युधिष्ठिरः-
पवित्राणां पवित्रं यच्छ्रेष्ठं लोकेषु पूजितम्
महाव्रतं महाभाग तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च
ऋषीणामुत्तमं कृष्णं भावितात्मानमच्युतम्
पारम्पर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम्
कृतशौश्शुकस्तत्र कृतजप्यः कृताह्निकः
परं नियममास्थाय परं धर्ममुपाश्रितः
प्रणम्य शिरसा व्यासं सूक्ष्मतत्वार्थदर्शिनम्
शुकः पप्रच्छ वै प्रश्नं दानधर्मकुतूहलः
शुकः-
बहुचित्राणि दानानि बहुशश्शंससे मुने
महार्थं पावनं पुण्यं किंस्विद्दानं महाफलम्
केन दुर्गाणि तरति केन लोकानवाप्नुते
केन वा महदाप्नोति इह लोके परत्र च
के वा यज्ञस्य वोढारः केषु यज्ञः प्रतिष्ठितः
किञ्च यज्ञस्य यज्ञत्वं किञ्च यज्ञस्य भेषजम्
यज्ञानामुत्तमं किञ्च तद्भवान्प्रब्रवीतु मे
भीष्मः-
स तस्मै भजमानाय जातकौतूहलाय च
व्यासो व्रतनिधिः प्राह गवामिदमनुत्तमम्
व्यासः-
धन्यं यशस्यमायुष्यं लोके श्रुतिसुखावहम्
यत्पवित्रं पवित्राणां मङ्गलानां च मङ्गलम्
सर्वपापप्रशमनं तत्समासेन मे शृणु
यदिदं तिष्ठते लोके जगत्स्थावरजङ्गमम्
गावस्ताः प्राप्य तिष्ठन्ते लोके पुण्यस्य दर्शनात्
मातरस्सर्वभूतानां विश्वस्य जगतश्च ह
रुद्राणामथ साध्यानां गाव एव तु मातरः
रुद्राणां मातरो ह्येता ह्यादित्यानां स्वसा स्मृताः
वसूनां च दुहित्र्यस्ता ब्रह्मसन्तानमूलजाः
यासामधिपतिः पूषा मरुतो वालबन्धनाः
ऐश्वर्यं वरुणो राजा विश्वे देवास्समाश्रिताः
य एवं वेद ता गावो मातरो देवपूजिताः
स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः
गावस्तु नावमन्येत कर्मणा मनसा गिरा
गवां स्थानं परं लोके प्रार्थयेद्यः परां गतिम्
न पद्भ्यां ताडयेद्गा वै न दण्डेन न मुष्टिना
इमां विद्यामुपाश्रित्य पावनीं ब्रह्मनिर्मिताम्
मातॄणाम नुपातेन न गोमध्ये न गोव्रजे
नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद्विसर्जनम्
शुद्धाश्चन्दनशीताढ्याश्चन्द्ररश्मिसमप्रभाः
सौम्यास्सुरभ्यस्सुभगा गावो गुग्गुलुगन्धयः
सर्वे देवा विशन्गावस्समुद्रमिव सिन्धवः
दिवं चैवान्तरिक्षं च गवां व्युष्टिं समश्नुते
दधिना जुहुयादग्निं दधिना स्वस्ति वाचयेत्
दधि दद्याच्च प्राशेत गवां व्युष्टिं समश्नुते
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्
घृतमालभ्य प्राश्नीयाद्गवां व्युष्टिं समश्नुते
गावस्सञ्जीवना यास्तु गावो दानमनुत्तमम्
ताः पुण्यगोपास्सुफला भजमानं भजन्तु माम्
येन देवाः पवित्रेण स्वर्गलोकमितो गताः
तत्पवित्रं पवित्राणां मम मूर्ध्नि प्रतिष्ठितम्
वीणामृदङ्गपणवा गवां मन्त्रप्रतिष्ठिताः
क्रीडारतिविहारार्थे त्रिषु लोकेषु वर्तते
न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति
न यज्ञैरिज्यते चात्र यत्र गौर्वै न दृश्यते
क्षीरं दधि घृतं यासां रसानामुत्तमो रसः
अमृतप्रभवा गावस्त्रैलोक्यं येन जीवति
इमामाहूय धेनुं च सवत्सां यज्ञमातरम्
उपाह्वयन्ति यं यज्ञे गावो यज्ञहविष्कृतम्
या मेध्या प्रथमं कर्म इयं धेनुस्सरस्वती
पौर्णमासेन वत्सेन कामं कामगुणान्विता
यत्र सर्वमिदं प्रोतं यत्किञ्चिज्जङ्गमं जगत्
स गौर्वै प्रथमा पुण्या सर्वभूतहिते रता
धारणाः पावनाः पुण्या भावना भूतभावनाः
गावो मामभिरक्षन्तु इह लोके परत्र च
एष यज्ञस्सहोपाङ्ग एष यज्ञस्सनातनः
वेदास्सहोपनिषदो गवां रूपाः प्रतिष्ठिताः
एतत्तात मया प्रोक्तं गवामिह परं मतम्
सर्वमाश्रावयेन्नित्यं प्रयतो ब्रह्मसंसदि
श्रुत्वा लभेत तान्सर्वान्ये मया परिकीर्तिताः
श्रावयित्वाऽपि प्रीतात्मा लोकांस्तान्प्रतिपद्यते ||
धेनुमेकां समादद्यादहन्यहनि पावनीम्
तत्तथा प्राप्नुयाद्विप्रः पठन्वै गोमतीं सदा
अथ धेनुर्न विद्यते तिलधेनुमनुत्तमाम्
दद्याद्गोमतिकल्पेन तां धेनुं सर्वपावनीम्
आह्निकं गोमतीं नित्यं यः पठेत सदा नरः
सर्वपापात्प्रमुच्येत प्रयतात्मा य आचरेत्
घृतं वा दधि वा नित्यं प्राश्य वा गोमतीं जपेत्
स्नात्वा वा गोकरीषेण पठन्पापात्प्रमुच्यते
मनसा गोमतीं जप्येद्गोमत्या नित्यमाह्निकम्
न त्वेन दिवसं कुर्याद्व्यर्थं गोमत्यपाठकः
गोमतीं जपमाना हि देवा देवत्वमाप्नुवन्
ऋषित्वमृषयश्चापि गोमत्या सर्वमाप्नुवन्
बद्धो बन्धात्प्रमुच्येत कृच्छ्रान्मुच्येत सङ्कटात्
गोमतीं सेवते यस्तु लभते प्रियसङ्गमम्
भीष्मः-
एतत्पवित्रं कार्त्स्न्येन एतद्व्रतमनुत्तमम्
एतत्तु पृथिवीपाल पावनं शृण्वतां सदा
पुत्रकामाश्च ये केचिद्धनकामाश्च मानवाः
अध्वाने चोरवैरिभ्यो मुच्यते गोमतीं पठन्
पूर्ववैरानुबन्धेषु रणे चाप्याततायिनः
लभेत जयमेवाशु सदा गोमतिपाठकः
शुकः-
क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः
कपिलामुपजीवन्ति कथमेतत्पितर्भवेत्
व्यासः-
क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः
कपिलामुपजीवन्ति तेषां वक्ष्यामि निर्णयम्
कपिलास्तूत्तमा लोके गोषु चैवोत्तमा मताः
तासां दाता लभेत्स्वर्गं विधिना यश्च सेवते
स्पृशेत कपिलां यस्तु दण्डेन चरणेन वा
स तेन स्पर्शनमात्रेण नरकायोपपद्यते
मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेणैव प्रमुञ्चते
मन्त्रिहीनं तु यो युञ्जात्कृमियोनौ हि जायते
प्रहाराहतमर्माङ्गा दुःखेन च जडीकृता
पदानि यावद्गच्छेत तावल्लोकान्क्रिमिर्भवेत्
यावच्च बिन्दवस्तस्याश्शोणितस्य क्षितिं गताः
तावद्वर्षसहस्राणि नरकं प्रतिपद्यते
मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेण विनियोजयेत्
मन्त्रहीनैरनुयुतो मज्जयेत्तमसि प्रभो
कपिलां येऽपि जीवन्ति बुद्धिमोहान्विता नराः
तेऽपि वर्षसहस्राणि पतन्ति नरके नृप
अथ न्यायेन ये विप्राः कपिलामुपयुञ्जते
तस्मिंल्लोके प्रमोदन्ते लोकाश्चैषामनामयाः
विधिना ये न कुर्वन्ति शूद्रास्तानुपधारय
शुकः-
