युधिष्ठिरः-
श्रुतं दानफलं तात त्वया परिकीर्तितम्
अन्नन्तु यद्विशेषेण प्रशस्तमिह भारत
पानीयदानं परमं कथं चेह महाफलम्
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह
भीष्मः-
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते फलम्
न ताभ्यां परमं दानं किञ्चिदस्तीति मे मतिः
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः
सावित्र्या अपि कौन्तेय श्रूयते वचनं शुभम्
यच्चेदं नान्यथा चैतद्देवसत्रे महामखे
अन्ने दत्ते नरेन्द्रेण प्राणा दत्ता भवन्त्युत
प्राणदानाद्धि परमं न दानमिह विद्यते
श्रुतं हि ते महाबाहो लोमशस्य च तद्वचः
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा
तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते
ततो विशिष्टां गच्छन्ति तोयदा इति नश्श्रुतं
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम
नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः
अमृतं च सुधा चैव सुधा चैवामृतं तथा
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः
देवानाममृतं चान्नं नागानां च सुधा तथा
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः
पुरा गन्धर्वयक्षेषु पानीयात्सम्प्रवर्तते
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित्
यतः प्राणभृतां प्राणास्सम्भवन्ति विशां पते
तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः
धन्यं यशस्यमायुष्यं जलदानं विशां पते
शत्रूंश्च युधि कौन्तेय सदा जयति तोयदः
सर्वान्कामानवाप्नोति लोकानित्यब्रवीन्मनुः
प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते
अक्षयान्समवाप्नोति कीर्तिं चैव हि शाश्वतीम्