युधिष्ठिरः-
दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ
विस्तरेण महाबाहो नाहं तृप्यामि कथ्यताम्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ऋषिरौद्दालकिर्दीक्षामुपगम्य ततः सुतम्
त्वं मामुपचरस्वेति नाचिकेतमभाषत
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत्
उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च
इध्मा दर्भास्सुमनसः कलशश्चाभितो जलम्
विस्मृतं मे तदादाय नदीतीरादिहाव्रज
गत्वाऽनवाप्य तत्सर्वं नदीवेगसमाप्लुतम्
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिम्
क्षुत्पिपासाश्रमाविष्टो मुनिरौद्दालकिस्तदा
यमं पश्येति तं पुत्रमशपत्क्रोधमूर्च्छितः
तथा पित्रा स निहतो वाग्वज्रेण कृताञ्जलिः
प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि
नाचिकेतं प्रिता दृष्ट्वा पतितं दुःखमूर्च्छितः
किं मया कृतमित्युक्त्वा निपपात महीतले
तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः
व्यतीतं तदहश्शेषं सा चोग्रा शर्वरी तदा
पित्र्येणास्रप्रपातेन नाचिकेतः कुरूद्वह
प्रास्यन्दच्छयने शुभ्रे वृष्ट्या सस्यमिवाप्लुतम्
पर्यपृच्छत्ततः पुत्रं श्लाघ्यं पत्यागतं पुनः
दिव्यैर्गन्धैस्समादिग्धं क्षीणस्वप्नमिवोत्थितम्
औद्दालकिः-
अपि पुत्र जिता लोकाश्शुभास्ते स्वेन कर्मणा
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः
भीष्मः-
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना
अभ्युत्थाय पितुर्मध्ये महर्षीणां न्यवेदयत्
नाचिकेतः-
कुर्वन्भवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभासाम्
वैवस्वतीं प्राप्य सभामवश्यं सहस्रशो योजनहैमभौमाम्
दृष्टैव मामभिमुखमापतन्तं गृहं निवेद्यासनमादिदेश
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां सः
ततस्त्वहं तं शनकैरवोचं वृतं सदस्यैरभिपूज्यावनम्य
प्राप्तोऽस्मि ते विषयं धर्मराज लोकानहं यामि तन्मे विधत्स्व
यमोऽब्रवीन्मां न मृतोऽसि सौम्य यमं पश्येत्याह तु त्वां तपस्वी
पिता प्रदीप्ताग्निसमानतेजा न तत्छक्यमनृतं विप्रकर्तुम्
दृष्टस्तेऽहं प्रतिगच्छस्व तातं शोचत्यसौ तव देहस्य कर्ता
ददानि किञ्चापि मनःप्रतीतं प्रियातिथेस्तव कामं वृणीष्व
तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम्
इच्छाम्यहं पुण्यकृतां समृद्धाल्ँलोकान्द्रष्टुं यदि तेऽहं वरार्हः
यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमत्तत्
सन्दर्शयामास तदाऽऽत्मलोकान्सर्वांस्तथा पुण्यकृतां द्विजेन्द्र
अपश्यं तत्र वेश्मानि तैजसानां कृतात्मनाम्
नानासंस्थानरूपाणि सर्वरत्नमयानि तु
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च
अनेकशतभौमानि सान्तर्जलवनानि च
वैडूर्यार्कप्रकाशानि रूप्यरूपमयानि च
तरुणादित्यवर्णानि स्थावराणि चराणि च
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च
सर्वकामफलैश्चैव वृक्षान्भवननिष्ठितान्
नद्यो वीथ्यस्सभा वापीर्दीर्घिकाश्चैव नित्यशः
घोषवन्ति च यानानि युक्तान्येव सहस्रशः
क्षीरस्रवा वै सरितो गिरींश्चैव ससर्पिषः
वैवस्वतस्यानुमतांश्च देशानदृष्टपूर्वान्सुबहूनपश्यम्
सर्वं दृष्ट्वा ह्यगमं धर्मराजमवोचं वै सर्वदेवं सहिष्णुम्
क्षीरस्यैतास्सर्पिषश्चैव नद्यश्शश्वत्स्रोताः कस्य भोज्याः प्रवृत्ताः
यमोऽब्रवीद्विद्धि भोज्यांस्त्वमेतान्ये दातारस्साधवो गोरसानाम्
अन्ये लोकाश्शाश्वता वीतशोकास्समाकीर्णा गोप्रदाने रतानाम्
न त्वेतासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च
ज्ञात्वा देया विप्र गवान्तरं हि दुःखं ज्ञात्वा पावकादित्यभूतम्
स्वाध्यायाध्यायी ह्यतिमात्रं तपस्वी वैतानस्थो ब्राह्मणः पात्रमासाम्
गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः
अन्तर्जातास्सुक्रयज्ञानलब्धाः प्राणक्रीतास्सोदकास्सोद्वहाश्च
तिस्रो रात्र्यस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः
वत्सैः प्रीतास्सुप्रजास्सोपचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्
दत्त्वा धेनुं सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीं च
यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते देवलोकम्
तथाऽनड्वाहं ब्राह्मणाय प्रदाय दान्तं धुर्यं बलवन्तं युवानम्
कुलोपजीव्यं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान्सम्मितान्धेनुदस्य
वृत्तिग्लाने सम्भृृत वा महार्थे शान्त्यर्थं वा हौम्यहेतोः प्रसूत्याम्
गुर्वर्थे वा यज्ञसमाप्तये वा गां वै दातुं देशकालो विशिष्टः
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रवम्
अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति
ततो यमोऽब्रवीद्धीमान्गोप्रदानं ततो गतिम्
गोप्रदानानुकल्पात्तु गामृते सन्तु गोप्रदाः
अलाभे यो गवां दद्याद्धृतधेनुं यतव्रतः
तमिमा घृतवाहिन्यः क्षरन्ते वत्सला इव
घृतालाभे तु यो दद्यात्तिलधेनुं यतव्रतः
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते
तिलालाभे तु यो दद्यत्क्षीरधेनुं यतव्रतः
स कामप्रवहां शीतां नदीमेतामुपाश्नुते
एवमादीनि मे तत्र धर्मराजो व्यदर्शयत्
दृष्ट्वा च परमं हर्षमवापमहमच्युत
निवेदये चापि प्रियं भवत्सु क्रतुर्महानल्पधनप्रचारः
प्राप्तो मया तात्र स मत्प्रसूतः प्रवर्त्स्यते वेदविधिप्रवृत्तः
शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो मे
दानर्व्युष्टिं तत्र दृष्ट्वा महार्हां निस्सन्दिग्धो दानधर्मांश्चरिष्ये
इदं च मामब्रवीद्धर्मराजः पुनः पुनस्सम्प्रहृष्टो द्विजर्षे।
दाने तावत्प्रयतोऽभूत्सदैव विशेषतो गोप्रदानं च कुर्याः
शुद्धो ह्यर्थो नावमन्यस्व धर्मं पात्रे देयं देशकालोपपन्नम्
तस्माद्गावस्ते नित्यमेव प्रदेया मा भूच्च ते संशयः कश्चिदत्र
एताः पुरा अददन्नित्यमेव शान्तात्मानो दानवशे निविष्टाः
तपांस्युग्राण्यप्रतिशंसमानाः पुनर्दानं प्रददुश्चैव शक्त्या
काले च शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानश्शीलिनः पुण्यशीलाः
दत्त्वा गा वै लोकममुं प्रपन्नास्ते दीप्यन्ते पुण्यशीलाश्च लोके
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे वित्तं प्रापणीयं परीक्ष्य
काम्येऽष्टम्यां वर्तितव्यं दशाहं रसैर्गवां शकृता प्रस्रवैर्वा
देवव्रती स्याद्वृषभप्रदाता वेदावाप्तिर्गोयुगस्य प्रदाने
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने पापोत्सर्गः कपिलायाः प्रदाने
गामप्येकां कपिलां सम्प्रदाय न्यायोपेतां कलुषाद्विप्रमुच्येत्
गवां रसात्परमं नास्ति किञ्चिद्गवां दानं सुमहत्तद्वदन्ति
गावो लोकांस्तारयन्ति क्षरन्त्यो गावश्चान्नं सञ्जनयन्ति लोके
यस्तं जानन्न गवां हार्दमेति स वै गन्ता निरयं पापचेताः
यत्ते दातुं गास्सहस्रं शतं वा शशार्धं वा दश वा साधुवत्साः
अप्येकां वा साधवे सम्प्रदाय यास्यामुष्मिन्पुण्यतीर्था नदीर्वै
प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्यास्सूर्यपादैः पृथिव्याम्
शब्दश्चैकस्सन्नतिश्चोपभोगास्तस्माद्गोदस्सूर्य इवाभिभाति
गुरुं शिष्यो वरयेद्गोप्रदाने स वै कर्ता नियतस्स्वर्गदाने
विधिज्ञानात्सुमहानेष धर्मो विधिं विद्याविनयास्संश्रयन्ति
त्वय्याशंसन्त्यमरा दानवाश्च वयं चापि प्रसृते पुण्यशील
इत्युक्तोऽहं धर्मराज्ञा महर्षे धर्मात्मानं शिरसाऽभिप्रणम्य
अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम्