युधिष्ठिरः-
विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो
प्रवक्ष्यामि तु सन्देहं तन्मे ब्रूहि पितामह
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते
नियमानां फलं किं स्वित्स्वधीतस्य च किं फलम्
दमस्येह फलं किं च वेदानां धारणे च किम्
अध्यापने फलं किं स्वित्सर्वमिच्छामि वेदितुम्
अप्रतिग्राहके किं च फलं लोके पितामह
तस्य किं च फलं दृष्टं श्रुतं यस्सम्प्रयच्छति
स्वकर्मनिरतानां च शूराणां चापि किं फलम्
सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम्
पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा
आचार्यगुरुशुश्रूषासानुक्रोशानुकम्पने
एतत्सर्वमशेषेण पितामह यथातथम्
वेत्तुमिच्छामि धर्मात्मन्परं कौतूहलं हि मे
भीष्मः-
यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते
अखण्डं सम्यगारब्धं तस्य लोकास्सनातनाः
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते
नियमानां क्रतूनां च त्वयाऽवाप्तमिदं फलम्
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च
इह लोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे
दान्तास्सर्वत्र सुखिनो दान्तास्सर्वत्र निर्वृताः
यत्रेच्छागामिनो विप्रास्सर्वशत्रुनिषूदनाः
प्रार्थयन्ते हि यद्दान्ता लभन्ते तदसंशयम्
युज्यन्ते सर्वकामैर्हि दान्तास्सर्वत्र पाण्डव
स्वर्गे यथाऽनुमोदन्ते तपसा विक्रमेण च
दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः
दाता कुप्यति नो दान्तस्तस्माद्दानाद्वरो दमः
यस्तु दद्यादकुप्यन्हि तस्य लोकास्सनातनाः
क्रोधो हन्ति हि यद्दानं तस्माद्दानाद्वरो दमः
विद्यादानात्परं नास्ति वेदविद्या महाफलाः
अध्यापकः परिक्लेशादक्षयं फलमश्नुते
विधिवत्पावकं हुत्वा ब्रह्मलोकगतो नृप
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति
गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि
युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते
वैश्यस्स्वकर्मनिरतः प्रदानाल्लभते महत्
शूद्रस्स्वकर्मनिरतस्स्वर्गं शुश्रूषयेच्छति
शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु
शूरान्विधात्रा निर्दिष्टान्फलं शूरस्य चैव हि
यज्ञे शूरास्सत्यशूरा दमे शूरास्तथा परे
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः
बुद्धिशूरास्तथा चान्ये क्षमाशूरास्तथा परे
आर्जवेन तथा शूरास्समवर्तन्त मानवाः
तैस्तैस्तु नियमैश्शूरा बहवस्सन्ति चापरे
वेदाध्ययनशूराश्च शूराश्चाध्यापने तथा
गुरुशुश्रूषया शूराः पितृशुश्रूषया परे
मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथा परे
साङ्ख्यशूराश्च बहवो योगशूरास्तथा परे
अरण्ये गृहवासे च शूराश्चातिथिपूजने
सर्वे यान्ति पराल्ँलोकान्स्वकर्मफलनिर्जितान्
पारणं सर्वदेये च सर्वतीर्थावगाहनम्
सत्यं च ब्रुवतो नित्यं समं वा स्यान्नवा समम्
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते
सत्येन मरुतो वाति सर्वं सत्ये प्रतिष्ठितम्
सत्येन देवान्प्रीणाति पितॄंश्च ब्राह्मणांस्तथा
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत्
मुनयस्सत्यनिरता मुनयस्सत्यविक्रमाः
मुनयस्सत्यशपथास्तस्मात्सत्यं विशिष्यते
सत्यवन्तस्सत्यलोके मोदन्ते भरतर्षभ
दमस्सत्यफलावाप्तिरुक्तस्सर्वात्मना मया
असंशयं विनीतात्मा स च स्वर्गे महीयते
ब्रह्मचर्यस्य च गुणान्शृणु त्वं वसुधाधिप
आजन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह
न तस्य किञ्चिदप्राप्यमिति विद्धि जनाधिप
बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोकमितो गताः
सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम्
ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम्
ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते
प्रत्यक्षं च तथाप्येतद्ब्राह्मणेषु तपस्विषु
बिभेति च यथा शक्रो ब्रह्मचर्य प्रधर्षितः
तद्ब्रह्मचर्यस्य फलमृषीणामिह विद्यते
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु
शुश्रूषते यः पितरं न चासूयेत्कथञ्चन
मातरं वाऽनहं वाऽपि गुरुमाचार्यमेव च
तस्य पार्थफलं विद्धि स्वर्लोके स्थानमुत्तमम्
न च पश्येत नरकं गुरुशुश्रूषुरात्मवान्