युधिष्ठिरः-
कः फेनपेति नाम्नाऽसौ कथं वा भक्षितः पुरा
मृत उज्जीवितः कस्मात्कथं गोलोकमाश्रितः
विरुद्धे मानुषे लोके तथा समयवर्त्मसु
ऋते दैवं हि दुष्प्रापं मानुषेषु विशेषतः
संशयो मे महानत्र तन्मे व्याख्यातुमर्हसि
भीष्मः-
श्रूयते भार्गवे वंशे सुमित्रो नाम भारत
वेदाध्ययनसम्पन्नो विपुले तपसि स्थितः
वानप्रस्थाश्रमे युक्तस्स्वकर्मनिरतस्सदा
विनयाचारतत्त्वज्ञस्सर्वधर्मार्थकोविदः
नित्यं त्रिषवणस्नायी सन्ध्योपासनतत्परः
अग्निहोत्ररतः क्षान्तो जपञ्जुह्वच्च नित्यदा
पितृदेवांश्च नियतमतिथींश्च स पूजयन्
प्राणसन्धारणार्थं च यत्किञ्चिदुपहारयन्
गिरिस्त्रिशिखरो नाम यतः प्रभवते नदी
कुलजेति पुराणेषु विश्रुता रुद्रनिर्मिता
तस्यास्तीरे समे देशे पुष्पमालासमाकुले
वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते
व्यपेतदंशमशके ध्वाङ्क्षगृध्रैरसेविते
कृष्णदर्भतृणप्राये सुरम्येज्योतिरश्मिनि
सर्वोन्नतैस्समैश्श्यामैर्याज्ञीयैस्तरुभिर्वृते
तत्राश्रमपदं पुण्यं भृगूणामभवत्पुरा
उवास तत्र नियतस्सुमित्रो नाम भार्गवः
यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मना
तस्मा आङ्गिरसः कश्चिद्ददौ गां शर्करीं शुभाम्
वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः
स तां लब्ध्वा धर्मशीलश्चिन्तयामास तत्परः
सुमित्रः परया भक्त्या जननीमिव मातरम्
तेन सन्धुक्ष्यमाणा सा रोहिणी कामरूपिणी
प्रवृद्धिमगमच्छ्रेष्ठा प्राणतश्च सुदर्शना
सिराविमुक्तपार्श्वान्ता विपुलां कान्तिमुद्वहत्
श्यामपार्श्वान्तपृष्ठा सा सुरभिर्मधुपिङ्गला
बृहती सूक्ष्मलोमान्ता रूपोदग्रा तनुत्वचा
कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा
पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना
दीर्घजिह्वा ह्रस्वशृङ्गी सम्पूर्णदशनान्तरा
मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना
नित्यं शमयुता स्निग्धा सम्पूर्णोदात्तनिस्वना
प्राजापत्यैर्गवां नित्यं प्रशस्तैर्लक्षणैर्युता
यौवनस्थेव वनिता शुशुभे रूपशोभया
वृषेणोपगता सा तु कल्या मधुशोभना
मिथुनं जनयामास तुल्यरूपमिवात्मनः
संवर्धयामास स तां सवत्सां भार्गवो ऋषिः
तयोः प्रजाधिसंसर्गात्सहस्रं च गवामभूत्
गवां जातिसहस्राणि सम्भूतानि परस्परम्
ऋषभाणां च राजेन्द्र नैवान्तं प्रतिदृश्यते
तैराश्रमपदं रम्यमरण्यं चैव सर्वशः
समाकुलं समभवन्मेघैरिव नभस्थलम्
कानिचित्पद्मवर्णानि किंशुकाभानि कानिचित्
रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च
तथा राजतवर्णानि कानिचिल्लोहितानि वै
नीललोहितताम्राणि कृष्णानि कपिलानि च
नानारागविचित्राणि यूथानि कुलयूथप
न च क्षीरं सुतस्नेहाद्वत्सानामुपजीवति
भार्गवः केवलं चासीद्गवां प्राणायने रतः
तथा शुश्रूषतस्तस्य गवां हितमवेक्षतः
व्यतीयात्सुमाहान्कालो वत्सोच्छिष्टेन वर्ततः
क्षुत्पिपासापरिश्रान्तस्सततं प्रस्रवं गवाम्
वत्सैरुच्छिष्टमुदितं बहुक्षीरतया बहु
पीतवांस्तेन नामाऽस्य फेनपेत्यभिविश्रुतम्
गौतमस्याभिनिष्पन्नमेवं नाम युधिष्ठिर
