युधिष्ठिरः-
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत्
पावनं परमं चैव तन्मे ब्रूहि पितामह
भीष्मः-
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्
धारयन्ति प्रजाश्चेमा पयसा हविषा तथा
न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम
एताः पुण्याः पवित्राश्च त्रिषु लोकेष्वनुत्तमाः
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै
दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा
गा वै ददन्तस्सततं सहस्रशतसम्मिताः
गताः परमकं स्थानं देवैरपि सुदुर्लभम्
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ
ऋषीणामुत्तमान्धर्मान्कृष्णद्वैपायनं शुकः
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः
पितरं परिपप्रच्छ दृष्टलोकपरावरम्
शुकः-
को यज्ञस्सर्वयज्ञानां वरिष्ठ उपलक्ष्यते
किञ्च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः
केन देवाः पवित्रेण स्वर्गमश्नन्ति वै प्रभो
किञ्च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः
दानानामुत्तमं किञ्च किञ्च सत्रमतः परम्
पवित्राणां पवित्रं च यत्तद्ब्रूहि महामुने
भीष्मः-
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ
व्यासः-
गावः प्रतिष्ठा भूतानां तथा गावः परायणम्
गावः पुण्याः पवित्राश्च पावनं धर्मतस्तथा
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशश्रुम
शृङ्गार्थे समुपासन्त ताः किलप्रभुमव्ययम्
ततो ब्रह्मा तु गास्सत्रमुपविष्टास्समीक्ष्य ह
ईप्सितं प्रददौ गोभ्यस्ताभ्यः प्रत्येकशः प्रभुः
तासां शृङ्गाण्यजायन्त तस्या यादृङ्मनोगतम्
नानावर्णाश्शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाश्शुभाः
पुण्याः पवित्रास्सुभगा दिव्यसंस्कारलक्षणाः
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते
ये वैतास्सम्प्रयच्छन्ति साधवो गतमत्सराः
ते वै सुकृतिनः प्रोक्तास्सर्वदानप्रदाश्च ते
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम
सर्वा मणिमयी भूमिस्सक्ष्मकाञ्चनवालुकाः
सर्वत्र शुभसंस्पर्शा निष्पङ्का निरजाशुभाः
रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः
महार्हमणिपत्रैश्च काञ्चनोपमकेसरैः
नीलोत्पलविमिश्रैश्च सरांसि बहुपङ्कजैः
करवीरवनैः फुल्लैस्सहस्रावर्तसंवृतैः
सन्तानकवनैः फुल्लैर्वृक्षेश्च समलङ्कृताः
निर्मिलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः
उद्भूतपुलिनास्तत्र जातरूपैश्चि निम्नगाः
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः
सौवर्णा गिरयस्तत्र मणिरत्नशिलोच्चयाः
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः
नित्यगन्धरसैः पुष्पैः फलैश्च मुनिसत्तम
रज्यन्ते पुण्यकर्माणस्तत्र नित्यं सुखान्विताः
सर्वकामसमृद्धार्था निश्शोका गतमन्यवः
विमानेषु विचित्रेषु रमणीयेषु सत्तम
मोदन्तः पुण्यकर्माणो विहरन्ति यशस्विनः
उपक्रीडन्ति तान्ब्रह्मञ्शुभाश्चाप्सरसां गणाः
एताल्ँलोकानवाप्नोति गां दत्त्वा वै मुनिसत्तम
यासामधिपतिः पूषा मारुतो बलवान्बले
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः
अरूपा बहुरूपाश्च विश्वरूपाश्च मातरः
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः
गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः
तस्मै तुष्टाः प्रयच्छन्ति वरानपि च दुर्लभान्
द्रुह्येन्न मनसा वाऽपि गोषु तास्सुखप्रदाः
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत्
दान्तः प्रीतमना नित्यं गवां तुष्टिं तथाऽश्नुते
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत्
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम्
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम्
यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत्
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्
घृतं प्राशेद्घृतं दद्याद्गवां पुष्टिं तथाऽश्नुते
निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति
पराभवार्थं दैत्यानां देवैश्शौचमिदं कृतम् |
देवत्वमपि च प्राप्तास्संसिद्धाश्च महाबलाः
गावः पवित्राः पवित्राश्च पावनं परमं महत्
अपि दत्त्वा द्विजातिभ्यो नरस्स्वर्गमुपाश्नुते
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत्
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि
विद्यावेदव्रतस्नातान्ब्राह्मणान्पुण्यकर्मिणः
अध्यापयति शिष्यान्वै गोमतीं यज्ञसम्मिताम्
त्रिरात्रोपोषितो भूत्वा गोमतीं लभते वरम्
पुत्रिकामश्च लभते पुत्रं धनमथापि वा
पतिकामा च भर्तारं सर्वकामांश्च मानवः
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः
एवमुक्ता महाभागा यज्ञियास्सर्वकामदाः
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम्
भीष्मः-
इत्युक्तस्स महातेजाश्शुकपित्रा महात्मना
पूजयामास तां नित्यं तस्मात्त्वमपि पूजय