युधिष्ठिरः-
विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः
येनेह शाश्वताल्ँलोकानखिलानश्नुवीमहि
भीष्मः-
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम्
सतामर्थस्सम्यगुत्पादितो यस्स वै क्लृप्तस्सम्यगिज्या प्रजाभ्यः
तस्मात्कालं सम्यगिज्याप्रवृत्तं गवां दाने शृणु राजन्विधिं मे
पुरा गोष्ठे निलीनासु गोषु सन्दिग्धदर्शिना
मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत
द्विजानामन्त्र्य सत्कृत्य प्रोक्तं कालमुपोष्य च
गोदानार्थं नियुञ्जीत रोहिणीं नियतव्रतः
आह्वानं च प्रयुञ्जीत सङ्गवे बहुलेऽपि च
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत्
गौर्मे माता गोवृषभः पिता मे दिवं गच्छत्जगती मे प्रतिष्ठा
प्रपद्यैवं शर्वरीमुष्य गोषु मुनिर्वाणीमुत्सृजेद्गोप्रदाने
स तामेकां निशां गोभिस्समसख्यसमावृतः
ऐकाद्यगमनात्सद्यः कलुषाद्विप्रमुच्यते
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने
त्रिविधा प्रतिपत्तव्या अर्थवादाशिषस्तव
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञा गर्भोऽमृतस्य जगतश्च प्रतिष्ठा
क्षितौ रोम्णः प्रभवश्शश्वदेव प्राजापत्यास्सर्वमित्यर्थवादाः
गावो ममैनः प्रणुदन्तु सौर्यास्तथा सौम्यास्स्वर्गयानाय सन्तु
आत्मानं मे मातृवच्चाश्रयन्तु तथाऽनुक्तास्सन्तु सर्वाशिषो मे
शोषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यां श्रेयसि सम्प्रवृत्ताः
यूयं नित्यं पुण्यकर्मोपवाहाश्शंसध्वं मे गतिमिष्टां प्रसन्नाः
या वै यूयं सोऽहमद्यैकभावो युष्मान्दत्त्वा देहमात्मप्रदाता
मनश्च्युता मन एवोपपन्नास्सन्धुक्षध्वं सौम्यरूपाग्र्यदेहाः
दानस्याग्रे पूर्वमेतद्वदेत गवां दाता विद्धि यत्पूर्वदृष्टम्
प्रतिब्रूयाच्छेषधर्मान्द्विजातिः प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः
गां ददानीति वक्तव्यमर्घ्यमुत्सृज्य सुव्रतः
ऊढव्या भरितव्या च वैष्णवीति च चोदयेत्
नाम सङ्कीर्तयेत्तस्या यथासङ्ख्योत्तराय वै
फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः
एवमेतान्गुणान्वृद्धान्भावनीयान्यथाक्रमम्
गोप्रदातात्समाप्नोति समस्तानष्टमे क्रमे
गोदानशीलो निर्भयश्चान्नदाता तस्याददे वसुदाता च कामी
ऊढव्योढा भारत यश्च विद्वान्समाख्यातास्ते वैष्णवाश्चन्द्रलोकाः
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं निशां चैकां संवसेतेह ताभिः
काम्याष्टम्यां वर्तितव्यं त्रिरात्रं रसैर्वा गोश्शकृता प्रस्रवैर्वा
देवव्रती स्याद्वृषभप्रदाता वेदावाप्तिर्गोयुगस्य प्रदाने
तथा गवां विधिमासाद्य यज्वा लोकानग्र्यान्विन्दते गोविधिज्ञः
कामान्सर्वान्पार्थिवानेकसंस्थान्यो वै दद्यात्कामदुघां च भूमिम्
सम्यक्तास्स्युर्हव्यकव्यं वहन्त्यस्ता उत्सृज्या अक्षयं सम्प्रदानम्
न वाऽशिष्यायाव्रतायोपकुर्यान्नाश्रद्दधानाय न वक्रबुद्धये
गुह्यो ह्ययं सर्वलोकस्य धर्मो न मान्धाता यत्र तत्र प्रजल्पेत्
सन्ति लोके श्रद्दधाना मनुष्यास्सन्ति क्षुद्रा राक्षसा मानुषेषु
एषां दानं दीयमानं ह्यनिष्टं ये नास्तिक्यं वै संश्रयन्ते ह्यपुण्याः
बार्हस्पत्यं वाक्यमेतन्निशम्य राजानो वै गोप्रदानानि कृत्वा
लोकान्प्राप्ताः पुण्यशीलास्सुवृत्तास्स्थाने राजन्कीर्त्यमानान्निबोध
उशीनरो विष्वगश्वो नृगश्च भगीरथो विश्रुतो यौवनाश्वः
मान्धाता वै मुचुकुन्दश्च राजा भूरिद्युम्नो नैषधस्सोमकश्च
पुरूरवा भरतश्चक्रवर्ती यस्यान्वया भरतास्सर्व एव
तथा वीरो दाशरथिश्च रामो ये चाप्यन्ये विश्रुताः कीर्तिमन्तः
तथा राजा पृथुकर्मा दिलीपो दिवं प्राप्तो गोप्रदाने विधिज्ञाः
यज्ञैर्होमैस्तपसा दानधर्मैर्मान्धाता वै गोप्रदानैश्च युक्तः
तस्मात्पार्थ त्वमपीमां मयोक्तां बार्हस्पत्यां भारतीं धारयस्व
द्विजाग्र्येभ्यः प्रयच्छस्व प्रतीतो गाः पुण्या वै प्राप्य राज्यं कुरूणाम्
वैशम्पायनः-
तथा सर्वं कृतवान्धर्मराजो भीष्मेणोक्तो विधिवद्गोप्रदाने |
स मान्धाता देवगुरुपदिष्टं सत्यं धर्मं धारयामास राजा
इति नृपतिवरस्सुस्थितो गोप्रदाने यवशकलैस्सह गोमयं पिबानः
क्षितितलशयनश्शिखी यतात्मा वृष इव राजवृषस्तदा बभूव
स नृपतिरभवत्स देवताभ्यः प्रवणमना ह्यभिसंस्तुवंश्च गा वै
न च धुरि नृप च गामयुङ्क्त भूपस्तुरगवरैरगमच्च यत्र तत्र