कदाचित्कामरूपिण्यो गावस्स्त्रीवेषमाश्रिताः
ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः
ददृशुस्तस्य गावो वै विस्मयोत्फुल्ललोचनाः
ऊचुश्च का यूयमिति स्त्रियो मानुषया गिरा
स्त्रियः-
गाव एव वयं सर्वाः कर्मभिश्शोभनैर्युताः
सर्वास्स्त्रीवेषधारिण्यो यथाकामं चरामहे
गावः-
गवां गावः परं दैवं गवां गावः परा गतिः
कथयध्वमिहास्माकं केन वस्सुकृतां गतिः
स्त्रियः-
अस्माकं हविषा देवा ब्राह्मणास्तर्पितास्तथा
कव्येन पितरश्चैव हव्येनाग्निश्च तर्पितः
प्रजया च तथाऽस्माकं कृषिरभ्युद्धृता सदा
शकटैश्चापि संयुक्ता दशवाहशतेन वै
तदेतैस्सुकृतैस्स्फीतैर्वयं याश्चैव नः प्रजाः
गोलोकमनुसम्प्राप्ता यः परं कामगोचरः
यूयं तु सर्वरोहिण्यस्सप्रजास्सहपुङ्गवाः
अधोगामिन्य इत्येव पश्यामो दिव्यचक्षुषा
गावः-
एवं गवां परं दैवं गाव एव परायणम्
स्वपक्ष्यास्तारणीया वश्शरणाय गता वयम्
किमस्माभिः करणीयं वर्तितव्यं कथञ्चन
प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः
स्त्रियः-
वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम्
तत्र तस्य नृपस्याशु पशुत्वमुपगच्छत
ततस्तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः
गोलोकान्प्राप्स्यथ शुभांस्तेन पुण्येन संयुताः
भीष्मः-
एतत्तासां वचश्श्रुत्वा गवां संहृष्टमानसाः
गमनाय मनश्चक्रुरौत्सुक्यं चागमन्परम्
न हि नो भार्गवो दाता पशुत्वेनोपयोजनम्
यज्ञस्तस्य नरेन्द्रस्य वर्तते धर्मतस्तथा
वयं न चाननुज्ञाताश्शक्ता गन्तुं कथञ्चन
अवोचन्नथ तत्रत्या भार्गवो वध्यतामयम्
एतत्सर्वा रोचयत न हि शक्यमतोऽन्यथा
लोकान्प्राप्तुं सहास्माभिर्निश्चयः क्रियतामयम्
न तु तासां समेतानां काचिद्घोरेण चक्षुषा
शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता
अथ पद्मसवर्णाभा भास्करेण समप्रभाः
जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः
रोहिण्यः कपिलाः प्राहुस्सर्वासां वै समक्षतः
मेघस्तनितनिर्घोषास्तेजोभिरभिरञ्जिताः
कपिलाः-
वयं हि तं वधिष्यामस्सुमित्रं नात्र संशयः
सुकृतं पृष्ठतः कृत्वा किं नश्श्रेयो विधास्यथ
गावः-
कपिलास्सर्ववर्णेषु प्रधानत्वमवाप्स्यथ
गवां शतफला चैकां दत्त्वा फलमवाप्स्यथ
भीष्मः-
एतद्गवां वचश्श्रुत्वा कपिला हृष्टमानसाः
चक्रुस्सर्वा भार्गवस्य सुमित्रस्य वधे मतिम्
यास्तु गोमातरस्तस्य कामचारिण्य आगताः
समीपं हि सुमित्रस्य कृतज्ञास्समुपस्थिताः
अभिप्रशस्य चैवाहुस्तमृषिं पुण्यदर्शनाः
गोमातरः-
गोलोकादागता वेत्थ ऋषे गोमातरो वयम्
सुप्रीतास्स्म वरं गृह्ण यमिच्छसि महामुने
यद्धि गोषु परां बुद्धिं कृतवानसि नित्यदा
सुमित्रः-
प्रीतोऽस्म्यनुगृहीतोऽस्मि यन्मां गोमातरश्शुभाः
सुप्रीतमनसस्सर्वास्तिष्ठन्ते च वरप्रदाः
भवेद्गोष्वेव मे भक्तिर्यथैवाद्य तथा सदा
गोघ्नाश्चैवावसीदन्तु नरा ब्रह्मद्विषश्च ये
गोमातरः-
एवमेतदृषिश्रेष्ठ हितं वदसि नः प्रियम्
एहि गच्छ सहाऽस्माभिर्गोलोकमृषिसत्तम
सुमित्रः-
यूयमिष्टां गतिं यान्तु न ह्यहं गन्तुमुत्सहे
इमा गावस्समुत्सृज्य तपस्विन्यो मम प्रियाः
भीष्म उवाच
