युधिष्ठिरः-
तिलानां कीदृशं दानमथ दीपस्य चैव ह
अन्नानां वाससां चैव भूय एव ब्रवीहि मे
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरनु
पर्णशालेति विख्यातो रमणीयो नराधिप
विद्वांसस्तत्र भूयिष्ठं ब्राह्मणाश्चावसंस्तथा
अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम्
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम्
यमः-
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम्
शमे निविष्टं विद्वांसमध्यापकमनावृतम्
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना
अपत्येषु तथा वृत्ते समस्तेनैव धीमता
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे
भीष्मः-
स गत्वा प्रतिकूलं तच्चकार च यमाश्रयः
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः
तस्मै यमस्समुत्थाय पूजां कृत्वा च वीर्यवान्
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति
एवमुक्ते तु वचने धर्मराजेन स द्विजः
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत
यमः-
नाहं कालस्य विहितं प्रापश्यमीह किञ्चन
यो हि धर्मं कथयति तं तु जानामि केवलम्
गच्छ विप्र त्वमद्यैव आलयं सुमहाद्युते
ब्रूहि वा त्वं यथा स्वैरं करवाणि किमच्युत
ब्राह्मणः-
शुद्धदानं च सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे
सर्वस्य च प्रमाणं तु त्रैलोक्यस्यापि सत्तम
यमः-
शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम्
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम्
तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ
नित्यदानात्सर्वकामांस्तिला निर्वापयन्त्युत
तिलाञ्श्राद्धेषु शंसन्ति दानमेतदनुत्तमम्
तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा
तिला भक्षयितव्याश्च दत्त्वा चालभनं च तैः
कार्यं सततमिच्छद्भिश्श्रेयस्सर्वात्मना भवेत्
तथाऽऽपस्सर्वदा देयास्सर्वजातिष्वसंशयम्
पुष्करिण्यस्तटाकानि कूपांश्चैवात्र खानयेत्
यदेतद्दुर्लभमिदं मम लोके द्विजोत्तम
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम्
प्रपाश्च कार्या दानार्थं नित्यं ते द्विजसत्तम
भुक्तेः प्रथमदेयं ते पानीयं तु विशेषतः
भीष्मः-
इत्युक्ते सहसा तेन यमदूतेन वै गृहान्
नीतश्चकार स तदा सर्वं तद्यमशासनम्
नयित्वा यमदूतोऽपि गृहीत्वा शर्मिणं तदा
ययौ स धर्मराजाय न्यवेदयदथापि तम्
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान्
कृत्वा च संविदं तेन विससर्ज यथागतम्
तस्यापि च यमस्सर्वमुपदेशं चकार ह
प्रेत्यैत्य च स तत्सर्वम्चकारोक्तं यमेन तत्
तथा प्रशंसते दीपान्यमः पितृहितेप्सया
तस्माद्दीपप्रदो नित्यं सन्तारयति वै पितॄन्
दातव्यास्सततं दीपास्तस्माद्भरतसत्तम
देवतानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो
रत्नदानं च विधिवत्पुण्यमुक्तं जनाधिप
तानि विक्रीय यजते ब्राह्मणेभ्योऽभयङ्करम्
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै
उभयोस्स्यात्तदक्षय्यं दातुरादातुरेव च
यो ददाति स्थितिं स्थित्यां तादृशाय प्रतिग्रहम्
उभयोरक्षयं धर्मम्स चैनं प्राह धर्मवित्
वाससां तु प्रदानेन स्वदारनिरतो नरः
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम
गावस्सुवर्णं च तथा तिलाश्चैवानुवर्णिताः
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात्
विवाहं चैव कुर्वीत पुत्रानुत्पादयेत च
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते