युधिष्ठिरः
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा
कथयस्व महाप्राज्ञ भूमिदानाद्विशिष्यते
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः
वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि
भीष्मः-
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च
सर्वकामफलानीह गावः पृथ्वी सरस्वती
यः प्रब्रवीति शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम्
पृथिवीगोप्रदानाभ्यां तुल्यं स फलमश्नुते
तथैव गाः प्रशंसन्ति न तु देयं ततः परम्
सन्निकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर
मातरस्सर्वभूतानां गावस्सर्वसुखप्रदाः
वृद्धिमाकाङ्क्षता नित्यं गवां कार्यं प्रदक्षिणम्
मङ्गलायतनं देव्यस्तस्मात्पूज्यास्सदैव गाः
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम्
पूर्वमेवाक्षरं नान्यदभिधेयं कथञ्चन
प्रचारे वा निवाते वा बुधो नोद्वेजयेत गाः
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युस्सबान्धवम्
पितृसद्मानि सततं देवतायतनानि च
पूयन्ते शकृता यासां किं भूयश्चाधिकं ततः
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम्
स हि पुत्रान्यशोऽर्थं च श्रियं चाप्यधिगच्छति
नाशयत्यशुभं चैव दुस्स्वप्नं चाप्यपोहति
युधिष्ठिर उवाच
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत्
कीदृशाय प्रदातव्या न देयाः कीदृशाय च
भीष्मः-
असद्वृत्ताय पापाय लुब्धायानृतवादिने
हव्यकव्यव्यपेताय न देया गौः कथञ्चन
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये
दत्त्वा दशशतं गावो लोकानाप्नोत्यनुत्तमान्
जुहोति यद्भोजयति यद्ददाति गवां रसैः
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवर्तितः
यश्चैनमुत्पादयते यश्चैनं त्रायते भयात्
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः
अपुत्रतां त्रयः पुत्रा कुवृत्तिं दश धेनवः
वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य
शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च
यः क्षुद्भयाद्वै न विकर्म कुर्यान्मृदुर्दान्तश्चातिथिर्यस्य नित्यम्
वृत्तिं विप्रायातिसृजेत तस्मै यस्तुल्यदानश्च सपुत्रदारः
शुभे पात्रे ये गुणा गोप्रदाने तावन्तो दोषो ब्राह्मणस्वापहारे
सर्वापस्तु ब्राह्मणस्वापहारे दाराश्चैषां दूरतो वर्जनीयाः
विप्रदारे परिहृते विप्रस्वनिचये तथा
परित्रायन्ति शक्तास्तु नमस्तेभ्यो मृतास्तु वा
न पालयन्ति चेत्तस्य हन्ता वैवस्वतो यमः
दण्डयन्भर्त्सयन्नित्यं निरयेभ्यो न मुञ्चति
तथा गवां परित्राणे पीडने च शुभाशुभम्
विप्रगोषु विशेषेण रक्षितेषु हतेषु वा