तास्तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम्
नित्युस्तमृषिमुत्क्षिप्य भार्गवं नभ उद्वहन्
कलेवरं तु तत्रैव तस्य सन्न्यस्य मातरः
निष्कृष्य करणं योगादानयन्भार्गवस्य वै
सर्वं चास्य तदाऽऽचख्युः कपिलानां विचेष्टितम्
यदर्थं हरणं गोभिर्गोलोकं लोकमातरः
ततस्तु कपिलास्तत्र तस्य दृष्ट्वा कलेबरम्
तथाप्रतिज्ञं शृङ्गैश्च खुरैश्चाप्यवचूर्णयन्
ततस्सञ्छिद्य बहुधा भार्गवं नृपसत्तम
ययुर्यत्रेतरा गावस्तच्च सर्वं न्यवेदयन्
अथ गोमातृभिश्शप्तास्ता गावः पृथिवीचराः
अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः
एवं कृतज्ञा गावो हि यथा गोमातरो नृप
ऋषिश्च प्राप्तवाँल्लोकं गावश्च परिमोक्षिताः
ता गावो रन्तिदेवस्य गत्वा यज्ञं मनीषिणः
आत्मानं ज्ञापयामासुर्महर्षीणां समक्षतः
रन्तिदेवस्ततो राजा प्रयतः प्राञ्जलिश्शुचिः
उवाच गावः प्रणतः किमागमनमित्यपि
गावः-
इच्छाम तव राजेन्द्र सत्रेऽस्मिन्विनियोजनम्
पशुत्वमुपसम्प्राप्तुं प्रसादं कर्तुमर्हसि
रन्तिदेवः-
नास्ति शक्तो गवां घातं कर्तुं शतसहस्रशः
घातयित्वा त्वहं युष्मान्कथमात्मानमुद्धरे
यः पशुत्वेन संयोज्य युष्मान्स्वर्गं नयेदिह
आत्मानं चैव तपसा गावस्समुपगम्यताम्
गावः-
अस्माकं तारणे युक्तो धर्मात्मा तपसि स्थितः
श्रुतोऽस्माभिर्भवान्राजंस्ततस्तु स्वयमागताः
रन्तिदेवः
मम सत्रे पशुत्वं वो यद्येवं हि मनीषितम्
समयेनाहमेतेन जुहुयां वो हुताशने
कदाचिद्यदि वः काचिदकामा विनियुज्यते
तदा समाप्तिस्सत्रस्य गवां स्यादिति नैष्ठिकी
गावः-
एवमस्तु महाराज यथा त्वं प्रब्रवीषि नः
अकामास्स्युर्यदा गावस्तदा सत्रं समाप्यताम्
भीष्मः-
ततः प्रवृत्ते गोसत्रे रन्तिदेवस्य धीमतः
गोसहस्राण्यहरहर्नियुज्यन्ते शमीतृभिः
एवं बहूनि वर्षाणि व्यतीतानि नराधिप
गवां वै वध्यमानानां न चान्तः प्रत्यदृश्यत
गवां चर्मसहस्रैस्तु राशयः पर्वतोपमाः
बभूवुः कुरुशार्दूल बहुधा मेघसन्निभाः
मेदःक्लेदवहा चैव प्रावर्तत महानदी
अद्यापि भुवि विख्याता नदी चर्मण्वती शुभा
ततः कदाचित्स्वं वत्सं गौरुपामन्त्र्य दुःखिता
गौः-
एहि वत्स स्तनं पाहि मा त्वं पश्चात्क्षुधार्दितः
तप्स्यसे विमना दुःखं घातितायां मयि ध्रुवम्
एते ह्यायान्ति चण्डालास्सशस्त्रा मां जिघांसवः
भीष्मः-
अथ शुश्राव तां वाणीं मानुषीं समुदाहृताम्
रन्तिदेवो महाराज ततस्तां समवारयत्
स्थापयामास गोसत्रमथ तं पार्थिवर्षभ
सत्रोत्सृष्टाः परित्यक्ता गावोऽन्यास्समुपाश्रिताः
यास्तस्य राज्ञो निहता गावो यज्ञे महात्मनः
ता गोलोकमुपाजग्मुः प्रेक्षिता ब्रह्मवादिभिः
रन्तिदेवोपि राजर्षिरिष्ट्वा यज्ञं यथाविधि
ततस्सख्यं सुरपतेस्त्रिदिवं चाक्षयं ययौ
वैशम्पायनः-
फेनपो दिवि गोलोके मुमुदे शाश्वतीस्समाः
अवशिष्टाश्च या गावस्ता बभूवुर्वनेचराः
फेनपाख्यानमेतत्ते गवां माहात्म्यमेव च
कथितं पावनं पुण्यं कृष्णद्वैपायनेरितम्
नारायणोऽपि भगवान्दृष्ट्वा गोषु परं यशः
शुश्रूषां परमां चक्रे भक्तिं च भरतर्षभ
तस्मात्त्वमपि राजेन्द्र गा वै पूजय भारत
द्विजेभ्यश्चैव सततं प्रयच्छ कुरुसत्तम