युधिष्ठिरः-
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम्
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गोभिर्नृपेह संवादं श्रिया भारतसत्तम
श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम्
गावः-
काऽसि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि
विस्मितास्स्म महाभागे तव रूपस्य सम्पदा
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि
तत्त्वेन हि सुवर्णाभे सर्वमेतद्ब्रवीहि नः
श्रीः-
लोकस्य कान्तिर्भद्रं वश्श्रीर्नामेहं परिश्रुता
मया दैत्याः परित्यक्ता विनष्टाश्शाश्वतीस्समाः
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च
मयाऽभिपन्ना दीप्यन्ते ऋषयो देवतास्तथा
यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः
धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः
एवम्प्रभावां मां गावो विजानीत सुखप्रदाम्
इच्छेयं चापि युष्मासु वस्तुं सर्वासु नित्यदा
आगत्य प्रार्थयानाऽहं श्रीजुष्टा भवताऽनघाः
गावः-
अध्रुवा चपला च त्वं सामान्या बहुभिस्सह
न त्वामिच्छाम भद्रं ते गम्यतां यत्र रोचते
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽद्य वै
यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया
श्रीः-
किमेतद्वः क्षमं गावो यन्मां नेहाभिनन्दथ
न मां सम्प्रतिगृह्णीत कस्माद्वै दुर्लभां सतीम्
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे
गावः-
नावमन्यामहे देवि न त्वां परिभवामहे
अध्रुवा चलचित्ताऽसि ततस्त्वां वर्जयामहे
बहुनाऽत्र किमुक्तेन गम्यतां यत्र वाञ्छसि
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽनघे
श्रीः-
अवज्ञाता भविष्यामि सर्वलोकेषु मानवैः
प्रत्याख्यातेति युष्माभिः प्रसादः क्रियतामिति
महाभागा भवत्यो वै शरण्याश्शरणागताम्
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम्
मानयित्वाऽहमिच्छामि भवत्यस्सततं शुभाः
सुप्रीताऽङ्गेषु वो वस्तुमिच्छामीह न कुत्सिते
न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः
पुण्याः पवित्रास्सुभगा अवाग्देशं प्रयच्छथ
भीष्मः-
वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ
एवमुक्तास्तु ता गावश्शुभाः करुणवत्सलाः
सम्मान्य सहितास्सर्वाश्श्रियमूचुर्नराधिप
गावः-
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि
शकृन्मूत्रे निवसतां पुण्यमेतद्धि नश्शुभे
श्रीः-
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः
एवं भवतु भद्रं वः पूजिताऽस्मि सुखप्रदाः
भीष्मः-
एवं कृत्वा तु समयं श्रीर्गोभिस्सह भारत
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत
एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्
माहात्म्यं च गवां भूयश्श्रूयतां गदतो मम