्त्रमार्गानुसारेण तद्विद्धि त्वं युधिष्ठिर
ततस्सोऽन्तर्हितो बाहुः पितुर्मम जनाधिप
ततो मां दर्शयामासुस्तृप्तास्ते पितरस्तथा
प्रीयमाणास्स्म मामूचुः प्रीतास्स्म भरतर्षभ
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः
त्वया हि कुर्वता शास्त्रं प्रमाणमिह भारत
आत्मा धर्मश्श्रुतं वेदाः पितरश्च महर्षिभिः
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः
प्रमाणमुपनीता वै स्थिताश्च न विचालिताः
तदिदं सम्यगारब्धं त्वयाऽद्य भरतर्षभ
किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः
पाविता वै भविष्यन्ति पावनं परमं हि तत्
नवपूर्वानधश्चान्यान्नव सन्तारयन्ति ते
सुवर्णं ये प्रयच्छन्तीत्येवं मां पितरोऽब्रुवन्
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते
सुवर्णदानेऽकरवं मतिं च भरतसत्तम
इतिहासमिमं चापि शृणु राजन्पुरातनम्
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै
त्रिस्सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम्
वाजिमेधं महाराज सर्वकामसमन्वितम्
पावनं सर्वभूतानां तेजोवीर्यविवर्धनम्
विपाप्माऽपि च तेजस्वी तेन क्रतुबलेन च
नैवात्मनोऽथ लघुतां जामदग्न्योऽध्यगच्छत
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता
पप्रच्छागमसम्पन्नानृषीन्देवांश्च भारत
पावनं परमं नॄणामुग्रे कर्मणि वर्तताम्
तदुच्यतां महाभागा इति रामो वचोऽब्रवीत्
प्रत्युवाच ततस्तेषां वसिष्ठो भगवानृषिः
वसिष्ठः-
देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत
अग्निर्हि देवतास्सर्वास्सुवर्णं च तदात्मकम्
तस्मात्सुवर्णं ददता दत्तास्सर्वाश्च देवताः
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः
भूय एव च महात्म्यं सुवर्णस्य निबोध मे
वदतो मम विप्रर्षे सर्वशस्त्रभृतां वर
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन
प्रजापतेः कथयतो मनोस्स्वायम्भुवस्य वै
शूलपाणेर्भगवतो रुद्रस्यापि महात्मनः
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन
समागमे भगवतो देव्या सह महात्मनः
ततस्सर्वे समुद्विग्ना भगवन्तमथागमन्
ते महादेवमासीनं देवीं च वरदामुमाम्
प्रसाद्य सगणं सर्वे रुद्रमूचुस्सुरेश्वराः
देवाः-
अयं समागमो देव देव्या सह तवानघ
तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः
अमोघतेजास्त्वं देव देवी चेयमुमा तथा
अपत्यं युवयोर्देव बलवद्भविता प्रभो
तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया
अपत्यार्थं निगृह्णीष्व तेजो ज्वलनमुत्तमम्
वसिष्ठः-
उमा-
इति तेषां कथयतां भगवान्वृषभध्वजः
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत
तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै
तस्मात्प्रजा वः खगमास्सर्वेषां न भविष्यति
वसिष्ठः-
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह
देवा देव्यास्ततश्शापादनपत्यास्तदाऽभवन्
रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा
प्रस्कन्नं तु ततस्तस्मात्किञ्चित्तत्रापतद्भुवि
तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम्
तेजस्तेजसि सम्पृक्तमेकयोनित्वमागतम्
एतस्मिन्नेव काले तु देवाश्शक्रपुरोगमाः
असुरस्तारको नाम तेन सन्तापिता भृशम्
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि
साध्याश्च सर्वे सन्त्रस्ता दैतेयस्य पराक्रमात्
स्थानानि देवतानां हि विमानानि पुराणि च
ऋषीणामाश्रमाश्चापि बभूवुरसुरैर्हृताः
ते दीनमनसस्सर्वे देवता ऋषयश्च ह
प्रजग्मुश्शरणं देवं ब्रह्माणमजरं विभुम्
देवाः-
असुरस्तारको नाम त्वया दत्तवरः प्रभो
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम्
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः
ब्रह्मा-
समोऽहं सर्वभूतानामधर्मं तं न रोचये
हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधिता
वेदा धर्माश्च नोत्सादं गच्छेयुस्सुरसत्तमाः
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः
देवाः-
वरदानाद्भगवतो दैतेयो बलगर्वितः
देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत्
स हि नैव स्म देवानां नासुराणां न रक्षसाम्
वध्यस्स्यामिति जग्राह वरं त्वत्तः पितामह
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुराकृते
न भविष्यति वोऽपत्यमिति सर्वजगत्पते
ब्रह्मा-
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः
स उत्पादयिताऽपत्यं वधाय त्रिदशद्विषाम्
तद्वै देवानतिक्रम्य देवदानवराक्षसान्
मानुषानथ गन्धर्वान्नागानपि च पक्षिणः
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति
यतो वो भयपुत्पन्नं ये चान्ये सुरशत्रवः
सनातनो हि सङ्कल्पः काम इत्यभिधीयते
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च यत्
तत्तजोऽग्निर्महद्भूतं द्वितीयमिव पावकम्
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति
स तु नावाप तं शापं नष्टस्स हुतभुक्तदा
तस्माद्वो न भयं देवास्समुत्पत्स्यति पावकिः
अन्विष्य तं वै ज्वलनं तथा चाद्य नियुज्यताम्
तारकस्य वधोपायः कथितो वो मयाऽनघाः
न हि तेजस्विनां शापास्तेजसः प्रभवन्ति वै
बलान्यतिबलं प्राप्य न बलानि भवन्ति वै
हन्यादवध्यान्वरदानपि चैव तपस्विनः
सङ्कल्पाभिरुचिः कामस्सनातनसमोऽनलः
जगत्पतिरनिर्देश्स्सर्वगस्सर्वभावनः
हृच्छयस्सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः
अन्विष्यतां ततः क्षिप्रं तेजोराशिर्हुताशनः
स वो मनोगतं कामं देवस्सम्पादयिष्यति
वसिष्ठः-
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः
जग्मुस्संसिद्धसङ्कल्पाः पर्यटन्तो विभावसुम्
ततस्त्रैलोक्यमृषयो व्यचिन्वन्तस्सुरैस्सह
काङ्क्षन्तो दर्शनं वह्नेस्सर्वे तद्गतमानसाः
परेण तपसा युक्ताश्श्रीमन्तो लोकविश्रुताः
लोकानन्वचरन्सिद्धास्सर्व एव भृगूद्वह
नष्टमात्मनि संलीनं नाभिजग्मुर्हुताशनम्
ततस्ताञ्जातसन्त्रासानग्नेर्दर्शनलालसान्
जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः
उवाच देवान्मण्डूको रसातलतलोत्थितः
मण्डूकः-
रसातलतले देवा वसत्यग्निरिति प्रभुः
सन्तापादिह सम्प्राप्तः पावकप्रभवादहम्
स संसुप्तो जले देवा भगवान्हव्यवाहनः
अपस्संसृज्य तेजोभिस्तेन सन्तापिता वयम्
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः
तत्रैवमधिगच्छध्वं कार्यं वो वह्निना यदि
वसिष्ठः-
मृग्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्
हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम्
शशाप तं समासाद्य न रसान्वेत्स्यसीति वै
स तं संयुज्य शापेन मण्डूकं पावको ययौ
अन्यत्र वासाय विभुर्न च देवानदर्शयत्
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह
यत्तच्छृणु महाबाहो गदतो मम सर्वशः
देवाः
अग्निशापादजिह्वा हि रसज्ञानबहिष्कृताः
सरस्वतीं बहुविधां यूममुच्चारयिष्यथ
बिलवासगताश्चाथ निरादाना विचेतसः
गतासूनपि वश्शुष्कान्भूमिस्सन्धारयिष्यति
तमोघनायामपि वै निशायां विचरिष्यथ

इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम्
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम्
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः
अश्वत्थस्थोऽग्निरित्येवमाह देवान्भृगूद्वह
शशाप ज्वलनस्सर्वान्द्विरदान्क्रोधमूर्च्छितः
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह
इत्युक्त्वा निस्सृतोऽश्वत्थादग्निर्वारणसूचितः
प्रविवेश शमीगर्भमथ वह्निस्सुषुप्सया
अनुग्रहं तु नागानां यं चक्रुश्शृणु तं प्रभो
देवा भृगुकुलश्रेष्ठ प्रीतास्सत्यपराक्रमाः
देवाः-
वसिष्ठः-
प्रतीपया जिह्वयाऽपि सर्वाहारान्हरिष्यथ
वाचश्चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षराः
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः
अश्वत्थान्निस्सृतश्चाग्निश्शमीगर्भगतस्तदा
शुकेन ख्यापितो विप्र तं देवस्समुपाद्रवन्
शशाप सुकमग्निस्तु वाग्विहीनो भविष्यसि
जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा
देवाः-
दृष्ट्वा तु ज्वलनं देवाश्शुकमूचुर्दयान्विताः
भविता न त्वमत्यन्तं शुकत्वे नष्टवागिति
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति
बालस्येव प्रवृत्तस्य कलमव्यक्तमद्भुतम्
वसिष्ठः-
इत्युक्त्वा तं शमीगर्भं वह्निमालक्ष्य देवताः
तदेवायतनं चक्रुः पुण्यं सत्यं क्रियास्वपि
तदाप्रभृति चाप्यग्निश्शमीगर्भेषु दृश्यते
उत्पादने तथोपायमभिजग्मुश्च मानुषाः
आपो रसातले यास्तु संस्पृष्टाश्चित्रभानुना
तास्सर्वतःप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव
पावकेनाधिशयतास्सन्तप्तास्तस्य तेजसा
तथाऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा
किमागमनमित्येतत्तानपृच्छच्च पावकः
तमूचुर्विबुधास्सर्वे ते चैव परमर्षयः
देवाः-
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति
कृते च तस्मिन्भविता तवापि सुमहान्गुणः
अग्निः-
ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः
भवतां विनियोज्योऽहं न मेऽत्रास्ति विचारणा
देवाः-
असुरस्तारको नाम ब्रह्मणो वरदर्पितः
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम्
इमान्देवगणांस्तात प्रजापतिगणांस्तथा
ऋषींश्चापि महाभागान्परित्रायस्व पावक
अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन
शप्तानां नो महादेव्या नान्यदस्ति परायणम्
अन्यत्र भवतो वीर तस्मात्त्रायस्व नस्ततः
वसिष्ठः-
इत्युक्तस्स तथेत्युक्त्वा भगवान्हव्यकव्यभुक्
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति
तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा
तेजसा तस्य देवस्य गङ्गा विह्वललोचना
सन्तापमगमत्तीव्रं प्रवोढुं न शशाक ह
आहिते ज्वलनेनाथ गर्भे तेजस्समन्विते
गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत्
अबुद्धिपतितेनाथ नादेन विपुलेन सा
वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना
विसञ्ज्ञा नाशकद्गर्भं सन्धारयितुमात्मना