नानावर्णैरुपेतानां गवां किं मुनिसत्तम
कपिलास्सर्ववर्णेषु वरिष्ठत्वमवाप्नुवन्
व्यासः-
शृणु पुत्र यथा गोषु वरिष्ठाः कपिलास्स्मृताः
कपिलत्वं च सम्प्राप्ताः पूज्याश्चि सततं नृषु
अग्निः पुराऽपचक्राम देवेभ्य इति नश्श्रुतम्
देवेभ्यो मां छादयत शरण्याश्शरणं गतम्
ऊचुस्तास्सहितास्तत्र स्वागतं तव पावक
इह गुप्तस्त्वमस्माभिर्न देवैरुपलप्स्यसे
अथ देवा विवित्सन्तः पावकं परिचक्रमुः
गोषु गुप्तं च विज्ञाय ताः क्षिप्रमुपतस्थिरे
युष्मासु निवसत्यग्निरिति गास्समचूचुदन्
प्रकाश्यतां हुतवहो लोकान्न च्छेत्तुमर्हथ
एवमस्त्वित्युनुज्ञाय पावकं समदर्शयन्
अधिगम्य पावकं तुष्टास्ते देवास्सद्य एव तु
अग्निं प्रचोदयामासुः क्रियतां गोष्वनुग्रहः
गवां तु यासां गात्रेषु पावकस्समवस्थितः
कपिलत्वमनुप्राप्ताः सर्वश्रेष्ठत्वमेव च
महाफलत्वं लोके च ददौ तासां हुताशनः
तस्माद्धि सर्ववर्णानां कपिलां गां प्रदापय
श्रोत्रियाय प्रशान्ताय प्रयतायाग्निहोत्रिणे
यावन्ति रोमाणि भवन्ति धेन्वा युगानि तावन्ति पुनाति दातॄन्
प्रतिग्रहीतॄंश्च पुनाति दत्ता शिष्टे तु गौर्वै प्रतिपादनेन
शुकः-
केन वर्णविभागेन विज्ञेया कपिला भवेत्
कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा
व्यासः-
शृणु तात यथा गोषु विज्ञेया कपिला भवेत्
नेत्रयोश्शृङ्गयोश्चैव खुरेषु वृषणेषु च
कर्णतो घ्राणतश्चापि षड्विधाः कपिलास्स्मृताः
एतेषां लक्षणानां तु यद्येकमपि दृश्यते
कपिलां तां विजानीयादेवमाहुर्मनीषिणः
आग्नेयी नेत्रकपिला खुरैर्माहेश्वरी भवेत्
ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणादजायत
वर्णतस्तु वसन्तेन स्वयोनिमभिजायते
गायत्र्याश्च वृषणयोरुत्पत्तिष्षड्गुणा स्मृता
एवं गावश्च विप्राश्च गायत्री सत्यमेव च
वसन्तश्च सुवर्णश्च एकतस्समजायत
नेत्रयोः कपिलां यस्तु वाहयेत दुहेत वा
स पापकर्मा नरकं प्रतिष्ठां प्रतिपद्यते
नरकाद्विप्रमुक्तस्तु तिर्यग्योनिं निषेवते
यदा लभेत मानुष्यं जात्यन्धो जायते नरः
शृङ्गयोः कपिलां यस्तु वाहयेत दुहेत वा
तिर्यग्योनिं स लभते जायमानः पुनः पुनः
खुरेषु कपिलां यस्तु वाहयेत दुहेत वा
तमस्यपारे मज्जेत धनहीनो नराधमः
कपिलां वालधानेषु वाहयेत दुहेत वा
निराश्रयस्सदा चैव जायते यदि चेत्कृमिः
कर्णेन कपिलां यस्तु जानन्नप्युपजीवति
सहस्रशः क्रिमिर्भूत्वा मानुष्यं प्राप्नुयादथ
चण्डालः पापयोनिश्च जायते स नराधमः
घ्राणेन कपिलां यस्तु प्रमादादुपजीवति
सोऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते
व्याधिग्रस्तो जडो रोगी भवेन्मानुष्यमागतः
मधुसर्पिस्सुगन्धास्तु कपिलाश्शास्त्रतस्स्मृताः
एतास्समुपजीवेत सोऽपि तिर्यक्षु जायते
स्थावरत्वमनुप्राप्तो यदि मानुष्यतां लभेत्
अल्पायुस्स भवेज्जातो हीनवर्णकुलोद्भवः
ये तु पापा ह्यसूयन्ते कपिलां वाहयन्ति च
निरयेषु प्रतिष्ठन्ते यावदाभूतसम्प्लवम्