भीष्मः-
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने
नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः
अदृश्यत महाकूपस्तृणवीरुत्समावृतः ||
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते
ददृशुस्ते महाकायं कृकलासमवस्थितम्
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः
प्रग्रहैश्चैव पट्टैश्च तं बद्ध्वा पर्वतोपमम्
नाशक्नुवन्समुद्धर्तुम्ततो जग्मुर्जनार्दनम्
खमावृत्योदपानस्य कृकलासस्स्थितो महान्
तस्य नास्ति समुद्धर्तेत्येतत्कृष्णे न्यवेदयन्
स वासुदेवेन समुद्धृतश्च पृष्टश्च कामान्निजगाद राजा
नृगस्तदाऽऽत्मानमथो न्यवेदयत्पुरातनं क्रतुसहस्रयाजिनम्
तथा ब्रुवाणं तु तमाह माधवश्शुभं त्वया कर्म कृतं न पापकम्
अथो भवान्दुर्गतिमीदृशीं गतो नरेन्द्र तद्ब्रूहि किमेतदीदृशम्
शतं सहस्राणि शतं गवां पुनर्गवां शतान्यष्टशतायुतानि
त्वया पुरा दत्तमितीह शुश्रुमो नृप द्विजेभ्यः क्व नु तत्तथा गतम्
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने
गवां सहस्रे सङ्ख्याते तदा तैः पशुपैर्मम
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता
अपश्यत्परिमार्गंश्च तां गां परगृहे द्विजः
ममेयमिति चोवाच ब्राह्मणो यस्य साऽभवत्
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ
भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः
तत्तेन शतसङ्ख्येन गवां विनिमयेन वै
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम्
देशकालोपसन्ना मे दोग्ध्री कान्ताऽतिवत्सला
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने
श्रियं च भरते सा गौर्मम पुत्रमपस्तनम्
न सा शक्या मया दातुमित्युक्त्वा स जगाम ह
ततस्तमपरं विप्रं याचे विनिमयेन वै
गवां शतसहस्रं वै तत्कृते गृह्यतामिति
न राज्ञः प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन
रुक्ममश्वांश्च ददतो रजततान्स्यन्दनांस्तथा
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः
एतस्मिन्नेव काले तु चोदितः कालधर्मणा
पितृलोकमहं प्राप्य धर्मराजमुपागमम्
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत्
नान्तस्सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया
चरस्व पापं पश्चाद्वा पूर्वं वाऽपि यथेच्छसि
रक्षितास्मीति चोक्तं ते प्रतिज्ञा च त्वया कृता
ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः
पूर्वं कृच्छ्रं चरित्वाऽहं पश्चाच्छुभमिति प्रभो
धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले
अश्रौषं पच्युतश्चाहं यमस्योच्चैः प्रभाषतः
वासुदेवस्समुद्धर्ता भविता ते जनार्दनः
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते
प्राप्स्यसे शाश्वताल्ँलोकाञ्जितान्स्वेनैव कर्मणा
कूपेत्मानमधश्शीर्षमपश्यं मां पतितं च ह
तिर्यग्योनिमनुप्राप्तं न च मामजहात्स्मृतिः
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात्
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै
अनुज्ञातस्स कृष्णेन नमस्कृत्य जनार्दनम्
विमानं दिव्यमास्थाय ययौ दिवमरिन्दमः
ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम
वासुदेव इमाञ्श्लोकाञ्जगाद कुरुनन्दन
ब्राह्मणस्वं न हर्तव्यं क्षत्रयेण विशेषतः
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव
सतां समागमस्सद्भिर्नाफलः पार्थ विद्यते
विमुक्तं नरकात्पश्य नृगं साधुसमागमात्
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाऽबलः
अपहारं गवां तस्माद्वर्जयेत युधिष्ठिर