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी
उवाच वचनं विप्र तदा बाला हुताशनम्
गङ्गा-
न ते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे
विमूढाऽस्मि कृता तेन यथा स्वस्थं पुरा कृतम्
विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ
धारणे नास्य शक्ताऽहं गर्भस्य तपतां वर
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन
न तेजसाऽस्ति संस्पर्शो मम देव विभावसो
आपदर्थे हि सम्बन्धस्सुसूक्ष्मोऽपि महाद्युते
यदत्र गुणसम्पन्नमितरद्वा हुताशन
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ
चसिष्ठः-
तामुवाच ततो वह्निर्धार्यतां धार्यतामयम्
गर्भो मत्तेजसा युक्तो महागुणफलोदयः
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा
न हि ते किञ्चिदप्राप्यमन्यतो धारणादृते
एवमुक्ता तु सा देवी तत्रैवान्तरधीयत
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्
जगामेष्टं तदा देशं ततो भार्गवनन्दन
सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा
समर्था धारणेनापि रुद्रतेजःप्रधर्षिता
नाशकन्ती तदा गर्भं सन्धारयितुमोजसा
सा समुत्ससर्ज तं दुःखाद्दीप्तवैश्वानरप्रभम्
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भस्सुखोदयः
कीदृग्गुणोऽपि वा देवि कीदृग्रूपश्च दृश्यते
तेजसा केन वा युक्तस्सर्वमेतद्ब्रवीहि मे
गङ्गा-
जातरूपस्स गर्भो वै तेजसा त्वमिवानघ
सुवर्णो विमलो दीप्तः पर्वतं चावभासयन्
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः
गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत
पर्यधावद्धि शैलांश्च नदीप्रस्रवणानि च
व्यादीपयत्तेजसा च त्रैलोक्यं सचराचरम्
एवंरूपस्स भगवान्पुत्रस्ते हव्यवाहन
वसिष्ठः-
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्
जातस्नेहास्तु तं बालं पुपुषुस्स्तन्यविस्रवैः
स ततः कार्तिकेयत्वमवाप परमद्युतिः
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत्
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम्
ततःप्रभृति चाप्येतञ्जातरूपमुदाहृतम्
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः
पवित्राणां पवित्रं हि कनकं द्विजसत्तम
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम्
रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम्
एतेन कर्मणा लोके ततोऽग्निः परिगीयते
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तदा
पृथिवी च तदा देवी ख्याता वसुमतीति वै
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम्
ऐश्वर्ये वारुणे वाऽथ रुद्रस्येशस्य वै प्रभो
आजग्मुर्मुनयस्सर्वे देवाश्चाग्निपुरोगमाः
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान्
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः
लक्षणानि स्वरास्तोभा निरुक्तास्स्वरपङ्क्तयः
ऋग्वेदोऽथर्ववेदश्च पदक्रमविभूषितः
ओङ्कारश्छन्दसां नेता निग्रहप्रग्रहौ तथा
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च
भूतं भव्यं भविष्यच्च दधार शिरसा शिवः
जुहुवुश्चात्मनाऽऽत्मानं स्वयश्चैव तदा प्रभुः
देवपत्न्यश्च कन्याश्च देवतानां च मातरः
आजग्मुस्सहितास्तत्र तदा भृगुकुलोद्वह
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः
स्वयम्भुवस्तु ता दृष्ट्वा रेतस्समपतद्भुवि
तस्य शुक्रस्य निष्यन्दान्पांसून्सङ्गृह्य भूमितः
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह
स्कन्नमात्रं च तच्छुक्रं स्रुवेण परिगृह्य सः
आज्यवन्मन्त्रतश्चापि सोऽजुहोद्भृगुनन्दन
ततस्सञ्जनयामास भूतग्रामं स वीर्यवान्
ततम्तु तत्तेजसस्तस्माज्जज्ञे लोकेषु तैजसम्
तमसस्तामसो भावो व्यापि सत्त्वं तमोमयात्
सगुणस्तेजसो नित्यं तमस्याकाश एव च
सर्वभूतेष्वपि तथा ससत्त्वस्तैजसस्तमः
शुक्ले हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो
पुरुषा वपुषा युक्ता युक्ताः प्रवरजैर्गुणैः
भर्जनाद्भृगुरित्येवमङ्गारादङ्गिराभवत्
सह यज्वभिरुत्पन्नो भृगुस्तस्माद्गुरुस्स्मृतः
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्
अङ्गोरभ्योऽङ्गिरास्तात वालखिल्याश्शिलोच्चयात्
अत्रेरत्रिं च हि विभो जातमेवं वदन्त्यपि
तथाऽग्नेस्तस्य भस्मभ्यो ब्रह्मर्षिगणसम्मिताः
वैखानसास्समुत्पन्नास्तथा भूतगुणेप्सवः
अश्रुतश्च समुत्पन्नावश्विनौ रूपसम्मतौ
शेषाः प्रजानां पतयस्स्रोतोभ्यस्तस्य जज्ञिरे
ऋषयो रोमकूपेभ्यस्स्वेदाच्छन्दो बलान्मखः
एतस्मात्कारणादाहुरग्निस्सर्वा हि देवताः
ऋषयश्श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात्
यानि दारूणि ते मासा निर्यासाः पक्षसञ्ज्ञिताः
अहोरात्रा मुहूर्ताश्च वीतज्योतिश्च वारुणम्
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम्
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवस्स्मृताः
अर्चिषो याश्च ते रुद्रास्तथाऽऽदित्या महाप्रभाः
उद्दीप्तास्ते तथाऽङ्गारा ये धिष्ण्येषु दिवि स्थिताः
अग्निर्नाथश्च लोकस्य तत्परं ब्रह्म तद्भुवम्
सर्वकामदमित्याहुस्तत्र हव्यमुपावहन्
ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः
श्रीमहादेवः-
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः
इति जानीत खगमा मम यज्ञफलं हि तत्
अग्निः-
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च
मम चैतान्यपत्यानि मम शुक्लं हुतं हि तत्
श्रीमहादेवः-
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम्
वसिष्ठः-
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै
कृताञ्जलिपुटास्सर्वे शिरोभिरभिवन्द्य च
देवाः-
वयं च भगवन्सर्वे जगच्च सचराचरम्
तवैव प्रसवं सर्वं तस्मादग्निर्विभावसुः
वरुणश्चेश्वरो देवो वहतां काममीप्सितम्
निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः
जग्राह वै भृगु पूर्वमपत्यं सूर्यवर्चसम्
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थे ह्यकल्पयत्
पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित्
तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत्
आग्नेयस्त्वङ्गिराश्श्रीमान्कविर्ब्राह्मो महायशाः
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणाः
एते विप्रवरास्सर्वे प्रजानां पतयस्त्रयः
सर्वं सन्तानमेतेषामिदमित्युपधारय
भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च
शुक्रो वरेण्यश्च विभुस्सवनश्चेति सप्त ते
भार्गवा वारुणास्सर्वे येषां वंशे भवानपि
अष्टावङ्गिरसः पुत्रा वारुणास्तेऽप्यवारुणाः
बृहस्पतिरुचथ्यश्च वयस्यश्शान्तिरेव च
घोरो विरूपस्संवर्तस्सुधन्वा चाष्टमस्स्मृतः
