वैशम्पायनः-
एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम्
इक्ष्वाकुवंशजो राजा सौदासो वदतां वरः
सर्वलोकचरं सिद्धं ब्रह्मलोकधरं मुनिम्
पुरोहितमदं वाक्यमभिवाद्योपचक्रमे
सौदासः-
त्रैलोक्ये भगवन्किंस्वित्पवित्रं कथ्यतेऽनघ
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम्
भीष्मः-
तस्मै प्रोवाच भगवान्प्रणताय हितं तदा
गवामुपनिषद्विद्यां नमस्कृत्य गवां शुचिः
वसिष्ठः-
गावस्सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः
गावः प्रतिष्ठा लोकानां गावस्स्वस्त्ययनं महत्
गावो भूतं च भविष्यच्च गावः पुष्टिस्सनातनी
गावो लक्ष्म्यास्सदा मूलं गोषु दानं न नश्यति
अन्नं हि सततं गावो देवानां परमं हविः
स्वाहाकारवषट्कारौ नित्यं गोषु प्रतिष्ठितौ
गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठितः
सायं प्रातश्च सततं होमकाले महामते
गावो ददति वै हौम्यमृषिभ्यः पुरुषर्षभ
कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च
तरन्ति ते च पाप्मानं धेनुं ये ददति प्रभो
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते
अनाहिताग्निश्शतगुरयज्वा च सहस्रगुः
समृद्धो यश्च कीनाशो नार्घमर्हन्ति ते त्रयः
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम्
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते
युवानमिन्द्रियोपेतं शतेन सह यूथपम्
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम्
ऋषभं ये प्रयच्छन्ति श्रोत्रियाय परन्तप
ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः
नाकीर्तयित्वा गास्सम्यक्नासंस्पृश्य तथोत्पतेत्
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात्
गवां मूत्रपुरीषस्य नोद्विजेत कदाचन
न चासां मांसमश्नीयाद्गवां पुष्टिं तथाऽऽश्नुते
गाश्च सङ्कीर्तयन्नित्यं नावमन्येत तास्तथा
अनिष्टं स्वप्नमालक्ष्य नरो गास्सम्प्रकीर्तयेत्
गोमयेन सदा स्नायाद्गोकरीषे च संविशेत्
श्लोष्ममूत्रपुरीषाणि प्रतिघातं तु वर्जयेत्
सौम्ये चर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम्
वाग्यतस्सर्पिषा भूमौ गवां व्युष्टिं तथाऽऽश्नुते
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्
घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाऽऽश्नुते
गोमत्या विद्यया धेनुं तिलानां योऽभिमन्त्रयेत्
रथं रत्नमयं दद्यान्न स शोचेत्कृताकृते
गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः
सुरभ्यस्सौरभेय्यश्च सरितस्सागरं यथा
गाश्च पश्याम्यहं नित्यं गावः पश्यन्तु मां सदा
गावोऽस्माकं वयं तासां यतो गावस्ततो वयम्
एवं रात्रौ दिवा चैव समेषु विषमेषु च
महाभयेषु च नरः कीर्तयन्मुच्यते भयात्
शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम्
गोभिः पूर्वविसृष्टाभिर्गच्छामश्श्रृङ्गितामिति
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः
स एव चेतसा तेन हतो लिप्येत सर्वशः
भवेम न च लोप्येम दोषेणेति परन्तप
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः
तथा सर्वाणि भूतानि स्थावराणि चराणि च
प्रदातारश्च गोलोकान्गच्छेयुरिति मानद
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः
एवं भवत्विति विभुर्लोकांस्तारयतेति च
उत्तस्थुस्सिद्धकामास्ता भूतभव्यस्य मातरः
तपसोऽन्ते महाराज गावो लोकपरायणाः
तस्माद्गावो महाभागाः पवित्रं परमुच्यते
तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि
समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते
रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां स्वर्गलोके महीयते
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां इन्द्रलोके महीयते
समानवत्सां धवलां धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीता स्वर्गलोके महीयते
समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां स्वर्गलोके महीयते
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां अग्निलोके महीयते
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसंवीतां वारुणं लोकमाश्नुते
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसंवीतां पितृलोके महीयते
सवत्सां पीवरीं दत्त्वा शितिकण्ठामलङ्कृताम्
वैश्वदेवमसौ पुण्यं स्थानं श्रेष्ठं प्रपद्यते
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते
पाण्डुकम्बलवर्णां तु सवत्सां कांस्यकदोहनाम्
प्रदाय वस्त्रसंवीतां साध्यानां लोकमाप्नुते
वैतानस्थितमुक्षाणं सर्वरत्नैरलङ्कृतम्
प्रदाय मरुतां लोकान्विशोकः प्रतिपद्यते
वत्सोपपन्नां नीलां गां सर्वरत्नसमन्विताम्
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः
शितिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम्
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते
गोप्रदानरतो याति भित्त्वा जलदसञ्चयान्
विमानेनार्कवर्णेन दिवि राजन्विराजते
तं चोरुवेषास्सुश्रोण्यस्सहस्रं वारयोषितः
रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम्
वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः
हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते
यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः
स्वर्गच्च्युतश्चापि ततो नृलोके कुले प्रसूतो विपुले विशोकः
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम्
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम्
इत्याचम्य जपेत्सायं प्रातश्च पुरुषस्सदा
यदहः कुरुते पापं तस्मात्सद्यो विमुच्यते
प्रासादा यत्र सौवर्णा वसोर्धाराश्च कामदाः
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः
नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः
वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः
गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि
परां वृद्धिमवाप्याथ स गोलोके महीयते
दश चोभयतः प्रेत्य मातापित्रोः पितामहात्
स याति सुकृताल्ँलोकान्पुनाति च कुलं नरः
धेन्वाः प्रमाणेन समप्रमाणां धेनुं तिलानामपि च प्रदाय
पानीयवापीस्स यमस्य लोके न यातनां काञ्चिदुपैति तत्र
पवित्रमग्र्यं जगतः प्रतिष्ठा दिवौकसां मातरोऽथाप्रमेयाः
अन्वालभेद्दक्षिणतो व्रजेच्च दद्याच्च पात्रे प्रसमीक्ष्य कालम्
धेनुं सवत्सां कपिलां भूरिशृङ्गीं कांस्योपदोहां वसनोत्तरीयाम्
प्रदाय तां गाहति दुर्विगाह्यां याम्यां सभां वीतभयो मनुष्यः
सुरूपा अनुरूपाश्च विश्वरूपाश्च मातरः
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत्
नातः पुण्यतरं दानं नातः पुण्यतरं फलम्
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति
त्वचा लोम्नाऽथ शृङ्गैश्च वालैः क्षीरेण मेदसा
यज्ञं वहति सम्भूय किमस्त्यभ्यधिकं ततः
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम्
गुणवचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते
न हि परमिह दानमस्ति गोभ्यो भवति न चापि परायणं ततोऽन्यत्
भीष्मः-
वरमिदमिति भूमिपो विचिन्त्य प्रवरमृषेर्वचनं ततो महात्मा
व्यसृजत नियतात्मवान्द्विजेभ्यस्सुबहु स गोधनमाप्तवांश्च लोकान्