एतेऽष्टावग्निजास्सर्वे पावकिश्चाङ्गिरा विभुः
ब्राह्मणाश्च कवेः पुत्रा वारुणास्तेऽप्युदाहृताः
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदश्शुभाः
कविः काव्यश्च विष्णुश्च बुद्धिमानुशना तथा
भृगुश्च वरुणश्चैव काश्यपोऽग्र्यश्च धर्मवित्
अष्टौ कविसुता ह्येते सर्वमेतज्जगत्ततम्
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः
भृगोश्च भृगुशार्दूल वंशजैस्सन्ततं जगत्
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः
कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ
जग्राहाङ्गिरसं देवश्शिखी तस्माद्धुताशनः
तस्मादाङ्गिरसा ज्ञेयास्सर्व एव हुताशनः
वसिष्ठः-
ब्रह्मा-
ब्रह्माऽपि चाहवैः पूर्वं देवताभिः प्रसादितः
इमे सञ्जनयिष्यन्ति प्रजा हि जगदीश्वराः
सर्वे प्रजानां पतयस्सर्वे चापि तपस्विनः
मत्प्रभावदिमं लोकं धारयिष्यन्ति शाश्वतम्
तथैव वंशकर्तारस्तव तेजोविवर्धनाः
भवेयुर्वेदविदुषस्सर्वासां पतयस्तथा
देवपक्षचरास्सौम्याः प्राजापत्या महर्षयः
अनन्तं ब्रह्म सत्यं च तपश्च परमं भुवि
देवाः-
सर्वे हि वयमेतावत्तवैव प्रसवा प्रभो
देवानां ब्राह्मणानां च त्वं च कर्ता पितामह
मारीचमादितः कृत्वा सर्वे ते भवतस्तव
अपत्यानीति सम्प्रेक्ष्य क्षमाम च पितामह
अथ स्वेनैव रूपेण प्रजनिष्यन्ति वै प्रभो
स्थापयिष्यन्ति चात्यर्थं युगान्तनिधनाः प्रजाः
वसिष्ठः-
एवमेतत्पुरावृत्तं तस्मिन्यज्ञे महात्मनः
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम्
अग्निर्ब्रह्मा पशुपतिश्शर्वो रुद्रः प्रजापतिः
अग्नेरपत्यमेते हि सुवर्णमिति धारय
अग्र्यभावे च कुर्वन्ति ह्यग्निस्थानेषु काञ्चनम्
जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनाः
कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम्
हुते प्रीतिगुणामृद्धिं भगवांस्तत्र मन्यते
तस्मादग्निपरास्सर्वा देवता इति नश्श्रुतिः
ब्रह्मणश्च प्रभूतोऽग्निरग्नेरपि च काञ्चनम्
तस्माद्देवाः प्रयच्छन्ति सुवर्णं धर्मदर्शनात्
सुवर्णं ये प्रयच्छन्ति नराश्शुद्धेन चेतसा
देवतास्ते प्रयच्छन्ति समस्ता इति नश्श्रुतिः
तस्य वा तपसो लोके गच्छतः परमां गतिम्
सौराज्ये राजराज्ये च सोऽभिषिच्यो ह्यनेकशः
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम्
ददाति काञ्चनं यो वाः दुःस्वप्नं प्रतिहन्ति सः
ददात्युदितमात्रे यस्यस्य पाप्मा विधूयते
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम्
ददाति पश्चिमां सन्ध्यां यः सुवर्णं यतव्रतः
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयास्यति
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुयाच्छुभाम्
इह लोके यशश्चैव शान्तपाप्मा प्रमोदते
इतस्स विद्यतेऽन्येषु लोकेष्वप्रतिमेषु च
अनावृतगतिर्नित्यं कामचारी भवत्युत
न च क्षरति तेभ्यस्तु शाश्वच्चोपाप्नुते महत्
सुवर्णमक्षयं दत्त्वा लोकान्नाप्नोति पुष्कलान्
यस्तु सञ्ज्वलयित्वाऽग्निमादित्योदयनं प्रति
दद्याद्वै व्रतमुद्दिश्य सर्वान्कामानवाप्नुयात्
अग्निरित्येव तत्प्राहुः प्रदानं च सुखावहम्
यथेष्टगुणसंवृत्तं प्रवर्तक इति स्मृतम्
भीष्मः-
एवमेतन्महाराज सुवर्णस्य महात्मनः
जन्म ते कथितं पुण्यं प्रदानं च युधिष्ठिर
इति राममुवाचेदं वसिष्ठश्श्रेष्ठवागृषिः
सुवर्णदाने महात्म्यं तत्कुरुष्व युधिष्ठिर